Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 15 सितंबरमासः (हि.स.)।
राज्यसभायाः उपसभापतिः हरिवंशः इत्यस्य नेतृत्वे भारतीयसंसदीयप्रतिनिधिमण्डलं दक्षिणाफ्रिकादेशस्य केपटाउननगरे आयोजिते एकोनसप्ततितमे राष्ट्रमण्डल-संसदीयसम्मेलने सम्मिलितम् अस्ति। सम्मेलनम् सितम्बरमासस्य द्वादशदिनाङ्कात् एकोनविंशतिदिनाङ्कपर्यन्तम् आयोजितम् अस्ति।
भारतीयप्रतिनिधिमण्डले राज्यसभायाः सांसदः सी. सदानन्दन् मास्टरः, लोकसभायाः सांसदः डॉ. डी. पुरन्देश्वरी, विष्णुदत्तशर्मा, सुधीरगुप्तः, कृष्णप्रसादतनेती, रचनाबनर्जी तथा राज्यसभायाः महासचिवः पी.सी. मोदी च सम्मिलिताः सन्ति।
सम्मेलने भारतस्य विभिन्नराज्यानां केन्द्रशासितप्रदेशानां च विधानसभानां द्वात्रिंशत् पीठासीनाधिकारिणः अष्टादश सचिवाः च अपि भागं गृह्णन्ति। एते सर्वे राष्ट्रमण्डल-संसदीय-सङ्घस्य सदस्याः सन्ति।
मङ्गलवासरे राज्यसभासचिवालयात् प्राप्तायाः सूचनायाः अनुसारं केपटाउननगरं प्राप्त्यानन्तरं हरिवंशेन दक्षिणाफ्रिकादेशस्य राष्ट्रियसभायाः अध्यक्षया एञ्जेला थोक्जिले डिडिजया, राष्ट्रियप्रान्तपरिषदः उपाध्यक्षया पुबलान गोवेन्दरेन, राष्ट्रियसभायाः उपाध्यक्षया एनेली लोटरिएट् इत्यनया च सह द्विपक्षीयाः बैठकाः कृताः। बैठकेषु उभयोः देशयोः संसदीयहितैः सम्बद्धेषु विभिन्नेषु विषयेषु विचाराणाम् आदानप्रदानं कृतम्। तदनन्तरं भारत-दक्षिणाफ्रिकादेशयोः मध्ये दीर्घकालतः विद्यमानानां संसदीयसंबन्धानां अधिकसुदृढीकरणस्य विषये चर्चा अभवत्।
लोकसभायाः सांसदः डॉ. डी. पुरन्देश्वरी राष्ट्रमण्डल-संसदीय-सङ्घस्य कार्यकारिणीसमित्याः बैठके भागं गृहीतवती तथा च सीपीए-सङ्घेन सम्बद्धेषु विभिन्नेषु विषयेषु भारतस्य विचारान् दृष्टिकोणं च प्रभावीरूपेण प्रस्तुतवती।
सम्मेलनस्य अवधौ समकालीनैः विषयैः राष्ट्रमण्डलदेशानां विधानसभाभिः च सम्बद्धेषु महत्त्वपूर्णेषु विषयेषु षट् प्रमुखाः कार्यशालाः आयोजिताः भविष्यन्ति। राज्यसभायाः उपसभापतिः हरिवंशः एकोनसप्ततितमस्य सीपीसी-सम्मेलनस्य महासभां “राष्ट्रमण्डलाय नूतननेतृत्वस्य अवसराः — लोकतन्त्रस्य अन्तर्राष्ट्रीयविधेः च सुदृढीकरणाय संसदीयकार्यवाही” इति विषये सम्बोधयिष्यति।
भारतीयप्रतिनिधिमण्डलस्य सदस्याः राज्यानां केन्द्रशासितप्रदेशानां च पीठासीनाधिकारिभिः अन्यैः प्रतिनिधिभिः च सह विभिन्नासु कार्यशालासु, पूर्णसत्रेषु महासभायाः चर्चासु च भागं ग्रहीष्यन्ति।
सम्मेलने भारतस्य सहभागिता संसदीयलोकतन्त्रस्य, विधायीसहकारस्य राष्ट्रमण्डलस्य अन्तर्गतं अन्तरसंसदीयसंवादस्य च सुदृढीकरणे भारतस्य निरन्तरां प्रतिबद्धतां प्रदर्शयति। तेन सह भारत-दक्षिणाफ्रिकादेशयोः मध्ये विद्यमानानां सुदृढानां दीर्घकालीनानां च संसदीयसंबन्धानां अधिकगहनतां नेतुं प्रयासः अपि निरन्तरं भविष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani