आचार्यपुलकसागरेण सह मिलितवान् मोहनभागवतः
भीलवाडा, १४ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घ-चालकः डॉ. मोहनभागवतः सोमवासरे भीलवाडायां चातुर्मासं कुर्वता राष्ट्रसन्तेन आचार्यपुलकसागर-साधुमहाभागेन सह मिलितवान्। सूर्यमहलस्थिते चातुर्मास-स्थले प्रायः ४० निमेषपर्यन्तं जातायां
समाज में समसरता के लिए यूजीसी नियम लागू नहीं होनी चाहिए, जैन तीर्थों का हो पूर्ण संरक्षण


समाज में समसरता के लिए यूजीसी नियम लागू नहीं होनी चाहिए, जैन तीर्थों का हो पूर्ण संरक्षण


भीलवाडा, १४ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घ-चालकः डॉ. मोहनभागवतः सोमवासरे भीलवाडायां चातुर्मासं कुर्वता राष्ट्रसन्तेन आचार्यपुलकसागर-साधुमहाभागेन सह मिलितवान्। सूर्यमहलस्थिते चातुर्मास-स्थले प्रायः ४० निमेषपर्यन्तं जातायां चर्चायां सामाजिकसमरसता, जैनतीर्थानां संरक्षणम्, गोवंशसंवर्धनं राष्ट्रनिर्माणं च इत्यादिषु विविधेषु विषयेषु विचारविनिमयः अभवत्। चर्चायां राजनीतेः पृथक् सामाजिकैकतायाः सद्भावस्य च विषयेषु मन्थनं कृतम्।

आचार्यपुलकसागरमहाभागेन सामाजिकसमरसतायाः संरक्षणे बलं दत्त्वा उक्तं यत् समाजं वर्गेषु विभजन्तः प्रयासाः परिहर्तव्याः। कथितानां यूजीसी-नियमानां क्रियान्वयनं न करणीयम् तथा सवर्णानां पृष्ठवर्गीयाणां च मध्ये विभाजनस्य स्थितिः न उत्पद्येत इति सः उक्तवान्। जैनसमाजस्य श्रद्धायाः प्रमुखकेन्द्रे सम्मेदशिखरजी, गिरनारः इत्यादयः जैनतीर्थस्थलानि सन्ति। तेषां तथा अन्येषां जैनतीर्थस्थलानां पूर्णसंरक्षणं सुनिश्चितं करणीयम् इति सः आग्रहं कृतवान्। जैनतीर्थस्थलानां संरक्षण-सम्बद्धाः समस्याः अपि चर्चिताः। डॉ. भागवतेन उचितस्तरे चर्चा कृत्वा समस्यासमाधानस्य आश्वासनं दत्तम्।

चर्चायाः समये आचार्यपुलकसागरेण विचार: दत्तः यत् देशस्य कारागारेषु गोशालाः स्थापनीयाः, येन बन्दिनः गोवंशसंवर्धनस्य सेवाकार्यस्य च सह सम्बद्धाः कर्तुं शक्यन्ते। सामाजिक-समरसतायाः राष्ट्रियैकतायाश्च सुदृढीकरणं सर्वेषां समानं लक्ष्यं भवेत्। जातिवादात् उपरि उत्थाय शान्तेः, सद्भावस्य राष्ट्रनिर्माणस्य च कृते मिलित्वा कार्यं कर्तुं आवश्यकता अस्ति।

आचार्यपुलकसागरेण उक्तं यत् राष्ट्रियैकतां सामाजिकसमरसतां च सुदृढीकर्तुं सङ्घस्य महत्त्वपूर्णा भूमिका अस्ति। अपरतः डॉ. भागवतेन स्वस्य साम्प्रतिक-अमेरिकाब्रिटेन-यात्रायाः अनुभवान् अपि आचार्यश्रीणा सह सहभागा: कृताः।

साक्षात्कारस्य प्रारम्भे डॉ. भागवतेन आचार्यपुलकसागरस्य पादप्रक्षालनं कृत्वा वन्दनम् अभिनन्दनं च कृतम्। आचार्यश्रीः तस्मै आशीर्वादं दत्तवान्। अस्मिन् अवसरे डॉ. भागवतेन इन्दौरनिवासिनी सरोजशाह-महोदयया आचार्यपुलक-सागरमहाभागस्य प्रेरणाप्रदजीवनम् आधृत्य लिखितस्य ‘एक और मुक्तिदूत’ इति पुस्तकस्य विमोचनं कृत्वा पुस्तकं आचार्यश्रीचरणयोः समर्पितम्।

अस्मिन् अवसरे राष्ट्रियस्वयंसेवक-सङ्घस्य अखिलभारतीयसहप्रचारकप्रमुखः अरुणजैनः, क्षेत्रप्रचारकः निंबारामः, प्रान्तप्रचारकः मुरलीधरः तथा श्रीपुलकसागर-चातुर्माससमित्याः अध्यक्षः प्रवीणचौधरी च उपस्थिताः आसन्। चौधरी-महोदयेन कथितं यत् वर्षे २०११ तमे अपि आचार्यपुलकसागरमहाभागस्य भीलवाडाप्रवासस्य समये डॉ. भागवतः तेन सह मिलितुं आगतवान् आसीत्। ततः परम् अपि उभयोः मध्ये समये समये साक्षात्कारवार्ता भवति स्म।

Hindusthan Samachar / Divya Ranjan