केन्द्रीयमन्त्रिभिः हिन्दी-दिवसे प्रदत्ता: शुभकामनाः, ज्ञान-विज्ञान-प्रौद्योगिक्या सह भाषायाः संयोजनाय बलम्
नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। रक्षामन्त्रिणा राजनाथसिंहेन सह अनेके प्रमुखाः नेतारः सोमवासरे हिन्दी-दिवसस्य अवसरे देशवासिभ्यः शुभकामनाः प्रदत्तवन्तः। नेतारः हिन्दीभाषां भारतीयसंस्कृतेः, सभ्यतायाः जीवन-मूल्यानां च अभिव्यक्तिरूपेण वर्णयन्तः ज्ञ
प्रतीकात्मक


नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। रक्षामन्त्रिणा राजनाथसिंहेन सह अनेके प्रमुखाः नेतारः सोमवासरे हिन्दी-दिवसस्य अवसरे देशवासिभ्यः शुभकामनाः प्रदत्तवन्तः। नेतारः हिन्दीभाषां भारतीयसंस्कृतेः, सभ्यतायाः जीवन-मूल्यानां च अभिव्यक्तिरूपेण वर्णयन्तः ज्ञानस्य, विज्ञानस्य, प्रौद्योगिक्याः नवाचारस्य च क्षेत्रेषु तस्याः अधिकं सशक्तीकरणाय आह्वानं कृतवन्तः।

लोकसभाध्यक्षः ओमबिरला हिन्दी-दिवसे देशवासिभ्यः शुभकामनाः प्रदाय अवदत् यत् हिन्दी केवलं भाषा न, अपितु भारतस्य संस्कृतेः, सभ्यतायाः जीवनमूल्यानां च सशक्ता अभिव्यक्तिः अस्ति। हिन्दी देशस्य विविधतां एकतासूत्रेण संयोजयति।

ओमबिरला अवदत् यत् हिन्दीभाषायाः महत्त्ववर्धनं देशस्य समृद्धायाः भाषिक्याः सांस्कृतिक्याश्च परम्पराया: सम्माननम् अस्ति। सः जनान् हिन्दीभाषायाः संरक्षणाय, प्रोत्साहनाय प्रचाराय च सङ्कल्पं कर्तुम् आह्वानं कृतवान्। सः ज्ञानस्य, विज्ञानस्य, प्रौद्योगिक्याः नवाचारस्य च क्षेत्रेषु हिन्दीभाषायाः अधिकं सशक्तीकरणे बलं दत्तवान्।

रक्षामन्त्री राजनाथसिंहः अपि हिन्दी-दिवसे देशवासिभ्यः शुभकामनाः प्रदत्तवान्। सः अवदत् यत् हिन्दी भारतस्य संस्कृतेः, सभ्यतायाः जीवनमूल्यानां च सशक्ता अभिव्यक्तिः अस्ति। एषा भाषा देशस्य विविधतां एकतासूत्रेण संयोजयति।

रक्षामन्त्री अवदत् यत् हिन्दीभाषायाः महत्त्ववर्धनं भारतीयभाषिक्याः सांस्कृतिक्याश्च परम्परायाश्च सम्माननम् अस्ति। हिन्दीभाषायाः संरक्षणं, प्रोत्साहनं प्रचारं च कुर्वद्भिः ज्ञानस्य, विज्ञानस्य, प्रौद्योगिक्याः नवाचारस्य च क्षेत्रेषु तस्याः अधिकप्रभावशालित्वाय सामूहिकाः प्रयासाः करणीयाः।

केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः अवदत् यत् राजभाषारूपेण हिन्दी जनसञ्चारस्य, सुशासनस्य राष्ट्रियैकतायाश्च सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वहति। सः अवदत् यत् सर्वाभिः भारतीयभाषाभिः सह अग्रे वर्धमाना हिन्दी अधुना प्रौद्योगिक्याः अनुसन्धानस्य च क्षेत्रेऽपि स्वस्थानं निर्माति।

शाहः हिन्दी-दिवसस्य अवसरे जनान् हिन्दीभाषया सह सर्वासां भारतीयभाषाणां सशक्तीकरणाय सङ्कल्पं कर्तुम् आह्वानं कृतवान्। सः अवदत् यत् भारतीयभाषाणां विकासः देशस्य भाषिकं सांस्कृतिकं च धरोहरं सुदृढं कर्तुं तथा आत्मनिर्भरभारतस्य दिशि अग्रे गन्तुं च महत्त्वपूर्णः अस्ति।

केन्द्रीयविज्ञानप्रौद्योगिक्यमन्त्री डॉ. जितेन्द्रसिंहः अवदत् यत् हिन्दी एका आत्मीयभाषा अस्ति, या जनानां विचारान् भावनाः मूल्यानि च परस्परं संयोजयति। सः जनान् मिलित्वा हिन्दीभाषायाः गरिमां वर्धयितुं तस्याः निरन्तरविकासे च योगदानं दातुम् आह्वानं कृतवान्।

उल्लेखनीयं यत् देशे प्रतिवर्षं १४ सेप्टेम्बरमासे हिन्दी-दिवसः आचर्यते। अस्मिन्नेव दिने वर्षे १९४९ तमे संविधानसभया देवनागरीलिप्याम् हिन्दी संघस्य राजभाषारूपेण स्वीकृता आसीत्। हिन्दी-दिवसस्य माध्यमेन हिन्दीभाषायाः प्रयोगस्य प्रोत्साहनेन सह भारतीयभाषाणां समृद्धपरम्परायाः भाषिकविविधतायाश्च संरक्षणेऽपि बलं दीयते।

Hindusthan Samachar / Divya Ranjan