प्रधानमन्त्री १७ सेप्टेम्बरमासे सेमिकॉन-इण्डियायाः उद्घाटनं करिष्यति
नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। भारतस्य सेमिकण्डक्टर-इलेक्ट्रॉनिकी-क्षेत्रयोः बृहत्तमेषु आयोजनेषु अन्यतमः सेमिकॉन-इण्डिया-२०२६ इत्यस्य पञ्चमं संस्करणं १७ सेप्टेम्बरतः १९ सेप्टेम्बरपर्यन्तं नवदिल्ली इत्यत्र यशोभूमौ (इण्डिया इण्टरनेशनल कन्वेन्शन
प्रधानमंत्री नरेंद्र मोदी की सांकेतिक फोटो


नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। भारतस्य सेमिकण्डक्टर-इलेक्ट्रॉनिकी-क्षेत्रयोः बृहत्तमेषु आयोजनेषु अन्यतमः सेमिकॉन-इण्डिया-२०२६ इत्यस्य पञ्चमं संस्करणं १७ सेप्टेम्बरतः १९ सेप्टेम्बरपर्यन्तं नवदिल्ली इत्यत्र यशोभूमौ (इण्डिया इण्टरनेशनल कन्वेन्शन एण्ड् एक्स्पो सेन्टर) आयोजयिष्यते। प्रधानमन्त्री नरेन्द्रमोदी १७ सेप्टेम्बरमासे त्रिदिवसीयस्य अस्य आयोजनस्य उद्घाटनं करिष्यति। कार्यक्रमे सेमिकण्डक्टर-इलेक्ट्रॉनिकी-क्षेत्राभ्यां सम्बद्धाः वैश्विक-उद्योगजगतः प्रतिनिधयः, नीतिनिर्मातारः, निवेशकाः, शोधकर्तारः, शिक्षाविदः, नवोद्यमाः विद्यार्थिनश्च एकस्मिन् मञ्चे समागमिष्यन्ति।

भारत-सेमिकण्डक्टर-अभियानस्य, इलेक्ट्रॉनिकी-सूचनाप्रौद्योगिकी-मन्त्रालयस्य तथा वैश्विक-सेमिकण्डक्टर-इलेक्ट्रॉनिकी-उद्योगसङ्घटनस्य संयुक्ततत्त्वावधाने आयोज्यमानस्य अस्य कार्यक्रमस्य विषयः ‘सिलिकॉनतः प्रणालीनिर्माणपर्यन्तं पारिस्थितिकी-तन्त्रनिर्माणम्’ इति निर्धारितः अस्ति। अस्य उद्देश्यं भारतस्य सेमिकण्डक्टर-यात्रां तथा सम्पूर्ण-मूल्यशृङ्खलायां देशस्य वर्धमानाः क्षमताः विश्वस्य समक्षं प्रदर्शयितुम् अस्ति।

सेमिकॉन-इण्डिया-२०२६ इत्यस्मिन् ६००-तः अधिकाः प्रदर्शकाः भागं गृह्णन्ति, येषु प्रायः ३०० अन्ताराष्ट्रियाः निर्माण्यः सन्ति। ४०-तः अधिकेभ्यः देशेभ्यः प्रतिनिधिमण्डलानि कम्पन्यश्च अत्र आगमिष्यन्ति। प्रायः १५,००० वर्गमीटर-क्षेत्रे आयोज्यमाने प्रदर्शने १५०-तः अधिकाः प्रमुखाः वक्तारः स्वविचारान् अनुभवान् च प्रस्तुतयिष्यन्ति। आयोजने षड्देशानां द्वादशराज्यसर्वकाराणां च पवेलियनानि अपि भविष्यन्ति। अस्यां वारं प्रदर्शनीस्य प्रमुखाकर्षणं ‘सैण्ड्-तः सिलिकॉनतः सिस्टम-वैल्यू-चेन-अनुभवः’ इति भविष्यति। तेन आगन्तारः सेमिकण्डक्टर-क्षेत्रस्य सम्पूर्णां यात्रां समग्रतया अवगन्तुं शक्नुवन्ति। अस्मिन् सेमिकण्डक्टर-सामग्रीणां निर्माणात् आरभ्य उन्नत-पैकेजिङ्ग्, चिप्-डिजाइन, इलेक्ट्रॉनिकी तथा प्रणालीनां पर्यन्तं भारतस्य क्षमताः प्रदर्शयिष्यन्ते।

कार्यक्रमे नवोद्यम-पवेलियनम्, नवाचार-प्रदर्शनम्, नवोद्यम-प्रतियोगिता, छात्र-हैकाथॉन तथा कार्यबल-विकास-पवेलियनम् अपि भविष्यन्ति। नवोद्यम-पवेलियने प्रायः ४० नवोद्यमाः स्व-उत्पादान् नवाचारांश्च प्रदर्शयिष्यन्ति। कार्यबल-विकास-पवेलियनस्य माध्यमेन सूक्ष्म-इलेक्ट्रॉनिकी-क्षेत्रे कौशलस्य, प्रतिभायाः तथा रोजगारस्य अवसराणां विषये विशेषं ध्यानं दीयते।

त्रिदिवसीये सम्मेलने सेमिकण्डक्टर-निर्माणं तथा प्रौद्योगिकी, कृत्रिमबुद्धिमत्ता, आपूर्तिशृङ्खलायाः सुदृढीकरणम्, उन्नत-पैकेजिङ्ग्, सेमिकण्डक्टर-सामग्री तथा उपकरणानि, चिप्-डिजाइन, अनुसन्धान-विकासः, नवोद्यमाः, नवाचारः तथा प्रतिभा-विकासः इत्यादिषु विषयेषु चर्चा भविष्यति। अस्मिन् षट् अन्ताराष्ट्रिय-देशीय-गोलमेज-चर्चाः तथा महिलासशक्ती-करणस्य नेतृत्वस्य च विषये विशेषसत्रमपि आयोजयिष्यते। अस्मिन् आयोजने चिप्-उद्योगेन सम्बद्धानां अनेकेषां प्रमुखानां वैश्विकानां भारतीयानां च निर्माणीयानां सहभागिता अपेक्षिता अस्ति। अनेन निर्माणीनां मध्ये निवेशस्य, प्रौद्योगिकीय-सहकार्यस्य, सहभागिताया: तथा आपूर्तिशृङ्खलासम्बद्धानाम् अवसराणां प्रोत्साहनं भविष्यति इति अपेक्षा अस्ति।

सेमिकॉन-इण्डिया इत्यस्य आयोजनं तस्मिन् समये भवति, यदा भारतस्य सेमिकण्डक्टर-कार्यक्रमे परियोजनानां अनुमोदनात् अग्रे गत्वा उत्पादनस्य दिशि कार्यं प्रचलति। सेमिकॉन-इण्डिया-कार्यक्रमस्य अन्तर्गतं सर्वकारेण देशे सुदृढं लचीलं च सेमिकण्डक्टर-पारिस्थितिकी-तन्त्रं निर्मातुं १२ परियोजनाः अनुमोदिताः सन्ति। एतेषु सेमिकॉन-१.० इत्यस्य अन्तर्गतं अनुमोदितासु १२ परियोजनासु तिसृभिः वाणिज्यिक-उत्पादनम् आरब्धम् अस्ति। तदनन्तरं केन्द्रीय-मन्त्रिमण्डलेन सेमिकण्डक्टर-क्षेत्रस्य विकासं अधिकं गतिं दातुं सेमिकॉन-२.० इत्यस्यापि अनुमोदनं कृतम् अस्ति। तत्र षड्भिः प्रमुखैः स्तम्भैः पारिस्थितिकीतन्त्रस्य अग्रे विकासे बलं दीयते।

विश्वे कृत्रिमबुद्धिमत्ता, डिजिटल-प्रौद्योगिकी, उन्नत-सङ्गणनम्, विद्युद्यान-चलनम् तथा दूरसञ्चारम् इत्यादीनां प्रौद्योगिकीनां विस्तारस्य सह सेमिकण्डक्टर इत्यादिनां याचना तीव्रतया वर्धते। अतः भारतं स्वस्य विशालस्य गृह-विपणस्य, कुशल-व्यावसायिकानां, सर्वकारीय-नीतीनां तथा वर्धमानस्य वैश्विक-निवेशस्य आधारेण सेमि-कण्डक्टर-रचना, निर्माण, अनुसन्धान तथा नवाचारस्य क्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वोढुं दिशि अग्रे सरति। विवरणानुसारं वैश्विकः सेमिकण्डक्टर-बाजारः २०२५ तमे वर्षे प्रायः ७९६ अरब-डॉलर्-परिमितः आसीत् तथा २०३० तमं वर्षं यावत् सः २ ट्रिलियन-डॉलर-तः अधिकः भविष्यति इति अनुमानम् अस्ति। भारतस्य सेमिकण्डक्टर इत्यादिनां वर्तमाना याचना प्रायः ५० अरब-डॉलर् इति आकलितः अस्ति, यः २०३० तमं वर्षं यावत् वर्धित्वा प्रायः १०३ अरब-डॉलर-पर्यन्तं प्राप्स्यति इति अनुमानम् अस्ति।

सेमिकॉन-इण्डिया-२०२६ इत्यस्य उद्देश्यं भारतं केवलं सेमिकण्डक्टर-क्षेत्रे सम्भावनायुक्तः देशः इति रूपेण प्रस्तुतं कर्तुं न, अपि तु उत्पादनं, डिजाइन, अनुसन्धानम्, नवाचारः तथा आपूर्ति-शृङ्खला इत्येताभि: सह सम्पूर्णां मूल्यशृङ्खलां प्रति स्वस्य क्षमताः प्रदर्शयितुम् अस्ति। आयोजनस्य माध्यमेन वैश्विक-कम्पनीभिः सह प्रौद्योगिकीय-साझेदारी, निवेशः, प्रतिभा-विकासः तथा सहयोगः गतिं प्राप्नुयात् इति प्रयासः क्रियते। पञ्चवर्षेषु विकसितं भारतस्य सेमिकण्डक्टर-पारिस्थितिकीतन्त्रं वैश्विक-मञ्चे प्रदर्शयितुम् अयं कार्यक्रमः भारतं सेमिकण्डक्टर-इलेक्ट्रॉनिकी-निर्माणस्य वैश्विककेन्द्रं कर्तुं लक्ष्ये महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नोति। सेमिकॉन-इण्डिया-२०२६ इत्यस्मिन् भागं ग्रहीतुं आगन्तॄणां पञ्जीकरणम् आरब्धम् अस्ति। इच्छुकाः जनाः आधिकारिक-पटलस्य माध्यमेन पञ्जीकरणं कर्तुं शक्नुवन्ति।

Hindusthan Samachar / Divya Ranjan