Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, १५ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः २५ वर्षाणां सेवायाः समर्पणस्य च तथा ‘विकसित-भारत-२०४७’ इत्यस्य सामूहिकसङ्कल्पं केन्द्रे निधाय बिहारे १७ सेप्टेम्बरतः १७ अक्तूबरपर्यन्तं ‘सेवा-सङ्कल्पाभियानम्’ आयोज्यते। अभि-यानस्य सज्जतां दृष्ट्वा राज्यस्य कलासंस्कृतिमन्त्री डॉ. प्रमोदकुमारः मङ्गलवासरे विभागीया-धिकारिभिः सह सभां कृत्वा कार्यक्रमाणां समीक्षां कृतवान्।
सभायां कलासंस्कृतिविभागस्य पक्षतः आयोजनीयानां कार्यक्रमाणां तथा विभागेन नोडलरूपेण सञ्चाल्यमानानां गतिविधीनां सज्जतायाः विषये चर्चा कृता। मन्त्री सर्वेभ्यः जनपदकला-संस्कृतिपदाधिकारिभ्यः निर्धारितकार्य-योजनानुसारं समयबद्धरूपेण सज्जताः पूर्णाः कर्तुं तथा सम्बन्धितविभागैः जनपदप्रशासनेन च सह समन्वयं स्थापयितुं निर्देशं दत्तवान्।
डॉ. प्रमोदकुमारः अवदत् यत् कलायाः संस्कृतेश्च माध्यमेन सेवायाः, समर्पणस्य तथा ‘विकसितभारत-२०४७’ इत्यस्य सङ्कल्पस्य सन्देशः जनजनपर्यन्तं प्रापयितव्यः। कार्यक्रमेषु स्थानीय-कलाकाराणां, सांस्कृतिकदलानां, यूनां सामान्यजनानां च अधिकाधिकं सहभागित्वं सुनिश्चितं कृत्वा व्यापक-प्रचारप्रसारस्य आवश्यकता अस्ति इति सः बलं दत्तवान्।
मन्त्री ‘सेवास्मरणम्’ कार्यक्रमस्य अन्तर्गतं प्रत्येकं जनपदे प्रायः १८ तः २० पर्यन्तं नाट्यदलानि वीथीनाट्यदलानि च चित्वा तानि अभियाने सम्बद्धानि कर्तुं निर्देशं दत्तवान्। एतैः दलैः सेवायाः, समर्पणस्य, विकासस्य, जनकल्याणस्य च सम्बद्धाः विषयाः जनानां पर्यन्तं प्रापयिष्यन्ते।
विद्यालयेषु आयोज्यमानानां अभिभावक-शिक्षकसभानां समये अपि सांस्कृतिक-प्रस्तुती: आयोजयितुं मन्त्री निर्देशं दत्तवान्, येन विद्यार्थिनः तेषां अभिभावकाश्च अभियाने सम्बद्धाः कर्तुं शक्येरन्।
सभायां सूचितं यत् जनपद-प्रखण्ड-ग्रामस्तरे जनसहभागितामूलिका ‘सेवा-ज्योतियात्रा’ आयोजयिष्यते। अस्यां यात्रायां यूनां स्थानीयसांस्कृतिकदलानां च सहभागित्वं सुनिश्चितं करिष्यते। यात्रायाः समापनस्थले जनकल्याणकारीयोजनानां, लाभार्थिसंवादस्य तथा ‘विकसित-भारत-२०४७’ इत्यस्य सङ्कल्पसम्बद्धानां कार्यक्रमाणाम् आयोजनं भविष्यति।
मन्त्री अवदत् यत् आयोजनानि केवलं औपचारिकतायै सीमितानि न भवन्तु, अपितु अधिकाधिकजनानां सहभागित्वं सुनिश्चितं क्रियताम्। स्थानीयस्तरे उपलब्धानां सांस्कृतिकसंसाधनानां प्रतिभानां च अधिकतमोपयोगं कर्तुं सः निर्देशं दत्तवान्।
अभियानस्य अन्तर्गतं भारतस्य विकास-यात्रया सम्बद्धानां २५ प्रमुखयोजनानां उपलब्धिनां च प्रदर्शनाय क्यूरेटेड्-किट् अपि सज्जीकरिष्यते। अस्मिन् किट् मध्ये योजनानां उपलब्धीनां च विवरणेन सह क्यूआर-कोड् अपि भविष्यन्ति। एतत् किट् निर्धारितेभ्यः गणमान्यव्यक्तिभ्यः प्रदास्यते।
डॉ. प्रमोदकुमारः अभियानस्य प्रचार-प्रसाराय सामाजिकमाध्यमानां, रील्स इत्यादिनाम् अन्येषां च डिजिटलमाध्यमानां प्रभाविप्रयोगाय निर्देशं दत्तवान्। डिजिटल-मञ्चानां माध्यमेन गतिविधिनां व्यापक-स्तरे प्रसारणेन यूनां सहभागिता वर्धिष्यते इति सः अवदत्।
मन्त्री बिहारस्य लोककलायाः, लोक-सङ्गीतस्य, लोकनाट्यस्य च समृद्धां परम्परां अभियानेन सह संयोज्य अस्य व्यापकजनसहभागितायाः स्वरूपं प्रदातुं बलं दत्तवान्। सः अधिकारिभ्यः सक्रियतया परस्परसमन्वयेन च कार्यं कर्तुम् आह्वानं कुर्वन् अवदत् यत् अभियानस्य उद्देश्यम् सेवायाः, समर्पणस्य तथा ‘विकसितभारत’ इत्यस्य सङ्कल्पस्य सन्देशं समाजस्य प्रत्येकं वर्गं प्रति प्रापयितुम् अस्ति।
Hindusthan Samachar / Divya Ranjan