Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 सितंबरमासः (हि.स.)।
देहलीनगरनिगमे हिन्दी-दिवसस्य अवसरे सोमवासरे हिन्दी-दिवसस्य राजभाषासम्मानसमारोहस्य च आयोजनं कृतम्। कार्यक्रमे महापौरः प्रवेशवाही तथा सदननेता जयभगवान्यादवः उपस्थितौ आस्ताम्।
अस्मिन् अवसरे महापौरः अवदत् यत् हिन्दी देशस्य विविधताः परस्परं संयोजयन्ती सशक्तकडी अस्ति। भारतस्य परिचयः तस्याः भाषिकसमृद्ध्या सांस्कृतिकवैभवेन च अस्ति तथा हिन्दी एतस्याः बहुरङ्गिण्याः विरासतायाः व्यापकाभिव्यक्तिं प्रददाति। तेन उक्तं यत् राजभाषायाः हिन्दीभाषायाः सम्मानः केवलम् एकस्मिन् दिवसे सीमितः न भवेत्, अपितु तस्याः दैनिककार्येषु व्यवहारे च प्रयोगः आवश्यकः। निगमस्य कार्येषु हिन्दीभाषायाः अधिकाधिकप्रयोगेन प्रशासनस्य सामान्यनागरिकाणां च मध्ये संवादः अधिकं सहजः प्रभावी च कर्तुं शक्यते।
महापौरः अवदत् यत् हिन्दीभाषायाः विकासः तदैव सार्थकः भविष्यति यदा देशस्य सर्वासां भारतीयभाषाणां समानरूपेण सम्मानः विकासश्च भविष्यतः। भारतस्य भाषिकविविधता अस्माकं शक्तिः अस्ति तथा प्रत्येकं भाषा अस्माकं समृद्धायाः सांस्कृतिकविरासतायाः वाहिका अस्ति। तेन निगमस्य अधिकारिभ्यः कर्मचारिभ्यश्च आग्रहः कृतः यत् ते कार्यालयीयकार्येषु, पत्रव्यवहारे जनसञ्चारे च हिन्दीभाषायाः प्रयोगं प्रोत्साहयेयुः तथा राजभाषायाः प्रचारप्रसारे सक्रियतया सहभागितां कुर्युः।
सदननेता जयभगवान्यादवः अवदत् यत् हिन्दी अस्माकं भावनानां संस्कृतेः सामाजिकसम्बन्धस्य च भाषा अस्ति। राजभाषायाः सम्मानः तदैव सार्थकः भविष्यति यदा हिन्दीभाषायाः प्रयोगः कार्यालयीयकार्यैः सह जनसेवायाः प्रत्येकस्मिन् स्तरे अपि वर्धिष्यते।
अस्मिन् अवसरे अतिरिक्तायुक्तः डॉ. सतेन्द्रसिंहदुर्सावतः केन्द्रीयगृहमन्त्रिणः सम्बोधनं पठित्वा श्रावितवान्। तस्मिन् सम्बोधने हिन्दीभाषायाः महत्त्वे प्रकाशं पातयित्वा भारतस्य भाषिकसमृद्धिः बहुलता च देशस्य शक्तिः इति प्रतिपादितम्। सम्बोधने उक्तं यत् भारतस्य भाषिकबहुलता देशं अधिकं सशक्तं समृद्धं च करोति तथा हिन्दीभाषायाः विकासः तदैव सार्थकः भविष्यति यदा सर्वाः भारतीयभाषाः समानरूपेण अग्रे वर्धिष्यन्ते।
समारोहस्य समये हिन्दीभाषायाः साहित्यस्य च क्षेत्रे योगदानं ददतां नन्दिनीश्रीवास्तवस्याः, सूरजत्रिपाठिनः, रागिनीझायाः, योगेशस्य तथा बालकवयित्र्याः सान्वीजैनस्य सहितानां कवीनां साहित्यप्रतिभानां च सम्माननं कृतम्।
कार्यक्रमस्य अन्तर्गतं कविसम्मेलनस्य अपि आयोजनं कृतम्। तत्र कविभिः स्वकीयाभिः रचनाभिः हिन्दीभाषायाः गरिमां, भारतीयसंस्कृतिं, सामाजिकसरोकारान् राष्ट्रभावनां च प्रभावशालिरूपेण प्रस्तुतम्।
अस्मिन् अवसरे उपमहापौरः हिन्दीसमित्याः अध्यक्षश्च डॉ. मोनिकापन्तः, हिन्दीसमित्याः उपाध्यक्षः मनीषासिंहः, पार्षदाः गुलाबसिंहः, रामप्रसादगहलौत्, मनीषा, ऋतुगोयलः नीता बिष्ट् च सहिताः निगमस्य वरिष्ठाः अधिकारिणः कर्मचारीणश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani