गान्धीनगरे विश्वचक्रीय-अर्थव्यवस्था-मञ्चस्य भूपेन्द्रयादवेन शुभारम्भः कृतः
गान्धीनगरम्, १५ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयपर्यावरण-वन-जलवायु-परिवर्तनमन्त्री भूपेन्द्रयादवः गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः च मङ्गलवासरे गान्धीनगरे विश्वचक्रीय-अर्थव्यवस्था-मञ्चस्य (डब्ल्यूसीईएफ) उद्घाटनं कृतवन्तौ। १५ तः १८ सेप्टेम्बरम
विश्व चक्रीयअर्थव्यवस्था मंच-2026 का उद्घाटन करते केंद्रीय मंत्री भूपेंद्र यादव और गुजरात के मुख्यमंत्री भूपेंद्रभाई पटेल।


गान्धीनगरम्, १५ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयपर्यावरण-वन-जलवायु-परिवर्तनमन्त्री भूपेन्द्रयादवः गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः च मङ्गलवासरे गान्धीनगरे विश्वचक्रीय-अर्थव्यवस्था-मञ्चस्य (डब्ल्यूसीईएफ) उद्घाटनं कृतवन्तौ। १५ तः १८ सेप्टेम्बरमासपर्यन्तम् आयोजिते अस्मिन् मञ्चे ६२ देशेभ्यः ३६०० तः अधिकाः प्रतिनिधयः भागं गृह्णन्ति।

पर्यावरणमन्त्रालयस्य अनुसारम्, ‘जनानां समृद्ध्यै चक्रीय-अर्थव्यवस्थायां प्रति परिवर्तनम्’ इति विषये आयोजिते अस्मिन् सम्मेलने व्यापार-उद्योग-अनुसन्धान-शिक्षा-नीतिनिर्माणक्षेत्रैः सम्बद्धाः विशेषज्ञाः भागं गृह्णन्ति। कार्यक्रमस्थले १३५ राष्ट्रियानाम् अन्तर्राष्ट्रीयानां च संस्थानां प्रदर्शिनी अपि आयोजिता अस्ति।

मुख्यमन्त्री भूपेन्द्रपटेलः अवदत् यत् दक्षिण एशियायां प्रथमवारम् अस्य मञ्चस्य आयोजनं भारतस्य वर्धमानस्य वैश्विकप्रभावस्य प्रतीकम् अस्ति। पर्यावरणसंरक्षणस्य विकासस्य च मध्ये सन्तुलनं स्थापयित्वा भारतं दीर्घकालात् पुनःप्रयोगस्य अपशिष्टस्य च संसाधने परिवर्तनस्य परम्परां पालयति। सम्मेलनस्य माध्यमेन ‘वसुधैव कुटु-म्बकम्’ इति भावनानुरूपाणि व्यावहारिकाणि समाधानानि विकसि-तव्यानि।

भूपेन्द्रयादवः अवदत् यत् भारतस्य कृते चक्रीय-अर्थव्यवस्था नूतना अवधारणा नास्ति, अपितु सा पारम्परिकजीवनशैल्याः भागः एव अस्ति। परिवर्तनात् पूर्वं मरम्मतिः, त्यागात् पूर्वं पुनःप्रयोगः, अपशिष्टत्वात् पूर्वं पुनःप्राप्तिः इति चिन्तनं भारतीयसमाजे दीर्घकालात् विद्यमानम् अस्ति। आर्थिकविकासस्य पर्यावरणसंरक्षणस्य च मध्ये कश्चित् संघर्षः नास्ति, अपितु संसाधनानां श्रेष्ठतरप्रयोगेन उभे अपि सार्धं नीत्वा अग्रे गन्तुं शक्यते।

यादवः अवदत् यत् विस्तारित-उत्पादक-दायित्वम् इत्यादिनां विविधसुधाराणां माध्यमेन भारतं चक्रीय-अर्थव्यवस्थायाः दिशि अग्रे गच्छति। अगस्तमासः २०२६ पर्यन्तं विविधेषु ईपीआर-ढाञ्चेषु ८३ सहस्राधिकाः उत्पादकाः ४८०२ पुनर्चक्रण-एककानि च पञ्जीकृतानि सन्ति तथा च ४८२.२४ लक्षमेट्रिकटनाधिकस्य अप-शिष्टस्य प्रसंस्करणं कृतम् अस्ति।

कार्यक्रमस्य समये ‘उपचारित-मलजलस्य पुनःप्रयोगस्य उत्तमाः प्रक्रियाः’ तथा ‘भारतस्य चक्रीय-अर्थव्यवस्था ईपीआर-उपक्रमाश्च’ इति विषययोः द्वयोः प्रकाशनयोः विमोचनमपि कृतम्।

Hindusthan Samachar / Divya Ranjan