मध्यप्रदेश-राज्ये राष्ट्रियहिन्दीदिवसे भोपालनगरे द्विदिवसीयम् ‘भारतीयमातृभाषानुष्ठानम्’, मुख्यमन्त्री करिष्यति शुभारम्भम्
– देशस्य विभिन्नभागेभ्यः वरिष्ठपत्रकाराः, साहित्यकाराः कवयश्च भागं ग्रहीष्यन्ति भोपालम्, १४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य राष्ट्रियहिन्दीदिवसस्य अवसरे सायं ४ वादने भारतभवने ‘भारतीय-मातृभाषा-नुष्ठानस्य’ शुभा
सीएम मोहन यादव (फाइल फोटो)


– देशस्य विभिन्नभागेभ्यः वरिष्ठपत्रकाराः, साहित्यकाराः कवयश्च भागं ग्रहीष्यन्ति

भोपालम्, १४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य राष्ट्रियहिन्दीदिवसस्य अवसरे सायं ४ वादने भारतभवने ‘भारतीय-मातृभाषा-नुष्ठानस्य’ शुभारम्भं करिष्यति।

भारतीयभाषाणां विविधतायां निहितां भारतीयसंस्कृतिं, जीवनमूल्यानि राष्ट्रियैक्यभावनां च केन्द्रे निधाय द्विदि-वसीयस्य अस्य अनुष्ठानस्य केन्द्रीय-विषयः ‘मातृभाषा, संस्कृतिः भारतीय-जीवनमूल्यानि च प्रति संवादः’ इति निर्धारितः अस्ति। संस्कृतिविभागस्य वीरभारतन्यासेन संस्कृतिसञ्चालनालयेन च आयोजिते अस्मिन् कार्यक्रमे भारतभवनस्य, माखनलालचतुर्वेदी-राष्ट्रियपत्रकारितासञ्चारविश्वविद्यालयस्य, दत्तोपन्तठेंगडीशोधसंस्थानस्य तथा मातृभाषामञ्चस्य च सहभागिता भविष्यति।

प्रथमदिने राष्ट्रभाषायाः भाषिकपत्र-कारितायाश्च विषये विमर्शः

मुख्यमन्त्रिणः संस्कृतिसलाहकारः वीरभारतन्यासस्य न्यासीसचिवश्च श्रीरामतिवारी अवदत् यत् मुख्यमन्त्रिणा डॉ. यादवेन शुभारम्भं कृत्यानन्तरं प्रथमं सत्रं सायं ४:३० तः ५:३० वादनपर्यन्तं ‘मातृभाषातः राष्ट्रभाषापर्यन्तम् : भाषासु भारतस्य आत्मा’ इति विषये व्याख्यानरूपेण भविष्यति। अस्मिन् बाङ्ग्लभाषायाः स्नेहाशीषसूरः काश्मीरी-भाषायाः आसिममोहिउद्दीनश्च स्वविचारान् प्रस्तोष्यतः। सत्रस्य समन्वयं माखनलाल-चतुर्वेदीराष्ट्रियपत्रकारितासञ्चारविश्वविद्यालयस्य कुलगुरुः विजयमनोहरतिवारी करिष्यति।

ते अवदन् यत् द्वितीयं सत्रं सायं ६ तः ७:३० वादनपर्यन्तं ‘भाषिकपत्रकारिता, समाजस्य स्वरः’ इति विषये भविष्यति। अस्मिन् जयदीपकर्णिकः, वरिष्ठसम्पादकः गिरीशोपाध्यायः तथा वरिष्ठपुरातत्त्वविद् नारायणव्यासः सहभागी भविष्यन्ति। सत्रस्य समन्वयं दत्तोपन्तठेंगडीशोध-संस्थानस्य निदेशकः मुकेशमिश्रः करिष्यति।

श्रीरामतिवारी अवदत् यत् १४ सेप्टेम्बरमासस्य सायं ७:३० वादने राष्ट्रियकविसम्मेलनम् आयोजितं भविष्यति। अस्मिन् डॉ. कीर्तिकाले, स्वयंश्रीवास्तवः, दिनेशदिग्गजः, शैलेन्द्र-मधुरः, अज़हरइकबालः तथा रामायणधर-द्विवेदी च काव्यपाठं करिष्यन्ति। तस्मिन् एव दिने सायं ४ वादने ‘पूर्वरङ्गे’ भारतीयभाषाणां बोलीनां च गीतानां प्रस्तुतीकरणम् उमेशतरकसवारः सहकारिभिश्च भोपालतः प्रदास्यते।

१५ सेप्टेम्बरे विमर्शसत्राणि ‘सन्तराग’ प्रस्तुतीकरणं च

१५ सेप्टेम्बरमासे प्रथमं सत्रं सायं ४ तः ५:३० वादनपर्यन्तं ‘डिजिटलयुगे मातृभाषाः : सङ्कटं, सम्भावना नूतना च पत्रकारिता’ इति विषये भविष्यति। अस्मिन् उर्दूभाषायाः वरिष्ठसम्पादकः अब्दुलवदूदसाजिदः, मराठीभाषायाः ‘सुबह सवेरे’ इत्यस्य कार्यकारी-प्रधानसम्पादकः अजय-बोकिलः, असमियाभाषायाः वरिष्ठपत्रकारः लेखकश्च समुद्रगुप्तकश्यपः तथा ‘फाउण्डर फ्रेण्ड्स् ऑफ् मध्यप्रदेश, यू.के.’ इत्यस्य रोहितदीक्षितः स्वविचारान् प्रस्तोष्यन्ति।

द्वितीयं सत्रं सायं ५:३० तः ७ वादनपर्यन्तं ‘भाषाः अनेकाः, भारतम् एकम्’ इति विषये भविष्यति। अस्मिन् मलयालभाषायाः मनोजः के. दासः, सतीशः के. सिंहः, अनुरागोपाध्यायः, मनोजशर्मा इत्येतेषां सहिताः अन्ये पत्रकाराः सहभागिन: भविष्यन्ति। सायं ७:३० वादने ‘सन्तराग’ कार्यक्रमे सन्तकवीनां वाण्याः प्रस्तुतीकरणं सुधा रघुरामन्, नवदिल्लीतः, करिष्यति।

भाषिकशब्दचित्रप्रदर्शनी दुर्लभपुस्तकानां च लोकार्पणम्

श्रीरामतिवारी अवदत् यत् आयोजनस्थले शब्दचित्राणां भारतीयभाषासम्बद्धानां च प्रदर्शनी अपि आकर्षणस्य केन्द्रं भविष्यति। तया सह महर्षिपाणिनिः, भोजदेवः, महर्षिपतञ्जलिः, भर्तृहरिः तथा सम्राट् राजेन्द्रचोलः इत्येतेषां भारतीयपरम्परायाः महत्त्वपूर्णव्यक्तित्वानां विषये, तथा ‘युग-युगीन जल’, ‘उड़ चल अपने देश’, ‘अष्टावक्रगीता’, ‘नारदगीता’, ‘गर्भगीता’, ‘ब्राह्मणगीता’, ‘उत्तरगीता’, ‘परमहंसगीता’, ‘वृत्रगीता’, ‘हंसगीता’, ‘चन्द्रगीता’, ‘जानकीगीता’ तथा सूर्यकान्तत्रिपाठी-निराला इत्यस्य हिन्दी-साहित्यस्य प्रकाशपुञ्जः इत्यादीनां पुस्तकानां लोकार्पणमपि भविष्यति।

भारतीयसभ्यतायाः स्मृतयः अस्माकं मातृभाषासु, लिपिषु च सुरक्षिताः सन्ति। राष्ट्रियहिन्दीदिवसस्य अवसरे ‘भारतीय-मातृभाषानुष्ठानस्य’ माध्यमेन भाषासु निबद्धां साहित्यिक-सांस्कृतिक-परम्परां भाषिकपत्रकारितायाः योगदानं च अवगन्तुं प्रयासः क्रियते। अस्माकम् उद्देश्यम् अतीतस्य स्मृतीनां साक्षात्कारं कुर्वन्तः वर्तमानसमाजं स्वस्य सभ्यतागतचेतनया सह योजयितुं भविष्यस्य कृते च नूतनां सांस्कृतिकदृष्टिं विकसितुं च अस्ति। अस्मिन् अनुष्ठाने व्याख्यानानि, विमर्शाः, राष्ट्रिय-कविसम्मेलनम्, सन्तकवीनां वाणी, पूर्वरङ्गः तथा प्रदर्शिनी इत्यादयः विविधाः कार्यक्रमाः आयोजिताः भवन्ति।

Hindusthan Samachar / Divya Ranjan