विकसितभारत-२०४७स्य निर्माणे जनसहभागितां सुनिश्चितयिष्यति सेवासङ्कल्पाभियानम् : स्वतन्त्रदेवसिंहः
सेवासङ्कल्पाभियानं जनसेवां सुशासनं च जनजनपर्यन्तं प्रापयितुं व्यापकाभियानम् प्रयागराजः, १४ सितम्बरमासः (हि.स.)। सेवासङ्कल्पाभियानं केवलं कार्यक्रमः नास्ति, अपितु जनसेवां सुशासनं च जनजनपर्यन्तं प्रापयितुं व्यापकं अभियानम् अस्ति। अस्य माध्यमेन प्रधा
प्रयागराज के सर्किट हाउस में समीक्षा बैठक करते हुए प्रभारी मंत्री स्वतंत्रदेव सिंह सहित अन्य लोगों की फोटो


सेवासङ्कल्पाभियानं जनसेवां सुशासनं च जनजनपर्यन्तं प्रापयितुं व्यापकाभियानम्

प्रयागराजः, १४ सितम्बरमासः (हि.स.)। सेवासङ्कल्पाभियानं केवलं कार्यक्रमः नास्ति, अपितु जनसेवां सुशासनं च जनजनपर्यन्तं प्रापयितुं व्यापकं अभियानम् अस्ति। अस्य माध्यमेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्चविंशतिवर्षीयस्य निरन्तरसेवाकाले सम्पन्नानां विकासकार्याणां जनकल्याणकारीकार्याणां च सूचनाः प्रत्येकं नागरिकं प्रति प्रापयित्वा विकसितभारत-२०४७स्य निर्माणे जनसहभागिता सुनिश्चितीकरिष्यते। एतद् सोमवारं सर्किटहाउसे आयोजितायां सभायां प्रयागराजस्य प्रभारीमन्त्री जलशक्तिमन्त्री स्वतन्त्रदेवसिंहः उक्तवान्।

प्रभारीमन्त्रिणा सप्तदशसितम्बरतः सप्तदशअक्टोबरपर्यन्तं प्रचलिष्यमाणस्य सेवासङ्कल्पाभियानस्य सज्जतानां समीक्षा कृता। तेन जनप्रतिनिधिभ्यः जनपदस्तरीयाधिकारिभ्यश्च उक्तं यत् अभियानस्य कार्यक्रमाः केवलं औपचारिकतायै सीमिताः न भवन्तु। अस्मिन् जनप्रतिनिधीनां, स्वयंसेवीसङ्गठनानां, युवानां, महिलानां, विद्यार्थिनां सामान्यनागरिकाणां च व्यापकसहभागिता सुनिश्चितीकरणीया। ग्रामपञ्चायततः जनपदस्तरपर्यन्तं कार्यक्रमाणां प्रभावी निरीक्षणमपि करणीयम्।

तेन उक्तं यत् मासपर्यन्तं प्रचलिष्यमाणेऽस्मिन् अभियाने प्रधानमन्त्रिणः पञ्चविंशतिवर्षीयस्य सेवाकालस्य जनकल्याणकारी उपलब्धयः जनसामान्यं प्रति प्रापयिष्यन्ते तथा प्रत्येकं नागरिकं विकसितभारत-२०४७ इति राष्ट्रियसङ्कल्पेन सह संयोजयिष्यते।

विविधकार्यक्रमैः सह सम्बद्धं भविष्यति जनजनम्

अभियानस्य अन्तर्गतं ‘आशीर्वादस्य दीपः’, ‘मम स्वप्नानां भारतम्’, ‘नमोसेवागाथा’, ‘आङ्गणमेलनसेवा’, ‘सेवायाः कथा’, ‘सेवाज्योतिः कलशयात्रा’, ‘सेवा मम योगदानम्’, ‘सेवासेत्वभियानम्’, ‘सेवायाः रङ्गाः राष्ट्रेण सह’, ‘सेवा फर्स्ट् इनोवेशन चैलेञ्ज्’ तथा ‘सुशासनसेवासंवादः’ इत्यादयः विविधाः कार्यक्रमाः आयोजिताः भविष्यन्ति।

एतेषां कार्यक्रमाणां माध्यमेन जनकल्याणकारीयोजनानां सूचना, लाभार्थिनां अनुभवाः, सेवागतिविधयः, नवाचाराः विकसितभारत-२०४७स्य सङ्कल्पश्च व्यापकस्तरे अग्रे वर्धयिष्यन्ते।

प्रभारीमन्त्री अवदत् यत् प्रत्येकस्मिन् विधानसभाक्षेत्रे श्रमदानं, रक्तदानं, स्वच्छताभियानम्, वृक्षारोपणम्, स्वास्थ्यपरीक्षणम्, जलसंरक्षणम्, गोशालासु अमृतसरोवरेषु च सेवाकार्याणि सहिताः विविधाः जनोपयोगिनः गतिविधयः आयोजिताः भविष्यन्ति। महिलानां स्वास्थ्यं पोषणं च प्रति जागरूकताकार्यक्रमाः तथा दिव्याङ्गजनसहायताकार्यक्रमाः अपि आयोजयिष्यन्ते।

१७ सितम्बर दिनाङ्के गृहे गृहे प्रज्वलिष्यति ‘आशीर्वादस्य दीपः’

स्वतन्त्रदेवसिंहः अवदत् यत् १७ सितम्बर दिनाङ्के ‘आशीर्वादस्य दीपः’ इति कार्यक्रमस्य अन्तर्गतं सम्पूर्णे जनपदे व्यापकस्तरे दीपाः प्रज्वालनीयाः। तेन अधिकारिभ्यः जनप्रतिनिधिभ्यश्च शासकीयभवनेषु, कार्यालयेषु अन्येषु सार्वजनिकस्थलेषु च दीपप्रज्वालनस्य व्यवस्थां सुनिश्चितुं निर्देशाः दत्ताः।

तेन उक्तं यत् विविधशासकीययोजनानां लाभार्थिनः अपि अभियानेन सह संयोजनीयाः तथा तेषां गृहेषु दीपप्रज्वालनं कारयितव्यम्। ‘आशीर्वादस्य दीपः’ केवलं प्रकाशस्य प्रतीकं न भविष्यति, अपितु जनसेवायाः, विकासस्य, सुशासनस्य राष्ट्रनिर्माणस्य च सङ्कल्पस्य प्रतीकं भविष्यति। तेन सर्वेषां जनभागीदारीयुक्तस्य अस्य अभियानस्य सफलतां कर्तुं आह्वानं कृतम्।

सभायां मन्त्री नन्दगोपालगुप्तः नन्दी, फूलपुरस्य सांसदः प्रवीणपटेलः, फूलपुरस्य विधायकः दीपकपटेलः, फाफामऊस्य विधायकः गुरुप्रसादमौर्यः, कोरांवस्य विधायकः राजमणिकोलः, करछनायाः विधायकः पीयूषरञ्जननिषादः, नगरोत्तरस्य विधायकः हर्षवर्धनवाजपेयी, नगरपश्चिमस्य विधायकः सिद्धार्थनाथसिंहः, महापौरः उमेशचन्द्रगणेशकसरवानी, विधानपरिषदः सदस्यः सुरेन्द्रचौधरी, महानगराध्यक्षः सञ्जयगुप्तः, गङ्गापारजनपदाध्यक्षः निर्मलापासवानः यमुनापारजनपदाध्यक्षः राजेशशुक्लश्च उपस्थिताः आसन्।

तदतिरिक्तं जिलाधिकारी मनीषकुमारवर्मा, प्रयागराजविकासप्राधिकरणस्य उपाध्यक्षः ऋषिराजः, मुख्यविकासाधिकारी हर्षिकासिंहः, जिलाविकासाधिकारी जीपीकुशवाहा सहिताः विभिन्नविभागानाम् अधिकारिणः अपि सभायाम् उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani