उज्जयिनी – गणेशचतुर्थ्यां गणेशस्वरूपेण अलङ्कृतः बाबा महाकालः, भस्मार्त्यां रजताभरणैः कृतमलङ्करणम्
उज्जयिनी, १४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे सोम-वासरे प्रातः भस्मार्त्याः समये गणेशचतुर्थ्याः अवसरे भगवत: महाकालस्य विशेष-शृङ्गारः कृतः। मन्दिरस्य पटाः प्रातः ४ वादने उद्घाटिताः। पण्डि
गणेश चतुर्थी पर गणेश स्वरूप में सजे बाबा महाकाल


उज्जयिनी, १४ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे सोम-वासरे प्रातः भस्मार्त्याः समये गणेशचतुर्थ्याः अवसरे भगवत: महाकालस्य विशेष-शृङ्गारः कृतः। मन्दिरस्य पटाः प्रातः ४ वादने उद्घाटिताः। पण्डितैः पुरोहितैश्च गर्भगृहे स्थापितानां देवीदेवतानां पूजनं कृत्वा भगवत: महाकालस्य जलाभिषेकः कृतः। ततः दुग्ध-दधि-घृत-मधु-शर्कराभिः फलरसैश्च निर्मितेन पञ्चामृतेन अभिषेकपूजनं कृतम्।

गणेशचतुर्थ्याः अवसरे महाकालाय रजताभरणानि धारितानि। भाङ्गेन चन्दनेन च लेपनं कृत्वा त्रिपुण्ड्रं स्थापितम्। ततः भगवान् महाकालस्य गणेशस्वरूपेण आकर्षकः शृङ्गारः कृतः। मल्लिकायाः गुलाबस्य च सुगन्धिपुष्पैः सह रुद्राक्षमालाभिः पुष्पमालाभिश्च बाबा महाकालस्य अलङ्करणं कृतम्। भस्मार्पणात् पूर्वं प्रथमं घण्टानादं कृत्वा मन्त्रपाठस्य मध्ये भगवत: महाकालस्य ध्यानं कृतम्। हरिः ॐ इति मन्त्रेण जलम् अर्पयित्वा कर्पूरार्तिकी कृता। तदनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्म अर्पितम्। महानिर्वाणी-अखाडस्य पक्षतः भगवते महाकालाय भस्म अर्पितम्। भस्मार्त्याः अनन्तरं बाबा महाकालाय शेषनागस्य रजतमुकुटं, रजतमुण्डमालां रुद्राक्षमालां च धारितानि।

भस्मार्त्याः समये बहुसंख्याकाः श्रद्धालवः मन्दिरम् आगतवन्तः। बाबा महाकालस्य गणेशस्वरूपस्य दर्शनं कृत्वा श्रद्धालवः आशीर्वादं प्राप्तवन्तः। भगवान् महाकालाय फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि। श्रद्धालवः नन्दीमहाराजस्य दर्शनं कृत्वा तस्य कर्णे स्वीयां मनोकामनां निवेदितवन्तः। अस्मिन् समये मन्दिरपरिसरः बाबा महाकालस्य जयघोषैः गुञ्जितः।

महाकालमन्दिरस्य परम्परायां भस्मार्ति-क्या: विशेषं महत्त्वम् अस्ति। मान्यता अस्ति यत् भस्मार्पणानन्तरं भगवान् महाकालः निराकारस्वरूपात् साकारस्वरूपं धृत्वा भक्तेभ्यः दर्शनं ददाति। एतादृश्या आस्थया श्रद्धालवः भस्मार्त्याम् सम्मिलिताः भूत्वा बाबा महाकालस्य दर्शनं कुर्वन्ति।

Hindusthan Samachar / Divya Ranjan