Enter your Email Address to subscribe to our newsletters

कृषिविज्ञानकेन्द्राणि कृषेः आदर्शं प्रस्तुतयेयुः : सूर्यप्रतापशाही
लखनऊः, १५ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य कृषिमन्त्री सूर्यप्रतापशाही सेवासङ्कल्पाभियानस्य अवसरे १७ सितम्बरदिनाङ्के व्यापकस्वच्छताभियानं सञ्चालयितुं तथा प्रदेशस्य सर्वेषु विकासखण्डेषु पञ्चदिवसीयकृषकमेलानां सफलतापूर्वकम् आयोजनं कर्तुं निर्देशान् दत्तवान्।
कृषिमन्त्री मङ्गलवासरे कृषिभवनस्य सभागारे प्रदेशस्य सर्वेषां ८९ कृषिविज्ञानकेन्द्राणां वैज्ञानिकैः प्रभारिभिश्च सह समीक्षाबैठकां कृतवान्। मन्त्री अवदत् यत् कृषिविज्ञानकेन्द्राणि कृषकाणां कृते मन्दिरसदृशानि सन्ति। अत्र वैज्ञानिकैः क्रियमाणं शोधकार्यं नवाचाराश्च केवलं प्रक्षेत्रेषु सीमिताः न तिष्ठेयुः, अपितु कृषकाणां क्षेत्रेषु वास्तविकपरिवर्तनरूपेण दृश्यन्ताम्।
बैठके स्थानीयस्तरे दलहनानां तिलहनानां च उत्पादनं प्रोत्साहयितुं विस्तरेण चर्चा कृता।
कृषिमन्त्री वैज्ञानिकेभ्यः स्पष्टनिर्देशान् दत्तवान् यत् ते निर्धारितस्य प्रारूपस्य अनुसारं कार्यं कुर्वन्तः केन्द्रेषु व्यावहारिकगतिविधीनां गतिं शीघ्रं वर्धयेयुः। सः अवदत् यत् विलम्बेन बुवाईकरणस्य प्रवृत्तिः सर्वथा परिवर्तनीया, यतः तया सस्यानां उत्पादनस्य उत्पादकत्वस्य च उभयोः प्रतिकूलः प्रभावः भवति।
कृषकान् समये बुवाईकरणाय, निराई-गुडाईकार्याय, कटाईकार्याय च प्रेरयितव्यम् तथा क्षेत्रेषु पङ्क्तिबुवाई, अन्तःसस्यकृषिः तथा सीमारेखाङ्कनम् इत्यादीनां उन्नतपद्धतीनां अनिवार्यरूपेण प्रयोगः कारयितव्यः।
समीक्षाबैठके कृषिराज्यमन्त्री बलदेवसिंहऔलखः, प्रमुखसचिवः रविन्द्रः, विशेषसचिवः लालबहादुरयादवः, बांदाकृषिविश्वविद्यालयस्य कुलपतिः एस.वी.एस. राजू, मेरठकृषिविश्वविद्यालयस्य कुलपतिः त्रिवेणीदत्तः, कानपुरकृषिविश्वविद्यालयस्य कुलपतिः सञ्जीवगुप्तः, उत्तरप्रदेशकृषिअनुसन्धानपरिषदः महानिदेशकः डॉ. सञ्जयसिंहः, कृषिनिदेशकः टी.एम. त्रिपाठी इत्यादयः सर्वेषां ८९ कृषिविज्ञानकेन्द्राणां वैज्ञानिकाः कृषिविभागस्य वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani