Enter your Email Address to subscribe to our newsletters

पञ्चसु श्रेणीषु उत्कृष्टेभ्यः अभियन्तृभ्यः निर्माणसंस्थाभ्यश्च ‘लोकनिर्माण-पुरस्काराः’ प्रदास्यन्ते
भोपालम्, १५ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे अभियन्तृदिवसस्य अवसरे लोकनिर्माणविभागेन अद्य मङ्गलवासरे भोपालस्य कुशाभाऊ ठाकरे-सभागारे राज्यस्तरीयः अभियन्तृदिवससमारोहः आयोज्यते। मुख्यमन्त्री डॉ. मोहनयादवः समारोहस्य मुख्यातिथिः भविष्यति। लोकनिर्माणमन्त्री राकेशसिंहः विशेषातिथिरूपेण उपस्थितः भविष्यति।
जनसम्पर्काधिकारी अरुणशर्मा इत्यनेन सूचितं यत् ‘लोकनिर्माणेन लोक-कल्याणम्’ इति अवधारणाम् आधृत्य आयोज्यमाने अस्मिन् समारोहस्य अधोसंरचनानिर्माणक्षेत्रे उत्कृष्टकार्यं उल्लेखनीयञ्च योगदानं कृतवद्भ्यः अभियन्तृभ्यः, अधिकारिभ्यः, संयुक्तदलेभ्यः तथा निर्माणसंस्थाभ्यः ‘लोकनिर्माण-पुरस्कारैः’ सम्मानं प्रदास्यते।
तेन उक्तं यत् लोकनिर्माणविभागात्, मध्यप्रदेशमार्गविकासनिगमात् तथा मध्यप्रदेशभवनविकासनिगमात् प्राप्तानां प्रस्तावानां विस्तृतपरीक्षणानन्तरं पुरस्कारार्थम् उत्कृष्टकार्याणां चयनं कृतम् अस्ति। समारोहस्यावसरे मोक्षगुण्डम्-विश्वेश्वरैय्यापुरस्कारः, विश्वकर्मापुरस्कारः, विक्रमादित्यपुरस्कारः, रानीदुर्गावतीपर्यावरणहितैषीपुरस्कारः तथा राजाभोजपुरस्कारः प्रदास्यन्ते।
जनसम्पर्काधिकारिणः अनुसारम् एतेषां पुरस्काराणां माध्यमेन गुणवत्तापूर्णस्य समयबद्धस्य च निर्माणस्य, तकनीकी-नवाचारस्य, पर्यावरणसंरक्षणस्य तथा जनहितकारी-अधोसंरचनाविकासस्य क्षेत्रेषु उत्कृष्टोदाहरणानि प्रस्तुतवद्भ्यः अभियन्तृभ्यः निर्माणसंस्थाभ्यश्च प्रोत्साहनं प्रदास्यते। समारोहस्य उद्देश्यं प्रदेशे श्रेष्ठाभियांत्रिककार्याणां कृते मान्यतां प्रदानेन सह निर्माणक्षेत्रे गुणवत्ता, उत्तरदायित्वं नवाचारस्य च संस्कृतिं अधिकां सुदृढां कर्तुम् अस्ति।
Hindusthan Samachar / Divya Ranjan