Enter your Email Address to subscribe to our newsletters

पर्यटनसचिवः डॉ. इलैयाराजा टी. मध्यप्रदेशस्य पर्यटनविकासस्य दृष्टिकोणं सहकृतवान्।
भोपालम्, १५ सितम्बरमासः (हि.स.)। मध्यप्रदेशः अधुना केवलं स्वकीयैः दुर्गैः, मन्दिरैः, वनैः प्राकृतिकसौन्दर्येण च न, अपितु नवीनपर्यटनानुभवैः निवेशस्य अवसरैः च देशस्य विश्वस्य च समक्षं स्वकीयां परिचितिं सुदृढां करोति। चेन्नईनगरे आयोजिते इण्डिया टूरिज्म् समिट् २०२६ इत्यस्मिन् मध्यप्रदेशपर्यटनेन साहसिकपर्यटनस्य, वन्यजीवपर्यटनस्य, आध्यात्मिकपर्यटनस्य, चलचित्रपर्यटनस्य, अनुभवानाम् आधारेण पर्यटनस्य च सम्भावनाभिः सह प्रदेशः ‘भारतस्य स्पन्दमानं हृदयम्’ इति रूपेण प्रस्तुतः।
चेन्नईनगरे मङ्गलवासरे आयोजितस्य इण्डिया टूरिज्म् समिट् २०२६ इत्यस्य विशेषसत्रे प्रदेशस्य पर्यटनविभागस्य सचिवः मध्यप्रदेशपर्यटनमण्डलस्य प्रबन्धसञ्चालकः च डॉ. इलैयाराजा टी. ‘भारतस्य स्पन्दमानं हृदयम्–नवीनविश्वस्य अन्वेषणम्’ इति विषये प्रदेशस्य पर्यटनविकासस्य दिशि भविष्यस्य सम्भावनासु च विस्तरेण प्रस्तुतीकरणस्य माध्यमेन स्वविचारान् प्रकटितवान्। अस्मिन् मध्यप्रदेशस्य समृद्धां प्राकृतिकां, सांस्कृतिकां, ऐतिहासिकीं, आध्यात्मिकीं च विरासतं तथा पर्यटनस्य नूतनक्षेत्राणां निवेशस्य च सम्भावनाः देशविदेशयोः पर्यटन-उद्योगस्य प्रतिनिधीनां समक्षं प्रस्तुताः।
शिखरसम्मेलने मध्यप्रदेशपर्यटनस्य निगमचित्रपटस्य प्रदर्शनमपि कृतम्। स्वर्णसहभागितायाः अन्तर्गतं कार्यक्रमे सम्मिलितानाम् अतिथीनां कृते मध्यप्रदेशस्य पारम्परिकानां स्थानीयानां च व्यञ्जनानां विशेषव्यवस्था कृता। तेन प्रतिभागिनः प्रदेशस्य सांस्कृतिकविरासतया सह तस्य प्रामाणिकस्थानीयस्वादस्यापि अनुभवम् अलभन्त।
पर्यटनस्य पारम्परिकपरिभाषायाः अग्रे वर्धते मध्यप्रदेशः : डॉ. इलैयाराजा टी.
डॉ. इलैयाराजा अवदत् यत् मध्यप्रदेशः अधुना पर्यटनस्य पारम्परिकपरिभाषायाः अग्रे वर्धमानः व्यापकं पर्यटन-पारिस्थितिकीतन्त्रम् विकसितवान्, यत्र विरासतया सह आतिथ्यम्, प्रकृत्या सह साहसम्, आध्यात्मिकतया सह संस्कृतिः, व्यवसायेन सह अनुभवानाम् आधारेण यात्रा च संयोज्यते। प्रदेशे वन्यजीवपर्यटनस्य, पर्यावरणपर्यटनस्य, ग्रामीणपर्यटनस्य, विरासतपर्यटनस्य, सांस्कृतिक-जनजातीयपर्यटनस्य, स्वास्थ्यकल्याणपर्यटनस्य, साहसिकपर्यटनस्य, चिकित्सापर्यटनस्य, गोल्फपर्यटनस्य, अनुभवानाम् आधारेण पर्यटनस्य च प्रोत्साहनं दीयते।
प्रदेशस्य उद्देश्यम् केवलं पर्यटकानां सङ्ख्यां वर्धयितुं नास्ति, अपितु नवीनपर्यटनगन्तव्यस्थानानां विकासः, पर्यटकानाम् अनुभवस्य उन्नयनम्, स्थानीयार्थिकावसराणां सृजनम्, सततं समावेशिनं च पर्यटनव्यवस्थां निर्मातुं च अस्ति। मध्यप्रदेशः अधुना केवलं पर्यटनगन्तव्यस्थानं न, अपितु यात्रिकाणां, निगमनेतॄणां, कार्यक्रमयोजकानां निवेशकानां च कृते नवीनावसरयुक्तं राज्यम् अस्ति। ‘भारतस्य स्पन्दमानं हृदयम्’ इति रूपेण मध्यप्रदेशः देशस्य विविधतां अनुभवेन, निवेशेन अवसरेन च संयोजयन् विश्वस्य आतिथ्याय सज्जः अस्ति।
सत्रे सूचितं यत् मध्यप्रदेशः एतादृशं गन्तव्यस्थानं विकसितः क्रियते, यत्र पर्यटकाः केवलं स्थानानि न पश्यन्ति, अपितु तानि अनुभवन्ति अपि। फॉर्सिथ्-ट्रेक्, पेञ्च-मोगली-ट्रेक्, तवा-मढ़ई-साइकिल-यात्रा, पचमढ़ी-मानसून-मैराथनम्, ओरछायां बेतवानद्यां जलयानसाहसिकयात्रा, पेञ्च-मोनोलिथ्स्-ट्रेल् इत्यादयः अनुभवाः प्रदेशस्य पर्यटन-उत्पादेषु विविधतां योजयन्ति। उज्जयिनी आकाशीयक्रीडा-केन्द्ररूपेण विकसित्यते। वर्ष २०२२ तः अद्यावधि १२०० अधिकाः प्रतिभागिनः १०,००० पादोन्नतौ आकाशीयक्रीडायाः अनुभवम् अवाप्तवन्तः।
सः अवदत् यत् मध्यप्रदेशः देशस्य प्रमुखेषु आध्यात्मिकपर्यटनकेन्द्रेष्वपि महत्त्वपूर्णं स्थानं धारयति। प्रदेशे महाकालेश्वरः, उज्जयिनी, ओङ्कारेश्वरः इत्यादयः ज्योतिर्लिङ्गक्षेत्राणि तथा चित्रकूटम्, मैहरम्, दतिया, सलकनपुरम् इत्यादीनि प्रमुखाणि धार्मिकानि आध्यात्मिकानि च स्थलानि सन्ति। नर्मदापरिक्रमा प्रदेशस्य आध्यात्मिकीं सांस्कृतिकां च विरासताम् अनुभवितुं अद्वितीयम् अवसरं प्रददाति। खजुराहो-अन्तर्राष्ट्रीय-नृत्योत्सवः, तानसेनसमारोहः, लोकरङ्गः, भगोरिया इत्यादयः आयोजनाः प्रदेशस्य जीवन्ताः सांस्कृतिकपरम्पराः पर्यटनस्य सह संयोजयन्ति।
वन्यजीवपर्यटनं चलचित्रपर्यटनं च नूतनां परिचितिं निर्मातः
सूचितं यत् मध्यप्रदेशस्य कान्हा, बांधवगढ़, पेञ्च, पन्ना, सतपुड़ा, कूनो इत्यादीनि वन्यजीवगन्तव्यस्थानानि राज्यस्य अनुभवानाम् आधारेण पर्यटनस्य प्रमुखाः शक्तयः सन्ति। प्रदेशे नव व्याघ्राभयारण्यानि, द्वादश राष्ट्रिय-उद्यानानि, चतुर्विंशतिः वन्यजीवाभयारण्याणि च सन्ति। एतेषां प्राकृतिकसंसाधनानां उत्तरदायिपर्यटनस्य सततपर्यटनस्य च माध्यमेन उच्चगुणवत्तायुक्तेषु अनुभवेषु परिवर्तनाय बलं दीयते।
चलचित्रपर्यटनमपि मध्यप्रदेशे शीघ्रगत्या उद्भवमानेषु क्षेत्रेषु अन्तर्भवति। प्रदेशे अद्यावधि ५०२ चलचित्राणां चित्राङ्कनं जातम्, येन प्रायः १२०० कोटिरूप्यकाणां निवेशः अभवत् तथा च प्रायः १.५ लक्षं रोजगारावसराः सम्बद्धाः सन्ति। ‘पञ्चायत्’, ‘स्त्री’, ‘लापता लेडीज्’ इत्यादिभिः चलचित्रैः मध्यप्रदेशस्य विभिन्नस्थलानां नूतना परिचितिः प्राप्ता। चलचित्रपर्यटननीतेः अन्तर्गतं अन्तर्जालीय-अनुमतिः सुव्यवस्थिताः प्रक्रियाः च माध्यमेन चलचित्रनिर्माणं सुगमं क्रियते।
Hindusthan Samachar / Dheeraj Maithani