जनश्रवणे अष्टात्रिंशत् परिवादाः पञ्जीकृताः, अष्टादशस्य निस्तारणम्
हरिद्वारम्, 14 सितंबरमासः (हि.स.)। जनपदवासिनां समस्याणां शीघ्रनिस्तारणस्य उद्देश्येन जिलाधिकारी मयूरदीक्षितस्य निर्देशनानुसारं सोमवासरे जिलाकार्यालयस्य सभागारे जनश्रवणकार्यक्रमः आयोजितः। मुख्यविकासाधिकारी डॉ. ललितनारायणमिश्रस्य अध्यक्षतायां सम्पन्
जनसुनवाई के दौरान


हरिद्वारम्, 14 सितंबरमासः (हि.स.)।

जनपदवासिनां समस्याणां शीघ्रनिस्तारणस्य उद्देश्येन जिलाधिकारी मयूरदीक्षितस्य निर्देशनानुसारं सोमवासरे जिलाकार्यालयस्य सभागारे जनश्रवणकार्यक्रमः आयोजितः। मुख्यविकासाधिकारी डॉ. ललितनारायणमिश्रस्य अध्यक्षतायां सम्पन्ने जनश्रवणे विभिन्नविभागसम्बद्धाः अष्टात्रिंशत्परिवादाः समस्याश्च पञ्जीकृताः। एतासु अष्टादशशिकायतानां निस्तारणं तत्रैव कृतम्, अवशिष्टाःपरिवादाः शीघ्रकार्यवाहीकृते सम्बद्धविभागेभ्यः प्रेषिताः।

जनश्रवणे राजस्वम्, भूमिविवादः, विद्युत्, अतिक्रमणम्, जलभरावः, पेयजलम्, राशनपत्रम् इत्यादिभिः सम्बद्धाः अनेकाः समस्याः सम्मुखम् आगताः। नवोदय-नगरस्य गणेश-इन्क्लेवस्य षष्ठीवीथ्याः निवासिभिः लोकनिर्माणविभागेन निर्मितायाः नालिकायाः आच्छादनस्य आग्रहः कृतः। तेषां कथनम् आसीत् यत् नालिका अनाच्छादिता भवति, अतः वाहनानां गृहपर्यन्तं नयनं काठिन्यपूर्णं भवति। देवभूमि-पूर्वसैनिक-कल्याणसमित्या मिलनकेन्द्रं हुतात्मस्मारकं च सम्बद्धा मागः प्रस्तुतः।

तदतिरिक्तं सरबतिया इत्याख्यया स्वस्य दिवंगतस्य पितुः अचलसम्पत्तौ स्वनामाङ्कनस्य, ज्ञानलोक-कालोनी दशमवीथ्याः निवासिभिः दूषितजलस्य निकाससमस्यायाः समाधानस्य, तथा दि बुद्धिस्ट् सोसाइटी ऑफ इण्डिया इत्यनया हरिद्वारस्थितस्य बौद्धविहारस्य पुनर्निर्माणाय भूमेः उपलब्धतायाः आग्रहः कृतः।

रुड़कीनगरस्य कृष्णानगरस्य षोडशवीथ्याः निवासिभिः मार्गस्य नालिकायाश्च स्तरः अत्युच्चः निर्मितत्वेन सम्भावितजलभरावस्य समस्या उत्थापिता। वेदपालः गङ्गाजलस्य खसरा-संख्या ४४३/१२ इत्यस्य भूमेः अवैधाधिकारं दूरीकर्तुं तथा हरेंद्रसिंहेन ग्राम-मजाहिंदपुर-सतीवालायां नदीकटावं निरोद्धुं शीघ्रं तटबन्धनिर्माणस्य आग्रहः कृतः।

उपेक्षायां भविष्यति कार्यवाही

मुख्यविकासाधिकारी डॉ. ललितनारायणमिश्रेण अधिकारिभ्यः निर्देशः दत्तः यत् जनश्रवणे प्राप्तानां शिकायतानां शीघ्रं, समयबद्धतया संवेदनशीलतया च निस्तारणं क्रियताम्। तेन उक्तं यत् शिकायतानां समाधानस्य विषये कस्मिन् अपि स्तरे उपेक्षा अथवा शिथिलता न सहिष्यते। येषु प्रकरणेषु स्थलनिरीक्षणस्य आवश्यकता अस्ति, तेषु सम्बद्धाः अधिकारिणः परस्परसमन्वयेन स्थलं गत्वा समस्यायाः समाधानं सुनिश्चितं कुर्युः।

मुख्यमन्त्रिसहायताहेल्पलाइने २७४ परिवादाःलम्बिताः

सभायां मुख्यमन्त्रिसहायताहेल्पलाइन्याम् लम्बितानां शिकायतानामपि समीक्षा कृता। मुख्यविकासाधिकारीण अधिकारिभ्यः षट्त्रिंशद्दिनाधिककालात् लम्बितानां शिकायतानां प्राथमिकतायाः आधारेण निस्तारणस्य निर्देशः दत्तः। समीक्षायां एल-१-स्तरे द्विशतषोडश शिकायताः तथा एल-२-स्तरे अष्टपञ्चाशत् शिकायताः लम्बिताः इति ज्ञातम्। मुख्यविकासाधिकारीण सर्वेषां सम्बद्धाधिकारिणां निर्देशः कृतः यत् एतासां शिकायतानां गम्भीरतया संवेदनशीलतया च शीघ्रं निस्तारणं सुनिश्चितं कुर्वन्तु।

जनश्रवणे अपरजिलाधिकारी-प्रशासनः जितेन्द्रकुमारः, अपरजिलाधिकारी-वित्तं राजस्वं च वैभवगुप्तः, अपरमुख्यचिकित्साधिकारी डॉ. अनिलवर्मा, जिलाविकासाधिकारी कमलेशकुमारपन्तः, मुख्यशिक्षाधिकारी अमितकुमारचन्दः, जिला-खाद्यसुरक्षाधिकारी महिमानन्दजोशी, जिलापर्यटनाधिकारी सुशीलनौटियालः, जिला-अर्थ-संख्याधिकारी नलिनीध्यानी, जिलाप्रोवेशनाधिकारी अविनाशभदौरिया, जिला-आपदाप्रबन्धनाधिकारी मीरारावत्, उपमुख्यनगराधिकारी एम.के. यादवः, एल.डी.एम. दिनेशगुप्तः, परियोजनानिदेशकः यूरेडा वाई.एस. बिष्टः इत्यादयः जिलास्तरीयाः अधिकारिणः विभिन्नक्षेत्रेभ्यः आगताश्च फरियादिनः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani