Enter your Email Address to subscribe to our newsletters

प्रधानमन्त्रिणः मोदिनः जन्मदिवसे दीपप्रज्वालनेन कृतज्ञतां प्रकटयिष्यते।
मुख्यमन्त्रिणा डॉ. मोहनयादवेन सेवासङ्कल्पाभियानस्य सज्जतानां समीक्षा कृता।
भोपालम्, १४ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रज्वलितस्य विकासदीपस्य प्रकाशः सम्पूर्णे देशे प्रसृतो भवति। अयं प्रकाशः मोदिनः सेवायाः उत्तरदायित्वस्य च पञ्चविंशतिवर्षीयस्य उज्ज्वलकालस्य प्रतीकम् अस्ति। प्रदेशे सेवासङ्कल्पाभियानं १७ सितम्बरतः १७ अक्टोबरपर्यन्तं सञ्चालयिष्यते। प्रदेशवासिनः प्रधानमन्त्रिणः मोदिनः जन्मदिवसे १७ सितम्बरदिनाङ्के बहुसङ्ख्यया दीपान् प्रज्वालयित्वा तं प्रति कृतज्ञतां प्रकटयिष्यन्ति। अस्मिन् अवसरे दीपप्रज्वालने विश्वविक्रमः स्थाप्येत इति अस्माकं प्रयासः भवेत्।
एतद् मुख्यमन्त्री डॉ. यादवः सोमवासरे भोपालस्थिते समत्वभवने सेवासङ्कल्पाभियानस्य प्रदेशे प्रचलितानां सज्जतानां समीक्षायाः समये उक्तवान्। तेन निर्देशः दत्तः यत् सेवासङ्कल्पाभियानस्य आयोजनं ग्रामेषु नगरेषु च अधिकाधिकजनसहभागितां सुनिश्चित्य उत्साहपूर्वकं क्रियताम्। सर्वेषां कार्यक्रमाणां पूर्वसज्जतायै अधिकारिणां कर्मचारिणां च दायित्वं निर्धारितं कृत्वा प्रभावी निरीक्षणं क्रियताम्। विभिन्नकार्यक्रमाणां व्यवस्थायै अधिकारिभिः कर्मचारिभिः सह जनप्रतिनिधिभिः अपि उत्तमसमन्वयः तथा सर्वसम्बद्धानां शतप्रतिशतसहभागिता सुनिश्चितीकरणीया।
मुख्यमन्त्री डॉ. यादवः अवदत् यत् ‘सेवायाः रङ्गाः राष्ट्रेण सह’ इति कार्यक्रमस्य अन्तर्गतं जबलपुरे मानवरङ्गावल्याः राज्यस्तरीयम् आयोजनं भविष्यति।
सभायां उपमुख्यमन्त्री राजेन्द्रशुक्लः, मन्त्री कैलासविजयवर्गीयः, मन्त्री प्रह्लादपटेलः, मन्त्री राकेशसिंहः, मन्त्री निर्मलाभूरिया, मन्त्री विश्वाससारङ्गः, नागरसिंहचौहानः, मन्त्री राकेशशुक्लः, मन्त्री इन्दरसिंहपरमारः तथा राज्यमन्त्री नरेन्द्रशिवाजीपटेलः च आभासीयमाध्यमेन सम्मिलिताः। समत्वभवने आयोजितायां सभायां मुख्यसचिवः अशोकबर्णवालः, अपरमुख्यसचिवः नीरजमण्डलोई, केसीगुप्तः, सञ्जयदुबे, अनुपमराजनः, सञ्जयशुक्लः, शिवशेखरशुक्लः अन्ये च अधिकारिणः उपस्थिताः आसन्। सभायां सर्वे सम्भागायुक्ताः जिलाधिकारिणश्च आभासीयमाध्यमेन सम्बद्धाः आसन्।
अभियानस्य अन्तर्गतं सञ्चाल्यमानासु गतिविधिषु प्रस्तुतीकरणम्
सेवासङ्कल्पाभियानस्य शुभारम्भः प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसे १७ सितम्बरदिनाङ्के ‘आशीर्वादस्य दीपः’ इति कार्यक्रमस्य अन्तर्गतं प्रदेशे दीपप्रज्वालनेन भविष्यति। उज्जैनस्य महाकालमहालयः सहितं प्रदेशस्य सर्वासु ग्रामपञ्चायतेषु नगरीयनिकायानां प्रत्येकस्मिन् वार्डे च सायं सप्तवादने एकस्मिन् समये दीपाः प्रज्वालयिष्यन्ते। मुख्यमन्त्री डॉ. यादवः उज्जैनस्य कार्यक्रमे सहभागी भविष्यति। प्रदेशस्य सर्वेषां लाभार्थिपरिवाराणां संस्थानां च दीपप्रज्वालने सहभागिता सुनिश्चितीकरिष्यते। अस्मिन् महत्त्वपूर्णे अवसरे मध्यप्रदेशः दीपप्रज्वालने विश्वविक्रमं स्थापयेत् इति प्रयासः अस्ति। अस्मिन्नेव दिने सर्वेषु स्वास्थ्यकेन्द्रेषु चिकित्सामहाविद्यालयेषु च रक्तदानशिबिराणि आयोजयिष्यन्ते। सभायां रक्तसङ्ग्रहस्य, परिवहनस्य, संरक्षणस्य च आवश्यकव्यवस्थां कर्तुं निर्देशाः दत्ताः। कार्यक्रमस्य राज्यप्रभारी नगरीयविकास-आवासमन्त्री कैलासविजयवर्गीयः भविष्यति।
सेवासङ्कल्पाभियानस्य अन्तर्गतं ‘मम स्वप्नानां भारतम्’ इति कार्यक्रमे १९ सितम्बरतः २६ सितम्बरपर्यन्तं जनपदस्तरे तथा ४ ५ अक्टोबरदिनाङ्कयोः राज्यस्तरे चित्रकलायाः भाषणस्य च प्रतियोगिताः भविष्यन्ति। एतासु प्रतियोगितासु सर्वे शासकीयाः निजीविद्यालयाः महाविद्यालयाश्च सहभागितां करिष्यन्ति। राज्यस्तरीयप्रतियोगितायाः विजेतृविद्यार्थिभ्यः पुरस्काराः मुख्यमन्त्रिणा हस्ताक्षरितानि प्रमाणपत्राणि च वितरिष्यन्ते। कार्यक्रमस्य राज्यप्रभारी विद्यालयशिक्षामन्त्री रावउदयप्रतापसिंहः भविष्यति।
‘नमोसेवा-अनुक्तकथाः’ इति गतिविधिः १९ सितम्बरतः ५ अक्टोबरपर्यन्तं भविष्यति। अस्याः अन्तर्गतं विभिन्नेषु सार्वजनिकस्थलेषु पथनाटिकानां प्रस्तुतयः भविष्यन्ति। कार्यक्रमस्य राज्यप्रभारी संस्कृतिमन्त्री धर्मेन्द्रसिंहलोधी भविष्यति।
‘आङ्गणमेलनसेवा’ इति कार्यक्रमस्य आयोजनं २६ सितम्बरतः ५ अक्टोबरपर्यन्तं सर्वासु आङ्गणवाडिषु भविष्यति। अस्य अन्तर्गतं बालकेभ्यः मातृभ्यश्च अल्पाहारस्य, क्रीडासामग्र्याः, पठनसामग्र्याः इत्यादीनां व्यवस्था क्रियते। मुख्यमन्त्रिणः आह्वानस्य चलचित्रमपि आङ्गणवाडीषु महिलाभ्यः बालकेभ्यश्च दर्शयिष्यते। आङ्गणमेलनसेवायां स्वास्थ्यस्य, पोषणस्य, टीकाकरणस्य, रक्ताल्पतायाः स्वच्छतायाश्च विषये सूचना प्रदास्यते। कार्यक्रमस्य राज्यप्रभारी महिला-बालविकासमन्त्री निर्मलाभूरिया भविष्यति।
‘सेवायाः कथा’ इति कार्यक्रमः १७ सितम्बरतः १७ अक्टोबरपर्यन्तं भविष्यति। अस्य अन्तर्गतं केन्द्रसर्वकारस्य राज्यसर्वकारस्य च योजनाभिः येषां लाभार्थिनां जीवनं परिवर्तितम् अस्ति, तेषां कृतज्ञतारूपाः सन्देशाः प्रसारिताः भविष्यन्ति। कार्यक्रमस्य राज्यप्रभारी नगरीयविकास-आवासराज्यमन्त्री श्रीमती प्रतिमाबागरी भविष्यति।
‘सेवाज्योतिः कलशयात्रा’ ७ अक्टोबरदिनाङ्के प्रत्येकस्मिन् विधानसभाक्षेत्रे आयोजयिष्यते। अस्य अन्तर्गतं जनपदविकासपुस्तिकानां वितरणं जनपदे सम्पन्नानां विकासगतिविधीनां विषये चर्चा च भविष्यति। कार्यक्रमस्य राज्यप्रभारी क्रीडा-युवकल्याणमन्त्री विश्वाससारङ्गः भविष्यति।
बडनगरतः वाराणसीपर्यन्तं सेवायात्रायाः अवधि १७ सितम्बरतः ७ अक्टोबरपर्यन्तं भविष्यति। प्रदेशस्य सर्वेषां जनपदानां मध्येन इयं यात्रा गमिष्यति। कार्यक्रमस्य प्रभारी लोकस्वास्थ्य-चिकित्साशिक्षामन्त्री नरेन्द्रशिवाजीपटेलः भविष्यति।
‘सेवा मम योगदानम्’ इति कार्यक्रमः २ अक्टोबरतः १० अक्टोबरपर्यन्तं भविष्यति। अस्य अन्तर्गतं समाजस्य सर्वेषां वर्गाणां संस्थानां च सहभागितया विविधाः सेवागतिविधयः सञ्चालयिष्यन्ते। कार्यक्रमस्य राज्यप्रभारी लोकनिर्माणमन्त्री राकेशसिंहः भविष्यति।
‘सेवासेत्वभियानम्’ २ अक्टोबरतः १० अक्टोबरपर्यन्तं भविष्यति। कार्यक्रमे विकासखण्डस्तरे नगरीयनिकायेषु च क्षेत्रानुसारं शिबिराणाम् आयोजनं भविष्यति। केन्द्रसर्वकारस्य राज्यसर्वकारस्य च विविधासु लाभार्थिमूलकयोजनासु पात्रेभ्यः लाभार्थिभ्यः तत्रैव योजनानां लाभः प्रदास्यते। अस्मिन् कार्यक्रमे जनविश्वासाभियानमपि संयोजयिष्यते। कार्यक्रमस्य राज्यप्रभारी लोकस्वास्थ्य-चिकित्साशिक्षामन्त्री राजेन्द्रशुक्लः भविष्यति।
‘सेवायाः रङ्गाः राष्ट्रेण सह’ इति कार्यक्रमस्य अन्तर्गतं भोपाल, इन्दौर, जबलपुर, ग्वालियर, झाबुआ अलीराजपुरे च ९ १० अक्टोबरदिनाङ्कयोः व्यापकजनसहभागितया मानवरङ्गावल्याः निर्माणं भविष्यति। कार्यक्रमस्य राज्यप्रभारी अनुसूचितजातिकल्यमन्त्री नागरसिंहचौहानः भविष्यति।
‘सेवा फर्स्ट् इनोवेशन चैलेञ्ज्’ इति कार्यक्रमः १२ अक्टोबरदिनाङ्के भविष्यति। अस्मिन् नवोन्मेषकेन्द्राणां, नवोद्यमनेतॄणां नवोन्मेषकानां च सहभागिता भविष्यति। कार्यक्रमस्य राज्यप्रभारी औद्योगिकनीति-निवेशप्रोत्साहनमन्त्री राकेशशुक्लः भविष्यति।
‘सुशासनसेवासंवादः’ इति कार्यक्रमः राष्ट्रियस्तरे १७ अक्टोबरदिनाङ्के नवदेहल्यां आयोजितः भविष्यति। अस्मिन् प्रदेशस्य पञ्च-सर्पञ्चाः सम्मिलिताः भविष्यन्ति। कार्यक्रमस्य राज्यप्रभारी पञ्चायत-ग्रामीणविकासमन्त्री प्रह्लादपटेलः भविष्यति।
‘२५ वर्षाणि–२५ कथाः’ इत्यस्य अन्तर्गतं सर्वेषु जनपदेषु गणमान्यनागरिकेभ्यः प्रबुद्धवर्गस्य परिवारेभ्यश्च केन्द्रसर्वकारतः प्राप्ताः सामग्रीपुटकाः प्रदास्यन्ते। कार्यक्रमस्य राज्यप्रभारी उच्चशिक्षामन्त्री इन्दरसिंहपरमारः भविष्यति।
‘विकसितभारतसङ्कल्पयात्रा प्रभावकविनिमयकार्यक्रमस्य’ अन्तर्गतं प्रदेशे आगताः अन्यराज्येषु सामाजिकमाध्यमानां प्रभावकाः प्रदेशस्य विभिन्नानां जनपदानां भ्रमणं करिष्यन्ति। कार्यक्रमस्य राज्यप्रभारी उच्चशिक्षामन्त्री इन्दरसिंहपरमारः भविष्यति।
सभायां सेवासेतुमहाशिबिराणां विकासखण्डानुसारं क्षेत्रानुसारं च सज्जतां कृत्वा अधिकाधिकपात्रलाभार्थिभ्यः विभिन्नानां शासकीययोजनानां लाभं प्रदातुं निर्देशाः दत्ताः। तदतिरिक्तं अभियानस्य अन्तर्गतं आयोजितेषु कार्यक्रमेषु सहभागीभवितुं आगच्छतां प्रतिभागिनां आवागमनस्य, भ्रमणस्य, भोजनस्य च उत्तमव्यवस्था सुनिश्चितुं जिलाधिकारिभ्यः निर्देशाः प्रदत्ताः।
Hindusthan Samachar / Dheeraj Maithani