Enter your Email Address to subscribe to our newsletters

अभियन्तादिवससमारोहे सम्मिलितः मुख्यमन्त्री डॉ. यादवः
भोपालः, १५ सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् देशस्य गौरवशालिनी प्राचीनस्थापत्यविरासत् अद्यापि प्रौद्योगिक्याः सह नवीनप्रयोगाणां प्रेरणां ददाति। अभियन्ता यतः स्वप्रतिभया, तकनीकीज्ञानेन नवाचारेण च विकासस्य सम्भावनाः धरातले साकारयन्ति। कस्यचित् नवीनमार्गस्य निर्माणं केवलं यातायातस्य सुविधां न ददाति, अपितु सः सम्पूर्णस्य क्षेत्रस्य आर्थिकसामाजिकविकासस्य नूतनं द्वारम् उद्घाटयति। अभियन्तृभिः निर्मीयमाणायां प्रत्येकस्यां परियोजनायां प्रारूपे च प्रदेशस्य भविष्यस्य आर्थिकसंरचनायाः परिकल्पना निहिता भवति।
मुख्यमन्त्री डॉ. यादवः मङ्गलवासरे भोपालस्य कुशाभाऊ ठाकरे अन्तर्राष्ट्रीयसम्मेलनकेन्द्रे आयोजितम् अभियन्तादिवससमारोहं सम्बोधयन् एतत् अवदत्। सः दीपप्रज्वालनेन राज्यस्तरीयसमारोहस्य शुभारम्भं कृतवान्। समारोहः वन्देमातरम् इत्यस्य सामूहिकगानेन आरब्धः। मुख्यमन्त्रिणा सरविश्वेश्वरैय्यायाः चित्रे पुष्पाञ्जलिः अर्पिता।
सः अवदत् यत् सरविश्वेश्वरैय्यया स्वदूरदृष्ट्या, तकनीकीदक्षतया, राष्ट्रसेवाभावेन च जलप्रबन्धनस्य, सिञ्चनस्य, औद्योगिकविकासस्य, संस्थागतनिर्माणस्य च क्षेत्रेषु तादृशानि कार्याणि कृतानि, येषां लाभः देशः अद्यापि प्राप्नोति। तस्य जीवनम् अस्य तथ्यस्य प्रमाणम् अस्ति यत् एकस्य व्यक्तेः दूरदृष्टिः सङ्कल्पश्च सम्पूर्णस्य देशस्य विकासाय नूतनां दिशां दातुं शक्नोति। मुख्यमन्त्री डॉ. यादवः महान् नागरिक-अभियन्ता भारतरत्नसम्मानितस्य सर मोक्षगुण्डमविश्वेश्वरैय्यायाः जयन्त्यवसरे प्रदेशस्य सर्वेभ्यः अभियन्तृभ्यः बधाईः शुभकामनाश्च प्रदत्तवान्।
मुख्यमन्त्रिणा लोकनिर्माणविभागस्य परिपत्राणां सङ्कलनस्य विमोचनं कृतम्
मुख्यमन्त्रिणा समारोहे उत्कृष्टकार्यं कुर्वतां अभियन्तॄणाम्, अधिकारिणां, संयुक्तदलानां, निर्माणाभिकरणानां च पञ्चसु श्रेणीषु पुरस्कारान् प्रदाय सम्मानः कृतः। अस्मिन् अवसरे प्रदेशस्य लोकनिर्माणविभागस्य सीएसआईआर-एम्प्री भोपालस्य च मध्ये स्थायि-अधोसंरचनानिर्माणाय सहमतिपत्रस्य आदानप्रदानमपि अभवत्। मुख्यमन्त्रिणा लोकनिर्माणविभागस्य गतदशवर्षाणां परिपत्राणां सङ्कलनस्य संक्षिप्तग्रन्थस्यापि विमोचनं कृतम्।
भारतस्य स्थापत्यपरम्परा प्राचीनकालादेव समृद्धा अस्ति
मुख्यमन्त्री अवदत् यत् अभियन्तारः उपलब्धानां संसाधनानां, ज्ञानस्य, स्वयोग्यतायाश्च समन्वयं कृत्वा तेषां क्षमतां बहुगुणितां कुर्वन्ति। प्रकृतेः पञ्चतत्त्वानां आधुनिकप्रौद्योगिक्याश्च सन्तुलितोपयोगेन ते समाजाय तादृशानां स्थायिसंरचनानां निर्माणं कुर्वन्ति, याः पीढीभ्यः उपयोगिन्यः भवन्ति।
भारतस्य स्थापत्यपरम्परा प्राचीनकालादेव समृद्धा अस्ति। एलोरास्थितं कैलासमन्दिरम्, मन्दसौरस्य धर्मराजेश्वरमन्दिरम्, प्राचीनाः जलसंरचनाः तथा जीवन्ताः इव प्रतिभासमानाः शिल्पकृतयः तत्कालीनानाम् अभियन्तॄणां शिल्पकाराणां च असाधारणां तकनीकीदक्षतां परिचाययन्ति। मध्यप्रदेशस्य प्राचीनस्थापत्यविरासत् देशस्य लोकतान्त्रिकभवनानां वास्तुकलामपि प्रेरितवती अस्ति। एषा गौरवशालिनी विरासत् अद्यतनानाम् अभियन्तॄणां आधुनिकप्रौद्योगिक्याः सह नूतनान् प्रयोगान् कर्तुं प्रेरणां ददाति।
महापुरुषाणां नामभिः पुरस्काराः विभागस्य अभिनवः प्रयासः
मुख्यमन्त्री डॉ. यादवः अभियन्तृभ्यः पञ्चसु श्रेणीषु पुरस्कारप्रदानस्य अभिनवप्रयासाय लोकनिर्माणविभागाय बधाईः प्रदत्तवान्। सः अवदत् यत् मोक्षगुण्डमविश्वेश्वरैय्यापुरस्कारस्य, विश्वकर्मापुरस्कारस्य, विक्रमादित्यपुरस्कारस्य, रानीदुर्गावतीपर्यावरणहितैषिपुरस्कारस्य, राजाभोजपुरस्कारस्य च माध्यमेन विभागेन भारतस्य ऐतिहासिकविभूतीनां योगदानं आधुनिकनिर्माणव्यवस्थया सह संयोजितम् अस्ति।
सः अवदत् यत् एते पुरस्काराः निर्माणगुणवत्तां, तकनीकीनवाचारं, सुशासनं, पर्यावरणसंरक्षणं, जनहितं प्रति च अभियन्तॄणां प्रतिबद्धतां प्रोत्साहयिष्यन्ति। वरिष्ठानां निवृत्तानां च अभियन्तॄणां सम्मानः विभागस्य गौरवशालिन्याः परम्परायाः तेषां दीर्घकालीनयोगदानस्य च प्रति आदरस्य प्रतीकम् अस्ति।
नवाचारं कुर्वद्भिः अभियन्तृभिः सह अस्ति सर्वकारः
मुख्यमन्त्रिणा सीमेन्टरहितकङ्क्रीट् इत्यादीनां पर्यावरणानुकूलानां निर्माणसामग्रीणां आधुनिकप्रौद्योगिकीनां च विषये क्रियमाणानां प्रयोगाणां प्रशंसा कृता। सः अवदत् यत् लोकनिर्माणविभागः नवीनप्रौद्योगिकीनां, अनुसन्धानस्य, नवाचाराणां च स्वीकरणेन देशस्य अग्रणीविभागेषु स्वकीयां परिचितिं निर्माति। विभागस्य उपलब्धयः सम्पूर्णस्य दलस्य परिश्रमस्य प्रतिबद्धतायाश्च परिणामाः सन्ति।
मुख्यमन्त्री अभियन्तॄणाम् उत्साहवर्धनं कुर्वन् अवदत् यत् ते निर्भयतया जनहिते नवाचारं कुर्वन्तु, राज्यसर्वकारः प्रत्येकस्मिन् सकारात्मकप्रयासे तेषां सह स्थितः अस्ति। प्रधानमन्त्रिणः श्रीनरेन्द्रमोदी-महोदयस्य नेतृत्वे भारतस्य आत्मविश्वासः वैश्विकप्रतिष्ठा च निरन्तरं वर्धते। विकसितभारतस्य विकसितमध्यप्रदेशस्य च निर्माणे अभियन्तॄणां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति।
कार्यक्रमं लोकनिर्माणमन्त्री राकेशसिंहः प्रमुखसचिवः सुखवीरसिंहश्च सम्बोधितवन्तौ। कार्यक्रमे विभागस्य वरिष्ठाधिकारिणः, अभियन्तारः, निवृत्ताः अभियन्तारः, निर्माणाभिकरणानां प्रतिनिधयः, गणमान्यनागरिकाश्च उपस्थिताः आसन्।
अभियन्तादिवसे उत्कृष्टानाम् अभियन्तॄणां निर्माणाभिकरणानां च सम्मानः
मुख्यमन्त्री डॉ. यादवः अभियन्तादिवसे अधोसंरचनानिर्माणस्य क्षेत्रे गुणवत्ता, समयबद्धता, तकनीकीनवाचारः, पर्यावरणसंरक्षणं च प्रति उत्कृष्टकार्यं कृतवद्भ्यः अधिकारिभ्यः, अभियन्तृभ्यः, संयुक्तदलेभ्यः निर्माणाभिकरणेभ्यश्च विभिन्नैः पुरस्कारैः सम्मानं प्रदत्तवान्।
मोक्षगुण्डमविश्वेश्वरैय्यापुरस्कारेण मध्यप्रदेशसडकविकासनिगमस्य भोपालस्य सम्भागीयप्रबन्धकः ईश्वरसिंहचन्देली, मध्यप्रदेशभवनविकासनिगमस्य जबलपुरस्य उपमहाप्रबन्धकः मानवेन्द्रसिंहसेङ्गरः, लोकनिर्माणविभागस्य जबलपुरस्य कार्यपालनयन्ता भवनः मनीषकुमारशर्मा तथा लोकनिर्माणविभागस्य अनुरक्षणसम्भागक्रमाङ्कद्वितीयस्य भोपालस्य प्रभारीअनुविभागीयाधिकारी एच.एन.त्रिपाठी च सम्मानिताः।
विश्वकर्मापुरस्कारः मेसर्स वी.वी.सी.एम.के.एस. प्रोजेक्ट् प्राइवेट् लिमिटेड्, मेसर्स अग्रवाल कन्स्ट्रक्शन् वर्क्स्, मेसर्स एपेक्स् स्ट्रक्चर् प्राइवेट् लिमिटेड् तथा मेसर्स गौर रोड् टारकोट् प्राइवेट् लिमिटेड्, जबलपुरम् इत्येतेभ्यः प्रदत्तः।
विक्रमादित्यपुरस्कारः मध्यप्रदेशसडकविकासनिगमस्य ग्वालियरस्य संयुक्तदलाय प्रदत्तः। अस्मिन् दले सम्भागीयप्रबन्धकः राजेशदायमा, सम्भागीयप्रबन्धिका हर्षितावार्ष्णेया, उपमहाप्रबन्धकः शशाङ्कशर्मा, प्रबन्धकः दीपकनामदेवः च सम्मिलिताः आसन्। अस्यैव श्रेण्यां लोकनिर्माणविभागस्य सागरसम्भागस्य संयुक्तदलमपि सम्मानितम्, यस्मिन् कार्यपालनयन्ता साहित्यतिवारी उपयन्ता अनिलश्रीवास्तवश्च सम्मिलितौ आस्ताम्।
रानीदुर्गावतीपर्यावरणहितैषिपुरस्कारः लोकनिर्माणविभागस्य श्योपुरस्य कार्यपालनयन्त्रे पुष्कलप्रतापाय प्रदत्तः।
राजाभोजपुरस्कारेण मध्यप्रदेशभवनविकासनिगमस्य संयुक्तदलं सम्मानितम्। अस्मिन् दले तत्कालीनः उपमहाप्रबन्धकः मोहनकिशोरपरमारः प्रबन्धकः महेन्द्रडोलियाश्च सम्मिलितौ आस्ताम्। अस्यैव पुरस्कारेण लोकनिर्माणविभागस्य संयुक्तदलमपि सम्मानितम्, यस्मिन् कार्यपालनयन्त्रौ शिवेन्द्रसिंहः, हृदेशआर्यः, उपयन्ता रामसिंहरघुवंशी च सम्मिलिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani