मुख्यमन्त्रिणा जलौघपीडितानां ८,२७,४७२ परिवाराणां धनागारेषु ५७९.२३ कोटिरूप्यकाणां राशिः अन्तरिता
पाटलिपुत्रम्, १५ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री सम्राटचौधरी मङ्गलवासरे लोकसेवकावासस्थिते ‘सङ्कल्पसभागारे’ आयोजिते आनुग्रहिकराहतवितरण-कार्यक्रमे जलौघपीडितानां ८ लक्ष २७ सहस्र ४७२ परिवाराणां धनागारेषु प्रतिपरिवारं ७ सहस्ररूप्यकाणां दरमिति ५७९.२
बिहार के बाढ़ प्रभावित लोगों के खाते में राशि ट्रांसफर करते हुए मुख्यमंत्री


पाटलिपुत्रम्, १५ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री सम्राटचौधरी मङ्गलवासरे लोकसेवकावासस्थिते ‘सङ्कल्पसभागारे’ आयोजिते आनुग्रहिकराहतवितरण-कार्यक्रमे जलौघपीडितानां ८ लक्ष २७ सहस्र ४७२ परिवाराणां धनागारेषु प्रतिपरिवारं ७ सहस्ररूप्यकाणां दरमिति ५७९.२३ कोटिरूप्यकाणां आनुग्रहिक-सहायताराशिं डीबीटी-माध्यमेन अन्तरितवान्।

कार्यक्रमं सम्बोधयन् मुख्यमन्त्री अवदत् यत् जलौघस्य अस्यां समस्यापूर्णायां स्थितौ राज्यसर्वकारस्य सर्वोच्च-प्राथमिकता प्रभावितपरिवारेभ्यः तत्कालं, सहाय्यं, सुरक्षां च प्रदातुम् अस्ति। सर्वकारः पूर्णसंवेदनशीलतया जलौघ-पीडितजनैः सह तिष्ठति।

मुख्यमन्त्री अवदत् यत् राहताकार्येषु उद्धारकार्येषु च कस्यापि प्रकारस्य न्यूनता न भवितुं दीयते। सः अवदत् यत् राज्यस्य १५ जनपदेषु, ८८ प्रखण्डेषु, ५७५ ग्रामपञ्चायतेषु, २,६४२ ग्रामेषु तथा २१ नगराणां १३६ वार्डेषु प्रायः ५० लक्षं जनाः जलौघेन प्रभाविताः अभवन्। प्रायः ५५ सहस्रहेक्टेयरभूमौ जलौघस्य प्रभावः अभवत्, येन सस्येषु क्षतिः अभवत्। प्रभावितक्षेत्रेषु प्रत्येकस्मिन् स्तरे सहायताकार्याणि उद्धारकार्याणि च तीव्रगत्या सञ्चाल्यन्ते।

मुख्यमन्त्री अवदत् यत् जलौघपीडितेभ्यः भोजनं प्रदातुं १२०० तः अधिकाः सामुदायिकपाकशालाः सञ्चाल्यन्ते। एताभिः सामुदायिकपाकशालाभिः अधुना यावत् प्रायः १.२८ कोटिभोजनपात्राणि परिशिष्टानि। सः अधिकारिभ्यः निर्देशं दत्तवान् यत् प्रभावितक्षेत्रेषु जनानां कृते भोजनं, पेयजलं, औषधीनि अन्याः आवश्यकसुविधाश्च निरन्तरं उपलब्धाः क्रियन्ताम्। एनडीआरएफ-संस्थायाः एसडीआरएफ-संस्थायाश्च २१ दलानि निरन्तरं राहताकार्येषु उद्धारकार्येषु च संलग्नानि सन्ति। यावत् स्थितिः सामान्या न भवति, तावत् राहतासहायतासुविधाः निरन्तरं प्रवर्तिष्यन्ते। प्रभावितजनानां कृते कस्यापि प्रकारस्य समस्या न भवितुं दीयते।

मुख्यमन्त्री अवदत् यत् अद्य बाढपीडितानां प्रत्येकं परिवारस्य कृते ७ सहस्ररूप्यकाणां दरमिति ८ लक्षं २७ सहस्रं ४७२ परिवाराणां धनागारेषु डीबीटी-माध्यमेन ५७९.२३ कोटिरूप्यकाणां राशिः अन्तरिता अस्ति। सः अवदत् यत् पात्रलाभार्थिनां परिचयस्य सत्यापनस्य च प्रक्रियायां पूर्णपारदर्शिता पालनीया। यदि कश्चित् पात्रः प्रभावितपरिवारः सहाय्यात् वञ्चितः अस्ति, तर्हि तम् एकसप्ताहस्य अन्तः सहायतासूच्यां समावेशयन्तु। कोऽपि पात्रः प्रभावितपरिवारः सर्वकारीयराहतात् वञ्चितः न भवेत्।

सः अवदत् यत् सहायताकार्यैः सह पुनःप्राप्तिकार्यं पुनर्निर्माणकार्यं च तीव्रगत्या क्रियताम्। राज्ये ‘पूर्वापेक्षया श्रेष्ठतरं पुनर्निर्माणम्’ इति विषयम् आधृत्य कार्यं क्रियताम्। एकमासस्य अन्तः सर्वाणि पुनःप्राप्तिकार्याणि पूर्णानि क्रियन्ताम्। अस्मिन् कृषिनिवेशानुदानं, मार्गाणां मरम्मतिः तथा प्रभावितपरिवारेभ्यः कृषकेभ्यश्च सर्वप्रकारस्य आवश्यक-सहायतायाः प्रदानं सम्मिलितम् अस्ति।

मुख्यमन्त्री अवदत् यत् जलौघेन जातस्य क्षतेः आकलनं पूर्णगम्भीरतया संवेदनशीलतया च क्रियताम् तथा प्रभावितपरिवारेभ्यः, कृषकेभ्यः अन्येभ्यः सम्बन्धितेभ्यश्च जनाभ्यः नियमानुसारं शीघ्रं सहायता प्रदीयताम्। सः अवदत् यत् श्वः केन्द्रीयकृषिमन्त्रिणः शिवराजसिंह-चौहानस्य प्रस्तावितभ्रमणस्य दृष्ट्या जलौघेन जातस्य क्षतेः समुचितं तथ्याधारितं च आकलनं कृत्वा प्रतिवेदनं सज्जं स्थापयन्तु। प्रभावितक्षेत्रेषु जातस्य क्षतेः वास्तविकस्थितेः कर्गदीकरणं कृत्वा आवश्यकसहायताकार्याणि पुनःप्राप्तिकार्याणि च प्राथमिकतायाः आधारेण अग्रे वर्धयन्तु।

कार्यक्रमे उपमुख्यमन्त्री विजयकुमार-चौधरी, उपमुख्यमन्त्री बिजेन्द्रप्रसादयादवः, आपदाप्रबन्धनमन्त्री रत्नेशसादा इत्यादयः वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan