Enter your Email Address to subscribe to our newsletters

जयपुरम्, १४ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा सोमवासरे गणेशचतुर्थ्याः अवसरे जयपुरस्थिते मोतीडूंगरीमन्दिरे भगवान् श्रीगणेशस्य दर्शनं कृतवान्। अस्मिन् अवसरे तेन सपत्नीकं विधिवत् पूजार्चनां कृत्वा प्रदेशस्य सुखसमृद्ध्यै प्रार्थना कृता।
अस्मिन् अवसरे मुख्यमन्त्रिणा सर्वेभ्यः प्रदेशवासिभ्यः गणेशचतुर्थीपर्वणः शुभ-कामनाः प्रदत्ताः। मुख्यमन्त्रिणा कामना कृता यत् विघ्नहर्तुः मङ्गलकर्तुः भगवत: श्रीगणेशस्य कृपया सर्वेषां प्रदेशवासिनां जीवने सुखं समृद्धिश्च आगच्छेताम्।
Hindusthan Samachar / Divya Ranjan