Enter your Email Address to subscribe to our newsletters

अभियन्ता-दिवसे नीतीशकुमारेण विश्वेश्व-रैया नतः, अभियन्तृभ्यः शुभकामनाः प्रदत्ताः
पाटलिपुत्रम्, १५ सेप्टेम्बरमासः (हि.स.)। जनता-दल-यूनाइटेड् इत्यस्य राष्ट्रियाध्यक्षः राज्यसभासदस्यश्च नीतीश-कुमारः मङ्गलवासरे भारतरत्नस्य मोक्षगुंडम-विश्वेश्वरैया इत्यस्य जयन्त्य-वसरे तं नतवान्। सः अभियन्ता-दिवसस्य अवसरे बिहारेण सह देशस्य सर्वेभ्यः अभियन्तृभ्यः हार्दिक्य: शुभ-कामनाः च प्रदत्तवान्।
जदयू-दलेन निर्गते वक्तव्ये नीतीशकुमारः अवदत् यत् राष्ट्रनिर्माणे विकासे च भारतरत्नस्य एम. विश्वेश्वरैया इत्यस्य योगदानं सदैव प्रेरणादायकं भविष्यति। तस्य दूरदृष्टिः, तान्त्रिकदक्षता, अनुशासनं राष्ट्रस्य प्रति समर्पणं च देशस्य विकासाय नूतनां दिशां प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहितवन्ति।
सः अवदत् यत् विश्वेश्वरैया इत्यस्य स्मृतौ आयोज्यमानः अभियन्ता-दिवसः देशस्य विकासे अभियन्तॄणां भूमिकायै योगदानाय च सम्मानप्रदानस्य महत्त्वपूर्णः अवसरः अस्ति। अभियन्तारः देशे आधारभूत-संरचनानिर्माणात् आरभ्य आधुनिक-प्रौद्योगिक्याः प्रयोगं, नवाचारं जनहित-सम्बद्धानां योजनानां कार्यान्वयनं च यावत् महत्त्वपूर्णं योगदानं दत्तवन्तः।
नीतीशकुमारः अवदत् यत् बिहारसहिते सम्पूर्णे देशे मार्गाणां, सेतूनां, भवनानां, सिञ्चनस्य, ऊर्जायाः, जलापूर्तेः, परिवहनस्य अन्यासां च आधारभूत-संरचनानां विकासे अभियन्तॄणां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। तान्त्रिक-विशेषज्ञतया सह तेषां कार्यदक्षता नवाचारक्षमता च विकासयोजनानां प्रभाविरूपेण कार्यान्वयने साहाय्यं कुर्वन्ति।
जदयू-अध्यक्षः अवदत् यत् परिवर्तमानसमयेन सह तान्त्रिकक्षेत्रे आव्हानानि निरन्तरं वर्धन्ते, किन्तु तैः सह नवीनाः सम्भावनाः अपि उत्पद्यन्ते। आधुनिकप्रौद्योगिक्याः, डिजिटल-नवाचारस्य वैज्ञानिकचिन्तनस्य च वर्धमाने प्रभावे अभियन्तॄणां दायित्वमपि वर्धितम् अस्ति। अस्मिन् समये अभियन्तॄणां विशेषज्ञता, सृजनात्मक-चिन्तनं नवाचारक्षमता च देशं विकासस्य नवीनानि शिखराणि प्रति नेतुं महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नुवन्ति।
नीतीशकुमारः अवदत् यत् विकसितस्य आत्मनिर्भरस्य च भारतस्य निर्माणाय तान्त्रिकक्षमतां सुदृढां कर्तुं आवश्यकम् अस्ति। अस्यां दिशि अभियन्तॄणां योगदानम् अत्यन्तं महत्त्वपूर्णम् अस्ति। सः आशां व्यक्तवान् यत् देशस्य अभियन्तारः स्वकीयया तान्त्रिकदक्षतया नवाचारेण च विकासस्य गतिम् अधिकं वर्धयिष्यन्ति तथा समाजस्य व्यापकहिते स्वां भूमिकां निर्वहन्तः स्थास्यन्ति।
Hindusthan Samachar / Divya Ranjan