Enter your Email Address to subscribe to our newsletters

लखनऊ, 14 सितंबरमासः (हि.स.)।
भारतीयजनतापक्षस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री च केशवप्रसादमौर्यः अवदत् यत् समाजवादीपक्षे लुंठकानां अपराधिनां च संरक्षणं भवति।
उपमुख्यमन्त्री सोमवासरे स्वकीयसामाजिकसञ्चारमाध्यमस्य सन्देशे लिखितवान् यत् भारतीयजनतापक्षः अग्रेसराणां, पश्चाद्वर्गीयानां, दलितसमाजस्य च तस्याः पवित्रायाः ‘त्रिवेण्याः’ सङ्गम इव अस्ति, यस्मिन् सर्वेषां सम्मानः, सर्वेषां विकासः, सर्वेषां विश्वासश्च अन्तर्भवन्ति।
अपरस्मिन् पक्षे समाजवादीपक्षस्य ‘पीडीए’ अर्थात् ‘परिवारविकाससंस्था’ अस्ति, यत्र जनसामान्यस्य विकासात् अधिकं परिवारस्य, गुण्डानां, अपराधिनां च संरक्षणस्य चिन्ता भवति।
सः लिखितवान् यत् समाजवादीपक्षस्य इतिहासः उत्तरप्रदेशाय भयावहः अभवत्। षड्यन्त्रस्य मिथ्यावचनस्य च आश्रयेण निर्वाचनं एकवारं विजेतुं शक्यते, किन्तु पुनः पुनः न।
केशवप्रसादमौर्यः अवदत् यत् द्विसहस्रचतुर्विंशतितमे वर्षे सम्पन्ने लोकसभानिर्वाचने समाजवादीपक्ष-काङ्ग्रेसयोः गठबन्धनेन यः राजनीतिकलाभः प्राप्तः, सः द्विसहस्रसप्तविंशतितमे वर्षे पुनः न प्राप्स्यते।
उत्तरप्रदेशस्य जनता सर्वं पश्यति तथा तृतीयवारं भारतीयजनतापक्षस्य शासनं स्थापयितुं सा पूर्णतया सज्जा अस्ति।
Hindusthan Samachar / Dheeraj Maithani