Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 15 सितम्बरमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थाने जोधपुरे चित्रं, प्रपत्रं, स्वरः, पाठः तथा संवेदकात् प्राप्तानि दत्तांशानि एकस्मिन् समये अवगन्तुं शक्नुवन्तः तथा वास्तविकजीवनस्य कार्येषु उपयोगिनीं सहायिकां प्रदातुं समर्थाः कृत्रिमबुद्धिमत्ताम् आधारीकृताः सहायका विकसितुं दिशि शोधकार्यं क्रियते।
इदं शोधकार्यं सङ्गणकविज्ञान-अभियांत्रिकीविभागस्य सहायकप्राध्यापिकायाः डॉ. दिव्यासक्सेनायाः नेतृत्वे यन्त्रबुद्धिमत्ता-प्रयोगशालायां क्रियते। शोधस्य प्रमुखम् उद्देश्यम् कृत्रिमबुद्धिमत्ताप्रणालीः अधिकं शीघ्रं, मितव्ययिनः, व्यावहारिकाः तथा अल्पसंसाधनैः सञ्चालयितुं शक्याः च कर्तुम् अस्ति।
स्वास्थ्यक्षेत्रे एतादृशी प्रणाली चिकित्सकेभ्यः चिकित्साचित्राणां, परीक्षणप्रतिवेदनानां, रोगिणः सम्बन्धिनीनां च अन्यासां सूचनानां एकीकृत्य अवबोधने सहाय्यं कर्तुं शक्नोति। उद्योगक्षेत्रे यन्त्रस्य चित्रं, संवेदकदत्तांशाः, यन्त्रस्य अभिलेखाः तथा तकनीकीपुस्तिकाः विश्लेष्य दोषस्य अन्वेषणे तस्य समाधानस्य च साहाय्यं कर्तुं शक्नोति। शिक्षायाः अनुसन्धानस्य च क्षेत्रयोः अपि अस्य व्यापकप्रयोगस्य सम्भावनाः सन्ति।
कृत्रिमबुद्धिमत्ताम् आधारीकृताः सहायका शोधपत्राणि, दस्तावेजानि अध्ययनसामग्रीं च अवगत्य आवश्यकां सूचनां प्रदातुं सहाय्यं कर्तुं शक्नुवन्ति। डॉ. दिव्यासक्सेना अवदत् यत् उद्देश्यं तादृशीः कृत्रिमबुद्धिमत्ताप्रणालीः विकसितुं यत् विभिन्नस्रोतःभ्यः प्राप्तां सूचनाम् अवगन्तुं शक्नुयुः तथा सीमितसंसाधनेषु वास्तविकपरिस्थितीनाम् अनुरूपां उपयोगिनीं सहाय्यतां प्रदातुं शक्नुयुः।
कृत्रिमबुद्धिमत्तायाः भविष्यं केवलं बृहत्प्रतिमानानां निर्माणे निहितं नास्ति, अपितु तां मितव्ययिनीं, सुरक्षितां तथा व्यापकस्तरे उपयोगिनीं कर्तुम् अपि अस्ति। तया उक्तं यत् तादृशानां तन्त्राणां विकासाय प्रयासः क्रियते, ये सूचनां, ज्ञानं तथा विविधसाधनानि परस्परं संयोज्य जनानां वास्तविकजीवनस्य कार्याणि सम्पादयितुं सहाय्यं कर्तुं शक्नुयुः।
शोधस्य त्रयः प्रमुखाः आधाराः
शोधस्य त्रयः प्रमुखाः आधाराः बहुआयामी-अधिगमः, दक्षकृत्रिमबुद्धिमत्ता तथा कृत्रिमबुद्धिमत्तासहायकाः सन्ति। बहुआयामी-अधिगमस्य माध्यमेन विभिन्नप्रकाराणां सूचनानाम् एकत्र अवबोधने, दक्षकृत्रिमबुद्धिमत्तायाः माध्यमेन अल्पसंसाधनैः शीघ्रं कार्यकरणे तथा कृत्रिमबुद्धिमत्तासहायकानां माध्यमेन केवलं प्रश्नानाम् उत्तरप्रदाने एव सीमितं न भूत्वा विविधसाधनानाम् उपलब्धसूचनानां च उपयोगेन सम्पूर्णकार्यस्य सम्पादने सहाय्यं प्रदातुं बलं दीयते।
शोधस्य एकः महत्त्वपूर्णः पक्षः एतादृशानां प्रणालीनां विकासः अपि अस्ति, याः चिकित्सालयेषु, कारखानेषु अथवा अल्प-अन्तर्जाल-सुविधायुक्तेषु ग्रामीणक्षेत्रेषु स्थानीयस्तरे सञ्चालयितुं शक्यन्ते। एतदर्थं न्यूनसङ्गणनासंसाधनानाम् आवश्यकतायुक्तानां लघूनां शीघ्रकार्यकारिणां च कृत्रिमबुद्धिमत्ताप्रतिमानानां विकासे कार्यं क्रियते।------
Hindusthan Samachar / Dheeraj Maithani