Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 14 सितंबरमासः (हि.स.)।
सम्पूर्णे जनपदे गणेशचतुर्थ्याः अवसरे सोमवासरे गणपतेः प्रतिमाः स्थापयित्वा विधिविधानपूर्वकं पूजाऽर्चना कृता। प्रातःकालादेव पूजापण्डालेषु प्रतिमास्थलेषु च श्रद्धालूनां विशालः जनसमूहः समागन्तुं प्रारब्धः।
भक्तैः भगवान् गणेशाय प्रियौ लड्डुकं मोदकं च नैवेद्यरूपेण समर्प्य सुखसमृद्धेः कामना कृता। सम्पूर्णे नगरे दिवसभरं ‘गणपतिबप्पा मोरया’ इति जयघोषाः गुञ्जन्तः आसन्। भागलपुरे अस्मिन् वर्षे गणेशप्रतिमाः पूजापण्डालाश्च अत्यन्तं आकर्षकरूपेण विविधैः प्रकारैः सज्जिताः सन्ति।
कुत्रचित् भगवान् गणेशः भव्यसिंहासने विराजमानः दृष्टः, तर्हि कुत्रचित् स्ववाहने मूषके आरूढः दृश्यते। पूजायाः सहैव अनेकेषु स्थलेषु भण्डारस्य, भजनकीर्तनस्य सांस्कृतिककार्यक्रमाणां च शुभारम्भः अपि अभवत्। सोनापट्टीचौके शर्माचौकस्य राजा-समित्याः पक्षतः भगवान् गणेशस्य भव्यप्रतिमा सिंहासने स्थापिता अस्ति।
महन्तविष्णुशर्मणः संचालनं पूजाऽर्चना सम्पन्ना। तेन कथितं यत् भागलपुरे प्रथमवारं गणेशमहोत्सवस्य शुभारम्भः अस्मिन्नेव स्थले अभवत्। अत्र चतुर्दिनपर्यन्तं विभिन्नाः धार्मिकाः सांस्कृतिकाश्च कार्यक्रमाः आयोजयिष्यन्ते, येषु मङ्गलवासरे प्रसादवितरणं बुधवासरे च भजनकीर्तनं मुख्याकर्षणं भविष्यतः।
गणेशपूजासमितेः स्वामीविवेकानन्दपथस्य पक्षतः जोगसरे स्थापिता गणेशप्रतिमा अस्मिन् वर्षे रङ्गीनप्रकाशव्यवस्थया अद्भुतपुष्पसज्जया च आकर्षणस्य केन्द्रं वर्तते। अत्र सोमवासरे बप्पायै लड्डुकसहितं षट्पञ्चाशत्प्रकारकाणां व्यञ्जनानां भोगः समर्पितः।
समित्याः सदस्यैः कथितं यत् मङ्गलवासरे बप्पायै खिचडी-पायसयोः विशेषभोगः समर्पयिष्यते तथा भव्यभजनसन्ध्यायाः आयोजनमपि भविष्यति। जगन्नाथमन्दिरेऽपि भाद्रपदशुक्लपक्षस्य चतुर्थ्याः अवसरे पारम्परिकगणेशपूजा कृता।
परबत्तीक्षेत्रे प्रातः वैदिकमन्त्राणां घोषस्य मध्ये भगवान् गणेशस्य प्रतिमायाः प्राणप्रतिष्ठा कृता। सायंकाले अत्र भव्यायाः महाआरत्याः आयोजनं जातम्, ततः रात्रेः विलम्बपर्यन्तं भजनकीर्तनस्य क्रमः प्रचलितः।
सिकन्दरपुरमार्गस्थितस्य गजानन्द-क्लबस्य कृते अयं वर्षः अत्यन्तं विशेषः अस्ति। क्लबसंस्थया अस्मिन् वर्षे गणेशोत्सवस्य पञ्चविंशतितमवर्षपूर्तिः आयोज्यते। तदतिरिक्तं वारसलीगञ्जस्थिते बजरंगबलीस्थानस्य परिसरेऽपि मां शेरावाली-क्लबसंस्थायाः पक्षतः बप्पायाः प्रतिमा स्थापयित्वा श्रद्धापूर्वकं पूजाऽर्चना कृता।
---------------
Hindusthan Samachar / Dheeraj Maithani