केन्द्रीयविश्वविद्यालये राष्ट्रिय-अभियन्तृदिवसे तकनीकीप्रतियोगितानां शोधोपलब्धिनां च प्रदर्शनम्
धर्मशाला, १५ सेप्टेम्बरमासः (हि.स.)। हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालये मङ्गलवासरे राष्ट्रिय-अभियन्तृदिवसस्य अवसरे आयोजिते कार्यक्रमे विविधाः गतिविधयः आयोजिताः। अयं दिवसः भारतस्य महान् अभियन्ता, नवोन्मेषकः राष्ट्रनिर्माता च भारतरत्नं सरमोक्षगुण्डम
सीयू में राष्ट्रीय अभियंता दिवस पर आयोजित कार्यक्रम में मौजूद कुलपति और अन्य।


राष्ट्रीय अभियंता दिवस पर आयोजित कार्यक्रम में मौजूद शिक्षक और छात्र।


धर्मशाला, १५ सेप्टेम्बरमासः (हि.स.)। हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालये मङ्गलवासरे राष्ट्रिय-अभियन्तृदिवसस्य अवसरे आयोजिते कार्यक्रमे विविधाः गतिविधयः आयोजिताः। अयं दिवसः भारतस्य महान् अभियन्ता, नवोन्मेषकः राष्ट्रनिर्माता च भारतरत्नं सरमोक्षगुण्डम् विश्वेश्वरय्या इत्यस्य जन्मजयन्त्याः उपलक्ष्ये आचर्यते।

राष्ट्रिय-अभियन्तृदिवसस्य अवसरे सङ्गणक-अभियान्त्रिकी-रोबोटिक्स-विभागेन विविधाः तकनीकी-सृजनात्मक-गतिविधयः आयोजिताः। तासु प्रश्नोत्तरी-प्रतियोगिता, सङ्केतलेखन-सॉफ्टवेयर-विकास-समस्या, पोस्टर-निर्माण-प्रतियोगिता च प्रमुखाः आसन्। एताभिः गतिविधिभिः विद्यार्थिभ्यः स्वकीयस्य तकनीकीज्ञानस्य, सृजन-शीलतायाः, सङ्गणकीयचिन्तनस्य, समस्यासमाधानक्षमतायाः, सामूहिक-कार्यस्य च प्रदर्शनस्य अवसरः प्राप्तः। प्रतियोगितासु विशेषरूपेण कृत्रिमबुद्धे:, यन्त्राधिगमस्य, गहना-धिगमस्य, बुद्धिमत्सङ्गणनस्य, उन्नत-सूचनाप्रौद्योगिक्याः च इत्यादिनाम् उद्भावनशीलानां परिवर्तनकारीणां च तकनीकीक्षेत्राणां विषये ध्यानं केन्द्रितम् आसीत्। एतासां गतिविधीनाम् उद्देश्यं केवलं प्रतियोगितायै सीमितं न भूत्वा विद्यार्थिनः नवीनैः विचारैः प्रयोगं कर्तुं, पारम्परिकसमाधानेभ्यः परं चिन्तयितुं तथा अभियान्त्रिकी-प्रौद्योगिक्योः उपयोगेन वास्तविकानां सामाजिकानां मानवीयानां च समस्यासां समाधानं कथं कर्तुं शक्यते इति ज्ञातुं प्रेरयितुम् आसीत्।

कार्यक्रमस्य शुभारम्भं कुर्वन् केन्द्रीय-विश्वविद्यालयस्य कुलपतिः प्रो. सतप्रकाशबंसलः विद्यार्थिभ्यः ‘उद्देश्यपूर्ण-अभियान्त्रिकी’ इत्यस्य आह्वानं कृतवान्। अस्मिन् अवसरे कुलपतिः प्रो. सतप्रकाशबंसलः विद्यार्थिभ्यः, शिक्षकभ्यः आयोजकेभ्यश्च राष्ट्रिय-अभियन्तृदिवसस्य हार्दिकाः शुभकामनाः प्रदत्तवान् तथा कार्यक्रमस्य सफलायोजनाय शुभकामना: अर्पितवान्। विद्यार्थिभ्यः सम्बोधयन् प्रो. बंसलः अवदत् यत् अभियान्त्रिकी केवलं तकनीकीपदवीं प्राप्तुं, यन्त्राणां बोधनं वा सङ्गणककार्यक्रमान् लिखितुं वा सीमिता न अस्ति। अभियान्त्रिक्याः वास्तविकमर्थः समस्याणां परिचयः, तासां मूलस्वरूपस्य अवबोधनं तथा मानवजीवनं श्रेष्ठतरं कर्तुं समर्थानां समाधानानां विकासः अस्ति।

सीयूएचपी-मध्ये प्रारप्स्यते एकवर्षीयः एआई-रोबोटिक्स-प्रमाणपत्रपाठ्यक्रमः

अस्मिन् अवसरे कुलपतिः प्रो. सतप्रकाशबंसलः विभागे अस्मादेव शैक्षणिकसत्रात् कृत्रिमबुद्धौ रोबोटिक्स इत्यस्मिन् च एकवर्षीयस्य प्रमाणपत्र-पाठ्यक्रमस्य आरम्भस्य घोषणाम् अपि अकरोत्। सः अवदत् यत् एषा पहलः विद्यार्थिभ्यः उद्भावनशीलासु प्रौद्योगिकीषु व्यावहारिकान् उद्योगाभिमुखान् च कौशलान् विकसितुं अतिरिक्तम् अवसरं प्रदास्यति। सः विद्यार्थिनः एतादृशानां कार्यक्रमाणां अधिकतमं लाभं ग्रहीतुं भविष्यस्य तकनीकी-आवश्यकतानाम् अनुरूपं स्वं सज्जीकर्तुं च प्रेरितवान्।

Hindusthan Samachar / Divya Ranjan