Enter your Email Address to subscribe to our newsletters

रायपुरम् 14 सितंबरमासः (हि.स.)।
राज्यपालः रमेन डेका अद्य सोमवासरे रायगढे एकचत्वारिंशत्तमस्य अन्तर्राष्ट्रीयचक्रधरसमारोहस्य शुभारम्भं करिष्यति। दशदिनपर्यन्तं चलिष्यमाणस्य अस्य प्रतिष्ठितस्य सांस्कृतिककार्यक्रमस्य आयोजनं रायगढस्य रामलीलामैदाने भविष्यति।
चक्रधरसमारोहः रायगढस्य समृद्धायाः सांस्कृतिककलात्मकपरम्परायाः प्रमुखः उत्सवः अस्ति। समारोहस्य अवसरे देशस्य प्रदेशस्य च ख्याताः कलाकाराः स्वकीयाभिः कलाभिः सांस्कृतिकप्रस्तुतिभिश्च दर्शकान् मन्त्रग्धान् करिष्यन्ति। समारोहस्य प्रमुखाकर्षणेषु शास्त्रीयनृत्यं, सङ्गीतं, लोककलाः तथा विविधाः सांस्कृतिकप्रस्तुतयः भविष्यन्ति।
निर्धारितकार्यक्रमानुसारं राज्यपालः रमेन डेका अद्य जाजगीर-चाम्पाजनपदात् स्थलमार्गेण प्रस्थाय सायं सार्धचतुर्वादने जिन्दल-स्टील-अतिथिगृहम्, पतरापाली, रायगढं प्राप्स्यति। ततः सायं सपादसप्तवादने रामलीलामैदाने उपस्थाय चक्रधरसमारोहस्य शुभारम्भकार्यक्रमे भागं ग्रहीष्यति।
राज्यपालः श्री डेका पतरापाली-स्थिते जिन्दल-स्टील-अतिथिगृहे रात्रिविश्रामं करिष्यति। सः पञ्चदशे सितम्बरमासे पूर्वाह्ने सार्धैकादशवादने जिन्दल-स्टील-अतिथिगृहात् जाजगीर-चाम्पाजनपदाय प्रस्थास्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani