गणेशचतुर्थ्यवसरे राष्ट्रपतिः, उपराष्ट्रपतिः, रक्षामन्त्री च देशवासिभ्यः शुभकामनाः प्रदत्तवन्तः
नव दिल्ली, 14 सितंबरमासः (हि.स.)। गणेशचतुर्थ्याः पावनावसरे राष्ट्रपतिः द्रौपदी मुर्मूः, उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, रक्षामन्त्री राजनाथसिंहः तथा अनेकैः केन्द्रीयमन्त्रिभिः देशवासिभ्यः हार्दिकाः बधाइयः शुभकामनाश्च प्रदत्ताः। नेतारः भगवान् ग
प्रतीकात्मक


नव दिल्ली, 14 सितंबरमासः (हि.स.)।

गणेशचतुर्थ्याः पावनावसरे राष्ट्रपतिः द्रौपदी मुर्मूः, उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, रक्षामन्त्री राजनाथसिंहः तथा अनेकैः केन्द्रीयमन्त्रिभिः देशवासिभ्यः हार्दिकाः बधाइयः शुभकामनाश्च प्रदत्ताः। नेतारः भगवान् गणेशं प्रति देशे सुखस्य, शान्तेः, समृद्धेः, कल्याणस्य च कामनां कृतवन्तः।

राष्ट्रपतिः द्रौपदी मुर्मूः सामाजिकसञ्चारमाध्यमे ‘एक्स’ इत्यत्र देश-विदेशेषु निवसद्भ्यः सर्वेभ्यः भारतीयेभ्यः गणेशचतुर्थ्याः शुभकामनाः प्रदत्तवती। सा अवदत् यत् भगवान् श्रीगणेशः बुद्धेः, विवेकस्य, समृद्धेः तथा शुभारम्भस्य च प्रतीकः अस्ति। गणेशचतुर्थीपर्व जीवनमध्ये ऊर्जायाः, ज्ञानस्य, सकारात्मकतायाश्च सञ्चारं करोति तथा नूतनसङ्कल्पैः सह प्रगतेः मार्गे अग्रे गन्तुं प्रेरणां ददाति। सा भगवान् गणेशात् सर्वेषां जीवने सुख-शान्तेः, उत्तमस्वास्थ्यस्य, समृद्धेश्च कामनां कृतवती।

उपराष्ट्रपतिः सी. पी. राधाकृष्णन् भगवान् गणेशं विघ्नहर्तारं ज्ञानस्य च प्रतीकं वर्णयन् अवदत् यत् सः सर्वेभ्यः शान्तेः, समृद्धेः, सुखस्य च आशीर्वादं ददातु। सः जनान् विश्वासेन दृढसङ्कल्पेन च प्रत्येकं बाधां पारयितुं प्रेरणां ग्रहीतुं आह्वानं कृतवान्।

लोकसभाध्यक्षः ओम बिरला अवदत् यत् भगवान् गणेशः सर्वेषां जीवनात् विघ्नबाधाः दूरीकरोतु तथा सुखं, शान्तिं, समृद्धिम्, आरोग्यं च प्रददातु। भगवान् गणेशस्य आशीर्वादः राष्ट्रस्य प्रगतये जनकल्याणाय च कृतसङ्कल्पं नवीनाम् ऊर्जां प्रददातु इति सः अवदत्।

रक्षामन्त्री राजनाथसिंहः अवदत् यत् भगवान् गणेशः ज्ञानस्य, विवेकस्य, समृद्धेः, शुभारम्भस्य च प्रतीकः अस्ति। अस्मिन् पर्वणि भारतीयाः स्वसनातनसंस्कृतेः परम्पराभिश्च सह सम्बद्धाः तिष्ठन्तु तथा समाजे एकतायाः, सद्भावस्य, सहकारितायाश्च भावनां सुदृढां कर्तुं प्रेरणां प्राप्नुयुः इति सः अवदत्।

केन्द्रीयगृहमन्त्री अमितशाहः कामनां कृतवान् यत् गणपतिबप्पायाः कृपया सर्वेषां जीवनं सुखेन, समृद्ध्या, मङ्गलेन च परिपूर्णं भवतु।

केन्द्रीयसड़कपरिवहन-राजमार्गमन्त्री नितिनगडकरी भगवान् गणेशं प्रति सर्वेषु स्वकृपां निरन्तरं स्थापयितुं प्रार्थनां कृत्वा “गणपति बप्पा मोरया” इति जयघोषं कृतवान्।

संसदीयकार्यमन्त्री किरेन रिजिजू अवदत्—

“वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥”

भगवान् गणेशं प्रति सर्वेषां जीवनं सुखेन, समृद्ध्या, शान्त्या, सफलतया च परिपूर्णं भवतु तथा सर्वाः बाधाः दूरीभवन्तु इति सः प्रार्थनां कृतवान्।

केन्द्रीयस्वास्थ्यमन्त्री जे. पी. नड्डा अपि भगवान् गणेशं प्रति देशवासिनां जीवने सुखस्य, शान्तेः, सौभाग्यस्य, समृद्धेश्च सञ्चारस्य कामनां कृतवान्।

केन्द्रीयपर्यावरणमन्त्री भूपेन्द्र यादवः अपि गणेशचतुर्थ्याः शुभकामनाः प्रदाय अवदत् यत् विघ्नहर्तुः श्रीगणेशस्य कृपया सर्वेषां जीवने सुखं, समृद्धिः, शान्तिः, सफलता च आगच्छतु।

-----------------

Hindusthan Samachar / Dheeraj Maithani