Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ सेप्टेम्बरमासः (हि.स.)। भारत-न्यूजीलैण्डदेशयोः मुक्तव्यापारसन्धि: १९ अक्तूबरतः प्रभावी भवितुं सम्भावना अस्ति। उभाभ्यां देशाभ्यां अस्मिन्नेव वर्षे २७ एप्रिल-दिने अस्मिन् सन्धौ हस्ताक्षराणि कृतानि आसन्। अस्य उद्देश्यं वस्तूनां व्यापारं निवेशं च वर्धयितुम् अस्ति।
मङ्गलवासरे आधिकारिकरूपेण प्रकाशिते निवेदने उक्तं यत् भारत-न्यूजीलैण्डदेशयोः मध्ये मुक्तव्यापारसन्धि: १९ अक्तूबरतः प्रभावी भवितुम् अपेक्ष्यते। अस्य सन्ध्यनुसारं न्यूजीलैण्डदेशेन भारतस्य शतप्रतिशतं निर्यातं शुल्कमुक्तं कर्तुं सहमतिः प्रदर्शिता अस्ति। अतः भारततः न्यूजीलैण्डं प्रति प्रेष्यमाणेषु वस्तुषु न्यूजीलैण्डेन आयातशुल्कं न स्वीक्रियते।
उभाभ्यां देशाभ्यां वस्तूनां सेवाना च द्विपक्षीयव्यापारं वर्धयितुं निवेशं च प्रोत्साहयितुं गत२७ एप्रिल्-दिने मुक्तव्यापारसन्धौ हस्ताक्षराणि कृतानि आसन्। एफटीए-अन्तर्गतं न्यूजीलैण्डदेशे भारतस्य शतप्रतिशतं निर्यातं शुल्कमुक्तप्रवेशं प्राप्स्यति।
उल्लेखनीयं यत् न्यूजीलैण्डदेशेन १५ वर्षेषु भारते २० अरब-अमेरिकीडॉलर-परिमितस्य निवेशस्य प्रतिबद्धता प्रदर्शिता अस्ति।
Hindusthan Samachar / Divya Ranjan