Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 14 सितंबरमासः (हि.स.)।
यात्रिणां पर्यटकानां च सुविधाः अधिकं सुदृढाः कर्तुं पूर्वरेलवे-मालदामण्डलेन एका नूतना पहलः कृता अस्ति। मण्डलरेलप्रबन्धकस्य मनीषकुमारगुप्तस्य मार्गदर्शने तथा वरिष्ठमण्डलवाणिज्यप्रबन्धकस्य कार्तिकसिंहस्य पर्यवेक्षणे मन्दारहिल्-रेलस्थानके चलितभोजनयानसुविधायाः शुभारम्भः कृतः। उक्तविषये सूचना सोमवासरे मालदाविभागस्य जनसम्पर्काधिकारिणा प्रदत्ता।
तेन उक्तं यत् अस्याः चलितभोजनयानसुविधायाः औपचारिकम् उद्घाटनं कटोरियायाः विधायकः पुरनलालटुडू तथा नगरपञ्चायतस्य अध्यक्षिका कोमलभारती च संयुक्तरूपेण रज्जुच्छेदनं कृत्वा कृतवन्तौ। एषा आधुनिकसुविधा रेलविभागस्य फ्रेञ्चाइजीव्यवस्थायाः अन्तर्गतं प्रारब्धा अस्ति। अस्याः मुख्योद्देश्यं मन्दारहिल्-क्षेत्रम् आगच्छतां तीर्थयात्रिणां, पर्यटकानां, दैनिकयात्रिणां च भोजनस्य जलपानस्य च आवश्यकताः पूरयितुम् अस्ति।
याने स्वच्छतायाः कुशलसेवायाश्च सुनिश्चिततायै आधुनिकोपकरणानि स्थापितानि सन्ति। अत्र यात्रिभ्यः विविधप्रकाराणि ताजाभोजनानि, अल्पाहाराः, शीतोष्णपेयपदार्थाश्च उपलब्धाः भविष्यन्ति। यात्रायाः समये यात्रिभ्यः रेलस्थानकपरिसरे एव उचितमूल्येन गुणवत्तापूर्णं भोजनं प्राप्तुं शक्यते।
मालदामण्डलस्य रेलविभागीयाधिकारिणां अनुसारं मन्दारहिल्-रेलस्थानके अस्याः सेवायाः शुभारम्भः मालदामण्डलस्य यात्रिकेन्द्रितां दृष्टिं विश्वस्तरीयसुविधाः प्रदातुं च तस्य संकल्पं प्रदर्शयति। अनेन उपक्रमेण न केवलं रेलस्थानकस्य खानपानव्यवस्था सुदृढा भविष्यति, अपितु मन्दारहिलम् आगच्छतां पर्यटकानां यात्रानुभवः अपि सुखदः सुरक्षितश्च भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani