Enter your Email Address to subscribe to our newsletters

अद्य डिजिटल-अन्तर्जालस्य च युगे दूरदर्शनं नूतनवंशाय यद्यपि पूर्ववत् परिचितं नास्ति, तथापि पूर्ववंशानां स्मृतिषु तस्य विशेषं स्थानम् अस्ति। भारते दूरदर्शनप्रसारणस्य आरम्भात् देशस्य सर्वेषु कोणेषु तस्य प्रसारपर्यन्तस्य कथा दूरदर्शनेन सह सम्बद्धा अस्ति।
१५ सेप्टेम्बर १९५९ तमे वर्षे शासकीयप्रसारकरूपेण दूरदर्शनस्य स्थापना अभवत्। प्रारम्भिके काले जनानां कृते दूरदर्शनं कौतूहलात् न्यूनं नासीत्। येषां गृहेषु दूरदर्शनयन्त्रम् आसीत्, तत्र कार्यक्रमान् द्रष्टुं समीपस्थाः जनाः समागच्छन्ति स्म। गृहच्छदिषु स्थापितम् दूरदर्शनस्य अन्तेना अपि तस्मिन् काले सामाजिकप्रतिष्ठायाः प्रतीकं मन्यते स्म। दूरदर्शनस्य प्रारम्भिकेषु वर्षेषु प्रसारणं सीमितकालाय भवति स्म। १९६५ तमे वर्षे नियमितदैनिकप्रसारणस्य आरम्भः अभवत्। तस्मिन् समये दूरदर्शनम् आकाशवाण्याः एकम् अङ्गरूपेण कार्यं करोति स्म। ततः दूरदर्शनस्य विस्तारः निरन्तरं जातः। १९७२ तमे वर्षे मुम्बई-अमृतसरयोः पर्यन्तं तस्य सेवा प्रापिता। शनैः शनैः तस्य प्रसारः देशस्य अन्येषु भागेष्वपि अभवत् तथा च ग्रामीणक्षेत्रेष्वपि तस्य परिचय: अभवत्।
दूरदर्शनस्य इतिहासे १९८२ तमं वर्षम् एकं महत्त्वपूर्णं सोपानम् आसीत्। अस्मिन् एव वर्षे देशे राष्ट्रियप्रसारणस्य आरम्भः अभवत् तथा दूरदर्शनेन श्वेत-श्यामप्रसारणात् रङ्गीनप्रसारणस्य जगति प्रवेशः कृतः। रङ्गीनदूरदर्शनस्य आगमनेन दर्शकानां अनुभवः पूर्णतया परिवर्तितः।
महत्त्वपूर्णाः घटनाः
१८१२ – नेपोलियनस्य नेतृत्वे फ्रान्सदेशस्य सेना मॉस्कोनगरस्य क्रेम्लिन्-प्रासादं प्राप्तवती।१९५९ – भारतस्य राष्ट्रियप्रसारणसेवायाः दूरदर्शनस्य च आरम्भः अभवत्।१९८२ – लेबनानस्य निर्वाचितस्य राष्ट्रपतेः बशीर गेमायेलस्य पदग्रहणात् पूर्वमेव बमविस्फोटे हत्या अभवत्।१८९४ – प्योंगयाङ्ग-युद्धे जापानदेशेन चीनदेशः पराजितः।१९१६ – प्रथमविश्वयुद्धे प्रथमवारं सोम-युद्धे टैङ्कयानस्य प्रयोगः कृतः।१९४८ – स्वतन्त्रभारतस्य प्रथमं ध्वजपोतं आईएनएस दिल्ली बम्बईनगरस्य (अधुना मुम्बई) पत्तने प्राप्तम्।१९५९ – भारतस्य राष्ट्रियप्रसारणसेवायाः दूरदर्शनस्य आरम्भः अभवत्।१९७१ – हरितपूर्णस्य शान्तिमयस्य च विश्वस्य निर्माणाय प्रतिबद्धस्य ग्रीनपीस्-सङ्घटनस्य स्थापना अभवत्।१९८१ – वानुआटुदेशः संयुक्तराष्ट्रसङ्घस्य सदस्यः अभवत्।१९८२ – लेबनानस्य निर्वाचितस्य राष्ट्रपतेः बशीर गेमायेलस्य पदग्रहणात् पूर्वमेव बमविस्फोटे हत्या अभवत्।२००० – सिडनीनगरे २७तमस्य ओलम्पिकक्रीडामहोत्सवस्य शुभारम्भः अभवत्।२००१ – अमेरिकादेशस्य सीनेट्-सदनेन राष्ट्रपतये अफगानिस्तानस्य विषये सैनिककार्यवाहीकरणस्य अनुमतिः प्रदत्ता।२००२ – न्यूयार्कनगरे संयुक्तराष्ट्रमहासभायाः अधिवेशनस्य अवसरे भारत-चीन-रूसदेशानां विदेशमन्त्रिणां सभा आयोजिता।२००२ – थाईलैण्डस्य सट्टाहिम-नगरे श्रीलङ्कासर्वकारस्य लिट्टे-सङ्घटनस्य च मध्ये प्रत्यक्षवार्तायाः आरम्भः अभवत्।२००३ – सिङ्गापुरविषये विकासशीलदेशानां विरोधेन विश्वव्यापारसङ्घटनस्य वार्ता विफला अभवत्।२००४ – ब्रिटिशनागरिकायै गुरिन्दरचड्ढायै ‘वूमन् ऑफ द ईयर’ सम्मानं प्रदत्तम्।२००८ – क्राम्पटन गीब्स-संस्थया अमेरिकादेशस्य एमएसआई ग्रुप्-संस्थायाः अधिग्रहणं कृतम्।२००९ – बङ्गलूरुनगरे शिवराजेन सब-जूनियर्-बिलियर्ड्स-क्रीडायाः विजेतापदं प्राप्तम्। पेन्सुला फाउण्डेशन इत्यस्य अध्यक्षः सुब्रतो चट्टोपाध्यायः २००९–१० वर्षाय ‘ऑडिट ब्यूरो ऑफ सर्कुलेशन’ इत्यस्य अध्यक्षः निर्वाचितः।
जन्म
९७३ – अल्बेरूनी – फारसीविद्वान्, लेखकः, वैज्ञानिकः, धर्मज्ञः विचारकश्च।१८६१ – मोक्षगुण्डम् विश्वेश्वरय्या – अभियन्ता, वैज्ञानिकः निर्माता च।१८७६ – शरत्चन्द्रचट्टोपाध्यायः – भारतीयः उपन्यासकारः।१९२६ – अशोकसिंघलः – ‘विश्वहिन्दुपरिषदः’ अध्यक्षः आसीत्।१९२७ – सर्वेश्वरदयालसक्सेनः – प्रसिद्धः कविः साहित्यकारश्च।१९०५ – डॉ. रामकुमारवर्मा – भारतस्य प्रसिद्धः हिन्दी-साहित्यकारः।१९०९ – सी. एन. अन्नादुरै – तमिलनाडुराज्यस्य प्रसिद्धः नेता पूर्वमुख्यमन्त्री च।१९१५ – लान्सनायकः करमसिंहः – परमवीरचक्रसम्मानितः भूतपूर्वः भारतीयसैनिकः।१९१५ – द्विजेन्द्रनाथमिश्रः ‘निर्गुणः’ – हिन्दीभाषायाः प्रसिद्धेषु साहित्यकारेषु अन्यतमः।१९१९ – खुमारबाराबङ्कवी – भारतीयः शायरः। तस्य वास्तविकं नाम मोहम्मद हैदर खान आसीत्।१९३४ – वेदमरवाह – दिल्लीनगरस्य भूतपूर्वः आरक्षक-आयुक्तः।१९२९ – ओ. राजगोपालः – केरलराज्यात् भारतीयजनतापक्षस्य प्रमुखेषु नेतृषु अन्यतमः।१९४६ – जॉकिन अर्पुथम् – मुम्बईनगरस्य झुग्गीक्षेत्राणां हिताय संघर्षं कृतवान्।१९४७ – भूपिन्दरसिंहहुड्डा – भारतीयराष्ट्रीयकाङ्ग्रेसस्य राजनीतिज्ञः हरियाणाराज्यस्य भूतपूर्वमुख्यमन्त्री च।१९५८ – रोमियो जेम्स: – भारतस्य भूतपूर्वः हॉकीक्रीडकः।१९८६ – जोशना चिनप्पा – भारतस्य महिला स्क्वॉश्-क्रीडिका।१९८७ – सोनलबेन पटेल: – भारतस्य पैरा-टेबल-टेनिस-क्रीडिका।१८९१ – चम्पकरमणपिल्लै – भारतीयः राजनैतिककार्यकर्ता क्रान्तिकारी च।
निधनम्
१९९८ – विश्वनाथनारायणलवाण्डे – ‘गोवामुक्तिसङ्ग्रामस्य’ प्रमुखः नेता स्वतन्त्रतासेनानी च।२०१२ – के. एस. सुदर्शनः – राष्ट्रियस्वयंसेवकसङ्घस्य पञ्चमः सरसङ्घचालकः।
महत्त्वपूर्णाः अवसराः
– अभियन्तादिवसः।– सञ्चायिकादिवसः।– राष्ट्रियहिन्दीदिवसः (सप्ताहः)।
Hindusthan Samachar / Divya Ranjan