Enter your Email Address to subscribe to our newsletters


पटना, 14 सितंबरमासः (हि.स.)।मुख्यमन्त्री सम्राट्चौधरी पटना-नगरे सर्पेन्टाइनरोड्, दारोगाप्रसादरायपथे महाराष्ट्रमण्डलेन आयोजितायां श्रीगणेशोत्सवपूजायां सम्मिलितः।
अस्मिन् अवसरे मुख्यमन्त्रिणा विधिवत् पूजाऽर्चना कृत्वा भगवान् श्रीगणेशात् प्रदेशवासिनां सुखस्य, शान्तेः समृद्धेश्च कामना कृता। महाराष्ट्रमण्डलस्य सदस्यैः मुख्यमन्त्रिणः पुष्पगुच्छेन, अङ्गवस्त्रेण स्मृतिचिह्नेन च सत्कारः कृतः। तस्मै पगडी अपि धारिता। मुख्यमन्त्रिणा श्रीगणेशोत्सवपूजायाः आयोजनाय महाराष्ट्रमण्डलस्य सदस्येभ्यः शुभकामनाः प्रदत्ताः।
मुख्यमन्त्री गणेशचतुर्थ्याः अवसरे शुभकामनाः प्रददन् अवदत् यत् भगवान् श्रीगणेशः सर्वेषां जीवने सुखं, शान्तिं, समृद्धिं सफलतां च प्रददातु तथा बिहारप्रदेशः निरन्तरं विकासस्य मार्गे अग्रे वर्धताम्।
अस्मिन् अवसरे नागरिकविमाननविभागस्य सचिवः डॉ. नीलेशरामचन्द्रदेवरे, दुग्धव्यवसायस्य, मत्स्यपालनस्य पशुसंसाधनविभागस्य च सचिवः शीर्षतकपिलअशोकः, मुख्यमन्त्रिसचिवालयस्य संयुक्तसचिवः श्रीकान्तकुण्डलिकखाण्डेकरः सहिताः महाराष्ट्रमण्डलस्य सदस्याः, अन्ये जनाः श्रद्धालवश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani