महिला-एशियाकप-विजये राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा लोकसभाध्यक्षेन च भारतीयदलाय शुभकामनाः
नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मूः, उपराष्ट्रपतिः सी.पी.राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी तथा लोकसभाध्यक्षः ओमबिरला च सोमवासरे महिला-टी-२०-एशिया-कप्-२०२६ इत्यस्य उपाधिं विजित्य भारतीयमहिलाक्रिकेटदलाय शुभकामनाः प्र
भारतीय महिला क्रिकेटर


नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मूः, उपराष्ट्रपतिः सी.पी.राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी तथा लोकसभाध्यक्षः ओमबिरला च सोमवासरे महिला-टी-२०-एशिया-कप्-२०२६ इत्यस्य उपाधिं विजित्य भारतीयमहिलाक्रिकेटदलाय शुभकामनाः प्रदत्तवन्तः।

राष्ट्रपतिः द्रौपदीमुर्मूः सामाजिकमाध्यमे ‘एक्स’-मध्ये अवदत् यत् भारतीयमहिलादलेन सम्पूर्णे प्रति-योगितायां उत्कृष्टं प्रदर्शनं कृत्वा सर्वे प्रतियोगिताः विजिताः तथा देशस्य गौरवं वर्धितम्। सा क्रीडिकाभ्यः यूनां, विशेषतः बालिकानां कृते, महान् प्रेरणास्रोतः भवितुं तथा भविष्येऽपि सफलतायाः नूतनाः कथाः रचयितुं शुभकामनाः प्रदत्तवती।

राष्ट्रपतिः एशियाकपे उत्कृष्टप्रदर्शनाय कनिष्ठपुरुष-हॉकीदलाय कनिष्ठ-महिला-हॉकीदलाय च अपि शुभकामनाः प्रदत्तवती। सा अवदत् यत् युवा-क्रीडकानां समर्पणं, अनुशासनं दलभावना च देशस्य गौरवस्य विषयः अस्ति।

उपराष्ट्रपतिः सी.पी.राधाकृष्णन् अवदत् यत् सम्पूर्णे प्रतियोगितायां भारतीयमहिला-क्रीडकानां विजयक्रमः, उत्कृष्टं दलकार्यं दृढसङ्कल्पश्च देशस्य गौरवं वर्धयति। सः आशां प्रकटितवान् यत् एषा उपलब्धिः असङ्ख्येभ्यः युवभ्यः महत्स्वप्नानि द्रष्टुं, क्रीडासु भागं ग्रहीतुं उत्कृष्टप्रदर्शनाय च प्रेरणां दास्यति।

सः कनिष्ठमहिला-हॉकीदलाय एशिया-कप्-उपाधिं संरक्षितवत्यै तथा सम्पूर्णे प्रतियोगितायाम् अजेयत्वाय अपि शुभकामनाः प्रदत्तवान्। कनिष्ठपुरुष-हॉकीदलेन अन्तिमप्रतियोगितायां ४-१ इति अन्तरेण प्राप्तां विजयम् उल्लिख्य सः अवदत् यत् युवा-क्रीडकाणां कौशलं, अनुशासनं दृढसङ्कल्पश्च प्रेरणादायकः अस्ति।

प्रधानमन्त्री नरेन्द्रमोदी भारतीयमहिला-दलाय एशियाकप्-विजये शुभकामनाः प्रदाय अवदत् यत् एषः भारतीयक्रिकेटस्य कृते गौरवस्य क्षणः अस्ति। सः अवदत् यत् सम्पूर्णे प्रतियोगितायां दलस्य आत्मविश्वासः, निरन्तरता उत्कृष्टः उत्साहश्च दृष्टः। प्रधानमन्त्री आशां प्रकटितवान् यत् एषा विजयः देशस्य सर्वत्र लक्षशः युवानः क्रीडासु सम्बद्धाः भवितुं प्रगतिं कर्तुं च प्रेरयिष्यति।

लोकसभाध्यक्षः ओमबिरला अवदत् यत् भारतीयमहिलादलेन सम्पूर्णे प्रति-योगितायाम् एकमपि प्रतियोगितां न पराजित्य उपाधिः विजिता तथा अष्टमवारं एशियाकप् स्वनाम्नि कृतम्। सः अवदत् यत् प्रत्येकस्मिन् प्रतिस्पर्धायां आत्मविश्वासेन, अनुशासनेन दलभावनया च क्रीडित्वा महिलाक्रिकेटक्रीडकाभिः स्वप्रतिभायाः दृढसङ्कल्पस्य च उत्कृष्टं प्रदर्शनं कृतम्।

बिरला अवदत् यत् एषा विजयः केवलं क्रीडोपाधिपर्यन्तं सीमिता नास्ति, अपितु देशस्य बालिकानां शक्तेः, परिश्रमस्य स्वप्नानां च विजयः अस्ति। सः अवदत् यत् भारतीयमहिलाक्रीडकानाम् एषा उपलब्धिः युवानः, विशेषतः बालिकाः, महत्स्वप्नानि द्रष्टुं कठिनपरिश्रमं कर्तुं लक्ष्यं प्राप्तुं च प्रेरयिष्यति।

उल्लेखनीयं यत् भारतीयमहिला-क्रिकेटदलेन श्रीलङ्कादलं ७२ धावनाङ्कैः पराजित्य महिला-एशियाकप-२०२६ इत्यस्य उपाधिः विजिता। हरमनप्रीतकौरस्य नेतृत्वे भारतीयदलेन एतया विजयेन प्रतियोगितायाः अष्टमः उपाधिः प्राप्तः। एतया विजयेन भारतीयदलेन गतसंस्करणस्य अन्तिमप्रतियोगितायां श्रीलङ्कादलात् प्राप्तस्य पराजयस्यापि प्रतिशोधः कृतः।

Hindusthan Samachar / Divya Ranjan