Enter your Email Address to subscribe to our newsletters

लखनऊ, 15 सितंबरमासः (हि.स.)।
उत्तरप्रदेशे योगीसर्वकारेण समाजस्य कृते धरातलस्तरे कार्यं कुर्वतां पीआरडी-स्वयंसेवकानां, विद्यालयेषु भोजनपाककर्तॄणां, आङ्गनवाडीकर्मकर्त्रीणां सहायिकानां च कल्याणाय महत्त्वपूर्णं पदक्षेपं स्वीकृतम्। सर्वकारेण एतेषां सेवावर्गाणां मानदेहवृद्ध्या सह तेषां तेषां परिवाराणां च कृते प्रतिवर्षं पञ्चलक्षरूप्यकपर्यन्तं नगदरहितचिकित्सासुविधां प्रदातुं निर्णयः कृतः। अनेन रोगावस्थायां चिकित्सायाः व्ययः परिवारस्य आर्थिकस्थितेः कृते अत्यधिकभारः न भवेत् इति सुनिश्चितं कर्तुं सहायता भविष्यति। विशेषरूपेण सर्वकारेण कर्मचारिणा सह तस्य आश्रितपरिवारमपि स्वास्थ्यसुरक्षायाः परिधौ समाविष्टम् अस्ति।
एकत्रिंशत्सहस्राधिकेभ्यः पीआरडी-सैनिकेभ्यः परिवारसहितं पञ्चलक्षरूप्यकपर्यन्तं चिकित्सा
प्रदेशस्य सुरक्षा, यातायातव्यवस्था, आपदाकार्येषु प्रशासनिककार्येषु च सहयोगं कुर्वतां एकत्रिंशत्सहस्राधिकानां पीआरडी-स्वयंसेवकानां तेषां परिवाराणां च कृते प्रतिवर्षं पञ्चलक्षरूप्यकपर्यन्तं नगदरहितचिकित्सायाः सुविधा प्रदातुं घोषणा कृता अस्ति। सर्वकारीयेषु सूचीकृतेषु च चिकित्सालयेषु उपचारस्य लाभः प्राप्स्यते।
पाककर्तॄणां मानदेहवृद्ध्या सह स्वास्थ्यसुरक्षा
परिषदीयविद्यालयेषु बालकेभ्यः भोजनं पचन्तीनां पाककर्त्रीणाम् अपि सर्वकारेण आर्थिकस्वास्थ्यसुरक्षे एकीकृते स्तः। तासां मानदेहे प्रतिमासं सहस्ररूप्यकाणां वृद्ध्या सह परिवारसहितं पञ्चलक्षरूप्यकपर्यन्तं नगदरहितचिकित्सासुविधां प्रदातुं निर्णयः कृतः। सीमिताययुक्तानां परिवाराणां कृते एषा सुविधा रोगकाले महत्त्वपूर्णं आर्थिकसम्बलं सिद्धा भवितुम् अर्हति।
आङ्गनवाडीकर्मकर्त्रीभ्यः सहायिकाभ्यश्च अपि द्विगुणितः लाभः
बालविकासस्य, पोषणस्य, मातृशिशुस्वास्थ्यस्य च सम्बद्धाः योजनाः धरातलस्तरपर्यन्तं प्रापयन्तीनाम् आङ्गनवाडीकर्मकर्त्रीणां सहायिकानां च कृते अपि सर्वकारेण मानदेहस्य वृद्धिः कृता अस्ति। कर्मकर्त्रीणां मानदेहः अष्टसहस्ररूप्यकेभ्यः द्वादशसहस्ररूप्यकाणि, सहायिकानां मानदेहः चतुर्सहस्ररूप्यकेभ्यः षट्सहस्ररूप्यकाणि च कृतः। तदनन्तरं उभयोः परिवाराणां कृते पञ्चलक्षरूप्यकपर्यन्तं वार्षिकनगदरहितचिकित्सासुविधां प्रदातुं निर्णयः कृतः।
संयुक्तराष्ट्रियस्वास्थ्यअभियानकर्मचारीसङ्घस्य प्रदेशमहामन्त्री योगेशोपाध्यायः अवदत् यत् उत्तरप्रदेशसर्वकारेण पीआरडी-सैनिकेभ्यः, आङ्गनवाडीकर्मकर्त्रीभ्यः, अधिवक्तृभ्यः, शिक्षकेभ्यश्च पञ्चलक्षरूप्यकपर्यन्तम् आयुष्मान्-स्वास्थ्यबीमासुरक्षा प्रदातुं कृतः निर्णयः स्वागतयोग्यः अस्ति। सः अग्रे अवदत् यत् एनएचएमस्य एकलक्षं स्वास्थ्यकर्मचारिणः द्विलक्षपञ्चविंशतिसहस्राः आशाकार्यकर्त्र्यश्च अपि अस्यां योजनायां समावेश्यन्ताम्। ये स्वास्थ्यकर्मचारिणः अन्येषां चिकित्सां कुर्वन्ति, तेभ्यः अपि स्वास्थ्यसुरक्षायाः अधिकारः प्राप्तव्यः।
लखनऊ-उच्चन्यायालयस्य अधिवक्ता अमरबहादुरमौर्यः अवदत् यत् अधिवक्तृभ्यः स्वास्थ्यबीमासुविधां प्रदातुं कृतः प्रयासः निश्चयेन प्रशंसनीयः अस्ति। एषा योजना तेषाम् अधिवक्तॄणां कृते महत्त्वपूर्णा सिद्धा भविष्यति, ये स्वकीयव्यावसायिकजीवने संघर्षं कुर्वन्ति।
Hindusthan Samachar / Dheeraj Maithani