Enter your Email Address to subscribe to our newsletters

मङ्गलकामनया श्रद्धालुभिः जलम् अर्पितम्
धमतरी, १४ सेप्टेम्बरमासः (हि.स.)। सर्वजनहिताय, सर्वजनसुखाय, जन-कल्याणाय सनातनसंस्कृतेः संरक्षणस्य च भावनया मनमन्दिर-चतुष्पथस्थिते गणेशमन्दिरे भगवत: सिद्धिविनायक-गणेशस्य चतुर्विंशतिहोरात्मकः अखण्ड-जलाभिषेकः कृतः।
१३ सेप्टेम्बरमासतः प्रारब्धस्य जलाभिषेकस्य समापनम् १४ सेप्टेम्बरमासस्य प्रातः षड्वादने अभवत्। अस्मिन् अवसरे श्रद्धालवः क्रमेण भगवत: गणेशाय जलम् अर्पयित्वा सुखसमृद्धेः, मङ्गलस्य विघ्नबाधानां च निवारणस्य कामनां कृतवन्तः।
अखण्डजलाभिषेकस्य समापनानन्तरं मन्दिरपरिसरे हवनपूजनस्य आयोजनम् अभवत्, यस्मिन् श्रद्धालुभिः आहुतयः प्रदत्ताः। पं. श्रीकान्ततिवारी, पं. कामेश्वरपाण्डेयः, पं. नरेशधरदीवानः, पं. चिरागधरदीवानः, पं. वैभवधरदीवानः, पं. नितिनदीवानः तथा पं. सुरेन्द्रपाण्डेयः च गणपत्यथर्वशीर्षस्य अनवरतं पाठं कृतवन्तः। मन्दिरन्यासस्य अध्यक्षस्य रोहिताशमिश्रस्य मार्गदर्शने मुख्यपूजकः आचार्यः पं. होमप्रसादशास्त्री तथा सहयोगिनः वैदिकब्राह्मणाः विधिविधान-पूर्वकं पूजार्चनां कारितवन्तः। ततः श्रद्धालुभ्यः प्रसादस्य वितरणं कृतम्।
मुख्यपूजकः आचार्यः पं. होमप्रसादशास्त्री अवदत् यत् धार्मिकमान्यतानुसारं भगवत: गणेशाय जलम् अर्पयित्वा मनसः शान्तिः, बुद्धेः स्थिरता अहङ्कारस्य च नाशः भवति तथा विघ्नबाधाः दूरं भवन्ति। जलाभिषेके महिलाः अपि उत्साहपूर्वकं सहभागितां कृतवत्यः।
सः अवदत् यत् अस्मिन् वर्षे तीजव्रतस्य गणेशपूजायाश्च अवसरे विशेषः ज्योतिषीयः संयोगः निर्मितः अस्ति। ब्रह्मयोगः मुद्गलयोगश्च शुभौ मन्येते। ब्रह्मयोगः ज्योतिषशास्त्रे २७ योगेषु पञ्चविंशतितमः योगः अस्ति, यः ज्ञानस्य, बुद्धेः शान्तेश्च प्रतीकः मन्यते। मुद्गलयोगस्य सम्बन्धः भगवता गणेशेन मुद्गलर्षिणा च विरचितेन मुद्गलपुराणेन सह सम्बध्यते। धार्मिक-मान्यतानुसारं अयं योगः सङ्कटानां निवारणाय शुभफलप्रदायकश्च मन्यते। श्रद्धालवः भगवान् गणेशस्य आराधनां कृत्वा परिवारस्य सुखसमृद्धेः तथा जीवने आगच्छतां सर्वेषां विघ्नानां निवारणस्य कामनां कृतवन्तः।
Hindusthan Samachar / Divya Ranjan