Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ सेप्टेम्बरमासः (हि.स.)। ‘हिमालयन रिसोर्सेज एन्हांसमेंट सोसाइटी’ इत्यनया निर्मात्र्या नवदिल्ली इत्यस्य चाणक्यपुर्यां स्थिते विश्वयुवकेन्द्रे सोमवासरे ‘बिजनेस उत्तरायणी–हिमालयन बिजनेस महाकुम्भ २०२६’ इत्यस्य आयोजनं कृतम्। अस्य महाकुम्भस्य मुख्योद्देश्यं हिमालयीय-क्षेत्रस्य उद्यमिभ्यः, व्यावसायिकेभ्यः, स्थानीयहस्तशिल्पेभ्यश्च राष्ट्रियं मञ्चं प्रदातुम्, व्यापारिकसम्पर्कं वर्धयितुं तथा ‘प्रोफेशनल रिवर्स माइग्रेशन’ अर्थात् स्वमूलप्रदेशं प्रति प्रत्यागत्य तस्य विकासं कर्तुं प्रोत्साहनं दातुम् अस्ति। इति सूचना विज्ञप्तौ प्रदत्ता।
विज्ञप्त्यनुसारं कार्यक्रमस्य शुभारम्भः पारम्परिकस्य ‘हुड़का’-वाद्यस्य नादेन शकुनाखरेण च अभवत्। लोकगायकः भुवनरावतः दीपप्रज्वालनं कृतवान्। दीपप्रज्वालने महाराष्ट्रस्य गोवायाश्च पूर्व-राज्यपालः उत्तराखण्डस्य च पूर्वमुख्यमन्त्री भगतसिंहकोश्यारी, एयरवाइस मार्शल राजेशभण्डारी, उत्तरा-खण्डस्य महिला-उद्यमिताराज्यमन्त्री विनोद उनियालः, वरिष्ठा चलचित्र-निर्देशिका सुशीला रावतः, उत्तराखण्ड-संस्कृतविश्वविद्यालयस्य हरिद्वारस्य पूर्वकुलपतिः प्रो. मोहनचन्द्र-बलोदी, रमेशचन्द्रबवाड़ी तथा ‘बिजनेस उत्तरायणी’ इत्यस्य दिल्ली-पदाधिकारिणः उपस्थिताः आसन्।
फरीदाबादतः आगतः उद्यमी गोपाल उनियालः स्वागतभाषणं कृत्वा पर्वतीयेषु राज्येषु उद्यमिताविकासाय सञ्चाल्यमानेन ‘बिजनेस उत्तरायणी’-कार्यक्रमेण सह सम्बद्धितुं सर्वान् आहूतवान्। ‘बिजनेस उत्तरायणी’-स्य संस्थापकः नीरज बवाड़ी अस्याः संस्थायाः सप्तवर्षीयां यात्रां, प्रमुखमार्गदर्शकान्, सहयोगिनः भविष्यस्य योजनाश्च विषये उपस्थितान् अवगतवान्।
कार्यक्रमस्य अवधौ फिनखोज, लोर, हिमालयन, बाला गोरिया, चेली आर्ट्स, द्रुमा तथा नेचुरोगेनिक्स इत्यादिनां स्थानीयानाम् उद्भवमानानां च ब्राण्ड्-संस्थानां नूतनानाम् उत्पादानां मञ्चात् लोकार्पणं कृतम्। अस्यैव प्रसङ्गे ‘बिजनेस उत्तरायणी’ इत्यस्य विशेषस्मारिकायाः पत्रिकायाश्च विमोचनम् अपि अभवत्। अनुभवीभिः उद्योगपतिभिः, नीतिनिर्मातृभिः प्रमुखवक्तृभिश्च युवभ्यः नूतनेभ्यश्च उद्यमिभ्यः व्यापारवृद्धेः, ब्राण्ड्-निर्माणस्य, निवेशसङ्ग्रहस्य च उपायाः कथिताः।
‘बिजनेस उत्तरायणी’ पुरस्काराः
विभिन्नेषु क्षेत्रेषु, यथा उद्यमितायां, समाजसेवायां, संस्कृतौ माध्यमेषु च, उत्कृष्टं कार्यं कृतवत्यः व्यक्तयः सम्मानिताः।
आयोजकैः उक्तं यत् ‘बिजनेस उत्तरायणी’ इत्यस्य लक्ष्यं केवलं व्यापारवर्धनं नास्ति, अपि तु हिमालयीयक्षेत्रस्य कौशलस्य, जैविक-उत्पादानां, पर्यटनस्य संस्कृतेश्च अन्ताराष्ट्रीयं परिचयं प्रतिष्ठां च प्रदातुम् अस्ति। कार्यक्रमस्य संयोजनं सञ्चालनं च ‘बिजनेस उत्तरायणी’ इत्यस्य संस्थापकेन नीरज: बवाड़ी इत्यनेन कृतम्।
Hindusthan Samachar / Divya Ranjan