किशाऊ-जलविद्युत्प्रकल्पः केन्द्रेण हिमाचलप्रदेशस्य आग्रहः स्वीकृतः, षण्णां राज्यनां भविष्यति ऐतिहासिकं सहमतिज्ञापनसन्धिज्ञापनम्
नवदिल्ली, १५ सेप्टेम्बरमासः (हि.स.)। षड्दशकात् अपि अधिककालात् लम्बितस्य किशाऊबहूद्देशीयप्रकल्पस्य कार्ये मङ्गलवासरे महती गतिः आगमिष्यति। नवदिल्ली इत्यत्य स्थिते कर्तव्यभवने केन्द्रीयगृहमन्त्रिणः अमित-शाहस्य अध्यक्षतायां परियोजनां प्रति षण्णां राज्य
गृह मंत्री अमित शाह - हिमाचल के सीएम सुखविंदर सिंह सुखू (फाइल फाेटाे)


नवदिल्ली, १५ सेप्टेम्बरमासः (हि.स.)। षड्दशकात् अपि अधिककालात् लम्बितस्य किशाऊबहूद्देशीयप्रकल्पस्य कार्ये मङ्गलवासरे महती गतिः आगमिष्यति। नवदिल्ली इत्यत्य स्थिते कर्तव्यभवने केन्द्रीयगृहमन्त्रिणः अमित-शाहस्य अध्यक्षतायां परियोजनां प्रति षण्णां राज्यनाम् मध्ये सहमतिज्ञापनपत्रे हस्ताक्षराणि भविष्यन्ति। सभायां केन्द्रीय-जलशक्तिमन्त्री सी. आर. पाटिलः, हिमाचलप्रदेशस्य, उत्तराखण्डस्य, उत्तर-प्रदेशस्य तथा हरियाणायाः मुख्यमन्त्रिणः उपस्थिताः भविष्यन्ति। राजस्थानं राष्ट्रीयराजधानी दिल्ली च अपि अस्य सन्धे: प्रमुखभागिनौ स्तः।

काङ्ग्रेसशासितस्य हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अपि शिमलातः दिल्लीं प्रति प्रस्थितवान् अस्ति तथा व्यक्तिगततया अस्मिन् सन्धौ सम्मिलितः भविष्यति। हिमाचलप्रदेशसर्वकाराय इदं सहमतिज्ञापनं महत्त्वपूर्णा उपलब्धिः मन्यते, यतः केन्द्रसर्वकारेण राज्यस्य प्रमुखमाग्रहम् अङ्गीकृत्य परियोजनायाः जलघटकस्य व्ययस्य नवतिप्रतिशतं वोढुं सहमतिः प्रदत्ता अस्ति। अनेन हिमाचलप्रदेशस्य वित्तीयभारः बहुधा न्यूनः भविष्यति।

किशाऊप्रकल्पः टौंसनद्यां प्रस्तावितः अस्ति। अस्य प्रकल्पस्य माध्यमेन प्रायः ६६० मेगावाट् विद्युत्-उत्पादनस्य, सिञ्चनस्य पेयजलापूर्तेः च सुविधा विकसितुं प्रस्ताविता अस्ति। परियोजनायाः अनुमानितः व्ययः प्रायः १५ सहस्रकोटिरूप्यकाणि अस्ति। अस्मिन् प्रायः २,००० कोटिरूप्यकाणि विद्युत्घटकस्य सन्ति, यदा तु जलघटकस्य बृहद् व्ययः केन्द्रसर्वकारेण वहिष्यते।

प्रस्तावितव्यवस्थानुसारं हिमाचलप्रदेशस्य भागे प्राप्तस्य जलस्य उपयोगः दिल्ली-राजस्थानयोः सहितेषु सम्बन्धितराज्येषु भविष्यति। तस्य प्रतिफलरूपेण विद्युत्प्रकल्पस्य व्यये सम्बन्धितराज्यानां वित्तीयभागः निर्धारितः भविष्यति। उत्तरप्रदेशः, उत्तराखण्डः, हिमाचलप्रदेशः, हरियाणा, राजस्थानं तथा दिल्ली इत्येतेषां मध्ये अस्मिन् सन्धिना जलस्य विद्युतशक्तेश्च विभाजनस्य नूतना नमूना निर्मास्यते।

किशाऊबहूद्देशीयप्रकल्पः दीर्घकालात् अन्तर्राज्यीयसहमतेः वित्तीयव्यवस्थायाः च अभावेन अवरुद्धः आसीत्। जूनमासे सम्पन्नानाम् उच्चस्तरीयसभानाम् अनन्तरं प्रकल्पं प्रति राज्येषु सहमतिः अभवत्। अधुना मङ्गलवासरे भविष्यमाणं सहमतिज्ञापनं तां सहमतिं औपचारिकरूपं प्रदास्यति।

प्रकल्पस्य कार्यान्वयनेन हिमाचलप्रदेशे उत्तराखण्डे च विद्युत्-उत्पादनेन सह देहली-राजस्थान-हरियाणा-उत्तरप्रदेशेषु सिञ्चनस्य जलापूर्तेश्च सुदृढीकरणस्य अपेक्षा अस्ति। अनेन बहुसंख्याकाः कृषकाः जनसमुदायश्च लाभान्विताः भविष्यन्ति इति सम्भावना अस्ति।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः मङ्गलवासरे दिल्ली इत्यत्र सहमतिज्ञापने हस्ताक्षरं कृत्वा बुधवासरे प्रातः ऊनां प्राप्स्यति। तत्र १६ सेप्टेम्बरे प्रस्ताविते ‘एण्टी-चिट्टा’ पदभ्रमणकार्यक्रमे भागं ग्रहीष्यति। इदं कार्यक्रमं पूर्वं त्रिवारं स्थगितम् अस्ति।

तदनन्तरं १८ सेप्टेम्बरे मुख्यमन्त्री स्वस्य विधानसभाक्षेत्रस्य नादौनस्य भ्रमणे भविष्यति। प्रातः प्रायः ११:३० वादने सः चमरालपञ्चायतस्य दरियालग्रामे सधोड़ा-पत्तनसेतुप्रकल्पस्य आधारशिलां स्थाप-यिष्यति।

Hindusthan Samachar / Divya Ranjan