गणेशचतुर्थ्यवसरे प्रधानमन्त्रिणा मोदी-महोदयेन देशवासिभ्यः शुभकामनाः प्रदत्ताः
नव दिल्ली, 14 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे देशवासिभ्यः गणेशचतुर्थ्याः हार्दिकाः शुभकामनाः प्रदत्तवान्। सः अवदत् यत् विघ्नहर्तुः भगवान् गणेशस्य पूजाऽर्चनायाः एतत् पावनं पर्व सर्वेषां जीवने नवीनाम् ऊर्जां नूतनं च उत्साहं
प्रतीकात्मक


नव दिल्ली, 14 सितंबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे देशवासिभ्यः गणेशचतुर्थ्याः हार्दिकाः शुभकामनाः प्रदत्तवान्। सः अवदत् यत् विघ्नहर्तुः भगवान् गणेशस्य पूजाऽर्चनायाः एतत् पावनं पर्व सर्वेषां जीवने नवीनाम् ऊर्जां नूतनं च उत्साहं पूरयतु। तस्य कृपया सर्वाणि कार्याणि सफलानि भवन्तु तथा देशः निरन्तरं प्रगतेः पथि अग्रे वर्धताम्।

प्रधानमन्त्री मोदी सामाजिकसञ्चारमाध्यमस्य ‘एक्स’ इत्यस्य पटले संस्कृतस्य एकं श्लोकं साझीकृत्य लिखितवान्—

“मुदाकरात्तमोदकं सदा विमुक्तिसाधकं

कलाधरावतंसकं विलासिलोकरक्षकम्।

अनायकैकनायकं विनाशितेभदैत्यकं

नताशुभाशुनाशकं नमामि तं विनायकम्॥”

अस्य श्लोकस्य भावार्थः अस्ति—येषां करकमलेषु मोदकः शोभते, ये सदैव मोक्षस्य मार्गं प्रशस्तं कुर्वन्ति, येषां मस्तके चन्द्रमा आभूषणरूपेण विराजते, ये सम्पूर्णस्य जगतः रक्षकाः सन्ति तथा सम्पूर्णस्य ब्रह्माण्डस्य एकमात्रं स्वामित्वं धारयन्ति, ये गजासुरनामकस्य राक्षसस्य संहारं कृतवन्तः तथा ये स्वभक्तान् सर्वेभ्यः कष्टेभ्यः शीघ्रमेव विमोचयन्ति, तादृशं भगवान् श्रीविनायकं प्रणमामि।

---------------

Hindusthan Samachar / Dheeraj Maithani