आशाकार्यकर्तृणां मासिकप्रोत्साहनराशिः द्विगुणीकृता, अधुना षट्सहस्ररूप्यकाणि प्राप्स्यन्ति।
नवदिल्ली, 15 सितंबरमासः (हि.स.)। दिल्लीप्रदेशस्य मुख्यमन्त्रिण्याः रेखागुप्तायाः अध्यक्षतायां मङ्गलवासरे सम्पन्नायां मन्त्रिपरिषदः उपवेशने आशाकार्यकर्तृणां निर्धारितमासिकप्रोत्साहनराशिं द्विगुणीकृत्य त्रिसहस्ररूप्यकेभ्यः षट्सहस्ररूप्यकाणि कर्तुं
दिल्ली की मुख्यमंत्री रेखा गुप्ता मंगलवार को मंत्रिपरिषद की बैठक करते हुए


नवदिल्ली, 15 सितंबरमासः (हि.स.)।

दिल्लीप्रदेशस्य मुख्यमन्त्रिण्याः रेखागुप्तायाः अध्यक्षतायां मङ्गलवासरे सम्पन्नायां मन्त्रिपरिषदः उपवेशने आशाकार्यकर्तृणां निर्धारितमासिकप्रोत्साहनराशिं द्विगुणीकृत्य त्रिसहस्ररूप्यकेभ्यः षट्सहस्ररूप्यकाणि कर्तुं निर्णयः गृहीतः। एषा वृद्धिः दिल्लीप्रदेशे कार्यरतासु सर्वासु आशाकार्यकर्तृषु प्रभावी भविष्यति। अन्याः प्रोत्साहनराशयः पूर्ववत् एव प्रवर्तिष्यन्ते।

मुख्यमन्त्री अवदत् यत् आशाकार्यकर्तारः दिल्लीप्रदेशस्य प्राथमिकस्वास्थ्यव्यवस्थायाः महत्त्वपूर्णाः पक्तयः सन्ति। ताः गृहे गृहे गत्वा जनान् स्वास्थ्यसम्बद्धाः सूचनाः ददति, परिवारान् टीकाकरणाय प्रेरयन्ति तथा च गर्भवतीनां प्रसूतानां च परिचर्यासम्बद्धासु सेवासु सहयोगं कुर्वन्ति। स्वास्थ्य-पोषणदिवसेषु, स्वास्थ्यजागरूकताकार्यक्रमेषु, सर्वेक्षणेषु, सामुदायिकबैठकेषु च तासां महत्त्वपूर्णा भूमिका भवति। कोविड्-१९ महामारीकाले अपि आशाकार्यकर्तृभिः महत्त्वपूर्णाः स्वास्थ्यसेवाः प्रदत्ताः आसन्।

दिल्लीप्रदेशे ६७२५ पदेषु आशाकार्यकर्तारः कार्यरताः सन्ति। सामान्यतः एका आशाकार्यकर्त्री प्रायः द्विसहस्रजनैः अथवा चतुश्शतपरिवारैः सह सम्बद्धा भवति।

मुख्यमन्त्री अवदत् यत् दिल्लीसर्वकारः आशाकार्यकर्तॄणां मानदेहवर्धनस्य विषये निरन्तरं विचारविमर्शं कुर्वन् आसीत्। एषः निर्णयः सर्वकारस्य प्राथमिकतासु अन्तर्भूतः आसीत्, यः अधुना पूर्णः कृतः।

मुख्यमन्त्री अवदत् यत् मासिकप्रोत्साहनराशेः वृद्धिः आशाकार्यकर्तॄणां योगदानस्य सम्मानस्य सह तासाम् आर्थिकसुरक्षां सुनिश्चितं कर्तुं दिशि महत्त्वपूर्णं सोपानम् अस्ति। अनेन तासां कार्ये उत्साहः सेवायाः निरन्तरता च सुदृढीभविष्यति। तदनन्तरं प्राथमिकस्वास्थ्यसेवानां सुदृढीकरणे महिलानाम् आर्थिकसशक्तीकरणस्य प्रवर्धने च अपि सहायता भविष्यति।

---------------