वर्षेभ्यः प्रलम्बिता किशाऊबन्धपरियोजना गतिं प्राप्तवती, नवदिल्ल्यां षण्णां राज्याणां मध्ये अभवत् महत्त्वपूर्णा सहमतिः
हरियाणायै किशाऊबन्धपरियोजनातः एकसहस्रद्विशताधिक-अष्टशतं क्यूसेक् अतिरिक्तजलम् उपलब्धं भविष्यति। चण्डीगढः, १५ सितम्बरमासः(हि.स.)। हरियाणाप्रदेशस्य मुख्यमन्त्री नायबसिंहसैनी अवदत् यत् अद्यतनः दिवसः हरियाणायै ऐतिहासिकः अस्ति। किशाऊबहुउद्देशीयपरियोजना
हरियाणा के मुख्यमंत्री नायब सैनी गृहमंत्री अमित शाह से मुलाकात करते हुए


हरियाणायै किशाऊबन्धपरियोजनातः एकसहस्रद्विशताधिक-अष्टशतं क्यूसेक् अतिरिक्तजलम् उपलब्धं भविष्यति।

चण्डीगढः, १५ सितम्बरमासः(हि.स.)। हरियाणाप्रदेशस्य मुख्यमन्त्री नायबसिंहसैनी अवदत् यत् अद्यतनः दिवसः हरियाणायै ऐतिहासिकः अस्ति। किशाऊबहुउद्देशीयपरियोजनां प्रति षण्णां राज्याणां मध्ये सहमतिपत्रे हस्ताक्षरं करणं वर्षेभ्यः प्रलम्बितायाः अस्याः परियोजनायाः अग्रे प्रगतये महत्त्वपूर्णं सोपानम् अस्ति।

मुख्यमन्त्री नायबसिंहसैनी मङ्गलवासरे नवदिल्ल्यां केन्द्रीयगृहमन्त्रिणः सहकारितामन्त्रिणः च अमितशाहस्य अध्यक्षतायां किशाऊबहुउद्देशीयपरियोजनां प्रति आयोजितायाः बैठकायाः अनन्तरं पत्रकारैः सह वार्तालापं कुर्वन् एतत् अवदत्। बैठके उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी, हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता इत्येतेषां सहितं सम्बन्धितराज्यानां वरिष्ठाधिकारिणः उपस्थिताः आसन्। बैठके केन्द्रीयजलशक्तिमन्त्री सी.आर. पाटिलः अपि उपस्थितः आसीत्।

नायबसिंहसैनी अवदत् यत् रेणुकाजी, लखवारः, किशाऊ इत्येताभ्यः त्रिभ्यः परियोजनाभ्यः हरियाणायाः जलांशः प्रायः एकादशाधिकैकसहस्रं एमसीएम् भविष्यति। एताभ्यः त्रिभ्यः परियोजनाभ्यः कुलं द्विसहस्रषट्शताधिकषट्सप्ततिः क्यूसेक् जलस्य उपलब्धता वर्धिष्यते, यस्मिन् हरियाणायाः भागे एकसहस्रद्विशताधिक-अष्टशतं क्यूसेक् जलं भविष्यति।

मुख्यमन्त्री अवदत् यत् यमुनानद्यां हरियाणायाः जलांशः अष्टचत्वारिंशत् प्रतिशतं वर्तते। अतः यमुनायां जलस्य उपलब्धतायां वृद्ध्या हरियाणायै अस्य प्रत्यक्षः लाभः भविष्यति। किशाऊपरियोजनया सह रेणुकाजी-लखवारपरियोजनयोः अपि हरियाणायै महत्त्वम् अस्ति। एतयोः परियोजनयोः निर्माणकार्यं पूर्वमेव प्रचलति तथा च अधुना शीघ्रमेव किशाऊपरियोजनायाम् अपि कार्यारम्भस्य आशा अस्ति।

मुख्यमन्त्री नायबसिंहसैनी अवदत् यत् जलं कस्यापि प्रदेशस्य विकासस्य सर्वाधिकमहत्त्वपूर्णासु आवश्यकतासु अन्यतमम् अस्ति। वर्धमानजनसङ्ख्यया विकासेन च सह आगामिकाले जलस्य आवश्यकतापि वर्धिष्यते। अतः एताभ्यः परियोजनाभ्यः वर्धिष्यमाणा जलस्य उपलब्धता हरियाणायाः वर्तमानानाम् आवश्यकतानां सह आगामिसंततीनाम् अपि कृते अत्यन्तं महत्त्वपूर्णा सिद्धा भविष्यति।

Hindusthan Samachar / Dheeraj Maithani