मुख्यमंत्री शुभेंदु अधिकारी गणेश चतुर्थ्यां हिंदी दिवसे च प्रदेशवासिभ्यो दत्ताश्शुभकामनाः
कोलकाता, 14 सितंबरमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दुः अधिकारी गणेशचतुर्थ्याः पावनावसरे प्रदेशवासिभ्यः शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री सोमवासरे सामाजिकसञ्चारमाध्यमस्य माध्यमेन भगवान् श्रीगणेशस्य स्मरणं कृत्वा सर्वेषां सुखस्य,
शुभेंदु अधिकारी


कोलकाता, 14 सितंबरमासः (हि.स.)।

पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दुः अधिकारी गणेशचतुर्थ्याः पावनावसरे प्रदेशवासिभ्यः शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री सोमवासरे सामाजिकसञ्चारमाध्यमस्य माध्यमेन भगवान् श्रीगणेशस्य स्मरणं कृत्वा सर्वेषां सुखस्य, शान्तेः, समृद्धेश्च कामनां कृतवान्।

शुभेन्दुः अधिकारी स्वसन्देशे गणेशस्तुतिं लिखित्वा भगवान् श्रीगणेशस्य वन्दनां कृतवान्—

“वक्रतुण्डमहाकायसूर्यकोटिसमप्रभः।

निर्विघ्नं कुरु मे देव शुभकार्येषु सर्वदा॥”

सः अवदत् यत् विघ्नहर्तुः सिद्धिदातुः च भगवान् श्रीगणेशस्य कृपया सर्वेषां जीवने विद्यमानाः बाधाः विघ्नाश्च दूरीभवन्तु।

मुख्यमन्त्री भगवान् श्रीगणेशं प्रति सर्वेभ्यः सुखं, बुद्धिं, सुस्वास्थ्यं, सफलतां, समृद्धिं च प्रदातुं प्रार्थनां कृतवान्। सः कामनां कृतवान् यत् भगवान् श्रीगणेशस्य कृपया प्रत्येकस्मिन् गृहे शान्तिः, आनन्दः, मङ्गलमयः च वातावरणं निरन्तरं भवतु।

एतदतिरिक्तं मुख्यमन्त्री हिन्दी-दिवसस्य अवसरे अपि सर्वेभ्यः शुभकामनाः प्रदत्तवान्। सः हिन्दीभाषायै सम्मानं प्रकटयन् हिन्दी-दिवसस्य हार्दिकाः शुभकामनाः प्रदत्तवान्।

तथैव मुख्यमन्त्री बाङ्ग्लाभाषायाः प्रमुखं कथाकारं, उपन्यासकारं, कथालेखकं च ताराशङ्करबन्द्योपाध्यायं तस्य पुण्यतिथ्यवसरे विनम्रां श्रद्धाञ्जलिं समर्पितवान्। साहित्यस्य क्षेत्रे तेन कृतं महत्त्वपूर्णं योगदानं स्मरन् सः तस्मै सम्मानं प्रकटितवान्।

शुभेन्दुः अधिकारी सर्वेभ्यः गणेशचतुर्थ्याः हार्दिकाः शुभकामनाः प्रदाय स्वसन्देशस्य अन्ते “गणपति बप्पा मोरया” इति जयघोषं कृतवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani