डूटा-सङ्घस्य पूर्वाध्यक्षः आदित्यनारायणमिश्रः अनेकैः शिक्षाविद्भिः सह काँग्रेसदले सम्मिलितः
नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। दिल्लीविश्वविद्यालयशिक्षकसङ्घस्य त्रिवारम् अध्यक्षः स्थितवान् डॉ. आदित्य-नारायणमिश्रेण सह अनेके शिक्षाविदः बुद्धिजीविनश्च सोमवासरे काँग्रेसदलस्य सदस्यतां स्वीकृतवन्तः। काँग्रेसदलस्य मुख्यालये आयोजिते कार्यक्रमे
नई दिल्ली में कांग्रेस मुख्यालय में दिल्ली विश्वविद्यालय शिक्षक संघ (डूटा) के पूर्व अध्यक्ष डॉ. आदित्य नारायण मिश्रा और अन्य शिक्षाविदों के कांग्रेस में शामिल होने के दौरान पार्टी नेता काजी निजामुद्दीन, देवेंद्र यादव और राजेंद्र पाल गौतम।


नई दिल्ली में कांग्रेस मुख्यालय में दिल्ली विश्वविद्यालय शिक्षक संघ (डूटा) के पूर्व अध्यक्ष डॉ. आदित्य नारायण मिश्रा और अन्य शिक्षाविदों के कांग्रेस में शामिल होने के दौरान पार्टी नेता काजी निजामुद्दीन, देवेंद्र यादव और राजेंद्र पाल गौतम।


नई दिल्ली में कांग्रेस मुख्यालय में दिल्ली विश्वविद्यालय शिक्षक संघ (डूटा) के पूर्व अध्यक्ष डॉ. आदित्य नारायण मिश्रा और अन्य शिक्षाविदों के कांग्रेस में शामिल होने के दौरान पार्टी नेता काजी निजामुद्दीन, देवेंद्र यादव और राजेंद्र पाल गौतम।


नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। दिल्लीविश्वविद्यालयशिक्षकसङ्घस्य त्रिवारम् अध्यक्षः स्थितवान् डॉ. आदित्य-नारायणमिश्रेण सह अनेके शिक्षाविदः बुद्धिजीविनश्च सोमवासरे काँग्रेसदलस्य सदस्यतां स्वीकृतवन्तः। काँग्रेसदलस्य मुख्यालये आयोजिते कार्यक्रमे दिल्लीप्रदेश-काँग्रेसप्रभारी काजी निजामुद्दीनः, प्रदेशाध्यक्षः देवेन्द्र-यादवः तथा दलस्य अनुसूचित-जातिविभागस्य राष्ट्रियाध्यक्षः राजेन्द्रपाल-गौतमः सर्वेषां कण्ठे पट्टिकां धारयित्वा तान् विधिवत् दले सम्मिलितवन्तः।

काँग्रेसदलस्य सदस्यतां स्वीकृत्य डॉ. आदित्यनारायणमिश्रः अवदत् यत् लोकसभायाः प्रतिपक्षनेतुः राहुलगान्धिनः हस्तौ सुदृढौ कर्तुं सः काँग्रेसदले आगतः अस्ति। राहुलगान्धी उच्चशैक्षणिकसंस्थासु सार्वजनिकशिक्षाव्यवस्थायां च क्रिय-माणानां सुनियोजितानां आक्रमणानां विरुद्धं निरन्तरं स्वस्य स्वरं प्रकटयति। सर्वकारीयवित्तीयसहायतां प्राप्यमाणानां शैक्षणिकसंस्थानां रक्षणाय तथा सर्वेषां वर्गाणां कृते शिक्षायां सामाजिकन्यायस्य समानतायाश्च सुनिश्चितीकरणाय प्रवर्तमाने सङ्घर्षे सः अपि सहभागी भवितुम् आगतः अस्ति। सः आरोपितवान् यत् सम्पूर्णदेशे सहस्रशः प्राथमिकमाध्यमिकविद्यालयाः च पिधीयन्ते तथा अधुना उच्चशिक्षा अपि एतादृशस्य गम्भीरसङ्कटस्य दिशि अग्रसरति।

राजेन्द्रपालगौतमः नूतनसदस्यानां स्वागतं कुर्वन् अवदत् यत् डॉ. मिश्रः तस्य सहकारिणश्च संविधानस्य लोकतन्त्रस्य सार्वजनिकशिक्षायाश्च रक्षणस्य सङ्कल्पेन एतत् पदम् उत्थापितवन्तः। गौतमः आरोपितवान् यत् दिल्लीविश्वविद्यालये सत्तारूढविचारधारया सम्बद्धेषु कार्यक्रमेषु महती धनराशिः व्ययीक्रियते, यदा तु तेनैव धनेन विद्यार्थिभ्यः छात्रावासाः आधारभूतसुविधाश्च निर्मातुं शक्यन्ते स्म। शिक्षां तावती व्ययीं कृतवती अस्ति यत् सामान्येषु निर्धनेषु च परिवारेषु उच्चशिक्षाप्राप्तिः अत्यन्तं कठिनतरा जाता अस्ति।

दिल्लीप्रदेश-काँग्रेसाध्यक्षः देवेन्द्रयादवः अवदत् यत् डॉ. आदित्यनारायणमिश्रस्य दीर्घः शैक्षणिकः सङ्गठनात्मकश्च अनुभवः युवभ्यः विद्यार्थिभ्यश्च सम्यग्दिशां प्रदर्शयितुं सहायकः भविष्यति। अपरतः दिल्ली-प्रदेशप्रभारी काजी निजामुद्दीनः अवदत् यत् अद्य विद्यार्थिभिः शिक्षकैश्च स्वाधिकाराणां कृते वीथिषु दंडप्रहाराः सोढव्याः भवन्ति तथा च ते आरक्षकस्थानकानि भ्रमितुं बाध्यन्ते। एतादृशी समये प्रबुद्धानां शिक्षाविदां काँग्रेसदलेन सह सम्बद्धता शिक्षायाः अधिकारस्य सङ्घर्षं वैचारिकरूपेण अधिकं सुदृढं करिष्यति।

Hindusthan Samachar / Divya Ranjan