Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, १४ सेप्टेम्बरमासः (हि.स.)। उपराज्यपालः मनोजसिन्हा गणेशचतुर्थ्याः शुभावसरे सर्वेभ्यः हार्दिक्य: शुभकामनाः प्रदत्तवान्।
एतत् पर्व अद्य १४ सेप्टेम्बरमासे २०२६ तमे वर्षे आचर्यते।
स्वसन्देशे उपराज्यपालः अवदत् यत् गणेशचतुर्थ्याः शुभावसरे सर्वेभ्यः हार्दिक्य: शुभकामनाः। भगवान् गणेशः ज्ञानस्य, बुद्धेः सफलतायाश्च प्रतीकः अस्ति। सः भगवन्तं गणेशं प्रार्थयते यत् सः सर्वेषां जीवनं हर्षेण, सौभाग्येन, शान्त्या समृद्ध्या च परिपूरयतु।
Hindusthan Samachar / Divya Ranjan