Enter your Email Address to subscribe to our newsletters

ग्वालियरम्, १५ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियरनगरे सांगीतिक-परम्परायाः महान् सङ्गीतज्ञः पद्मभूषणसम्मानितश्च पं. कृष्णराव-शङ्करपण्डितः। तस्य स्मृतौ मध्यप्रदेश-शासनेन संस्कृतिविभागस्य माध्यमेन २४-२५ सेप्टेम्बरमासयोः, २०२६ तमे वर्षे, ‘सङ्गीतसमारोहस्य’ आयोजनं क्रियते। तानसेनकलावीथिकायां ग्वालियरनगरे आयोजिते अस्मिन् समारोहे प्रदेशस्य देशस्य च सुविख्याताः सङ्गीतज्ञाः पं. कृष्णरावशङ्करपण्डिताय स्वराञ्जलिं समर्पयिष्यन्ति।
संस्कृतिसञ्चालकः एन.पी. नामदेवः मङ्गलवासरे अवदत् यत् कार्यक्रमः प्रतिदिनं सायं ७ वादनतः प्रारभ्यते तथा श्रोतृभ्यः प्रवेशः निःशुल्कः भविष्यति। शास्त्रीयसङ्गीतस्य परम्परायां ग्वालियर-घराणा इत्यस्य विशिष्टं गौरवपूर्णं च स्थानम् अस्ति। पं. कृष्णरावशङ्करपण्डितः ग्वालियरघराणस्य महत्त्वपूर्णः महान् च सङ्गीतज्ञः आसीत्, यस्य सङ्गीतेन समृद्धायाः अस्याः परम्परायाः नूतनानि शिखराणि प्राप्तानि।
सः अवदत् यत् एतादृशस्य महान् सङ्गीतज्ञस्य योगदानस्य तस्य स्मृतेश्च संरक्षणस्य उद्देश्येन राज्यशासनस्य संस्कृतिविभागेन अयं समारोहः आयोज्यते। तेन सह एषः प्रयासः अपि क्रियते यत् एतेषु आयोजनेषु अधिकाधिकाः युवानः सम्बध्येरन् तथा अस्माकं सांस्कृतिक-धरोहरस्य व्यापकप्रचारः प्रसारश्च भवेताम्।
संस्कृतिसञ्चालकः नामदेवः अवदत् यत् द्विदिवसीयस्य अस्य आयोजनस्य प्रथमदिने, २४ सेप्टेम्बरमासस्य गुरुवासरे, सर्वप्रथमं प्रशस्तिगायनं भविष्यति, यत् पं. कृष्णरावशङ्करपण्डितेन स्थापितस्य ग्वालियरस्थितस्य शङ्करगन्धर्वसङ्गीत-महाविद्यालयस्य कलाकारैः प्रस्तुतं करिष्यते। ततः मध्यप्रदेशस्य सुविख्यातेन गायकविदुषा पं. भुवनेशकोमकली इत्यनेन देवासतः गायनप्रस्तुतिः भविष्यति। प्रथमदिवसस्य अन्तिमप्रस्तुतिः सुवि-ख्यातया गिटार-वादकया विदुष्या कमलाशङ्करया वाराणसीतः गिटार-वादनस्य भविष्यति।
समारोहस्य द्वितीयदिने, २५ सेप्टेम्बर-मासस्य शुक्रवासरे, सर्वप्रथमं मुम्बईतः ऋषिकेशमजूमदारस्य वंशीवादनं भविष्यति। ततः ग्वालियरघराणस्य सुविख्याता गायिका विदुषी मीतापण्डिता नवदिल्लीस्थानतः गायनप्रस्तुतिं करिष्यति।
भारतीयशास्त्रीयसङ्गीतकेन्द्रिते अस्मिन् प्रतिष्ठितसमारोहे उभयोः दिवसयोः सङ्गीतस्य विविधाः रङ्गाः प्रस्फुटिष्यन्ति, येषां मूले भारतस्य आत्मा परम्परा च निहिते भविष्यतः।
Hindusthan Samachar / Divya Ranjan