भारतरत्न डॉ. मोक्षगुंडम-विश्वेश्वरैया इत्यस्य जयन्त्यवसरे राज्यपाल-मुख्यमन्त्रिभ्यां श्रद्धाञ्जलिः समर्पिता
पाटलिपुत्र:, १५ सेप्टेम्बरमासः (हि.स.)। भारतरत्नस्य डॉ. मोक्षगुंडम-विश्वेश्वरैया इत्यस्य जयन्त्यवसरे मङ्गलवासरे विश्वेश्वरैया-भवनपरिसरे राजकीयसमारोहः आयोजितः। बिहारस्य राज्यपालः लेफ्टिनेण्ट् जनरल् (सेवानिवृत्तः) सैयद् अता हसनैनः मुख्यमन्त्री सम्राट
एम विश्वशरैय के जन्मदिवस पर मुख्यमंत्री राज्यपाल और अन्य मंत्रीगण


पाटलिपुत्र:, १५ सेप्टेम्बरमासः (हि.स.)। भारतरत्नस्य डॉ. मोक्षगुंडम-विश्वेश्वरैया इत्यस्य जयन्त्यवसरे मङ्गलवासरे विश्वेश्वरैया-भवनपरिसरे राजकीयसमारोहः आयोजितः। बिहारस्य राज्यपालः लेफ्टिनेण्ट् जनरल् (सेवानिवृत्तः) सैयद् अता हसनैनः मुख्यमन्त्री सम्राट् चौधरी च डॉ. विश्वेश्वरैया इत्यस्य पूर्णकायप्रतिमायां माल्यार्पणं कृत्वा तं नतवन्तौ।

अस्मिन् अवसरे उपमुख्यमन्त्री विजयकुमार-चौधरी, कृषिमन्त्री विजय-कुमार-सिन्हा, सहकारितामन्त्री राम-कृपाल-यादवः, विज्ञान-प्रावैधिक-तकनीकीशिक्षामन्त्री शीला-कुमारी, विधानपरिषद्सदस्यः सञ्जयकुमार-सिंहः इत्यादयः अन्ये जनप्रतिनिधयः गणमान्य-जनाश्च अपि डॉ. विश्वेश्वरैयस्य प्रतिमायां पुष्पाणि समर्प्य श्रद्धाञ्जलिं दत्तवन्तः।

राजकीयसमारोहस्य समये सूचनाजन-सम्पर्कविभागस्य कलाकारैः आरतीपूजनं, भजनकीर्तनं, राष्ट्रगीतं, राष्ट्रगानं, बिहारगीतं देशभक्तिगीतानि च प्रस्तुतानि। समारोहस्थले उपस्थितैः जनैः डॉ. विश्वेश्वरैया इत्यस्य योगदानं स्मृत्वा तस्मै श्रद्धाञ्जलिः समर्पिता।

Hindusthan Samachar / Divya Ranjan