गणपतिबप्पाय मखानामोदकं कुंडलिकां च नैवेद्यं समर्पितम्, अमेजन-फ्लिपकार्ट इत्येतयोः प्रसिद्ध: भवितुं सज्जं कटिहारस्य ‘सुपरफूड’
कटिहारम्, १५ सेप्टेम्बरमासः (हि.स.)। स्थानीयशिवमन्दिरचौकस्थिते गणपति-पण्डाले गणपतिबप्पा इत्यस्मै मखानेन निर्मितं पौष्टिकं मोदकं कुंडलिकां च विशेषनैवेद्यरूपेण समर्पितम्। अस्मिन् अवसरे पूजार्चनार्थम् आगतौ सदर-उपमण्डलाधिकारी सूरजकुमारः जनपद-कृष्यधिकार
मखाना से बना लड्डू


कटिहारम्, १५ सेप्टेम्बरमासः (हि.स.)। स्थानीयशिवमन्दिरचौकस्थिते गणपति-पण्डाले गणपतिबप्पा इत्यस्मै मखानेन निर्मितं पौष्टिकं मोदकं कुंडलिकां च विशेषनैवेद्यरूपेण समर्पितम्। अस्मिन् अवसरे पूजार्चनार्थम् आगतौ सदर-उपमण्डलाधिकारी सूरजकुमारः जनपद-कृष्यधिकारी राजीवकुमारश्च मखानो-त्पादानां पुटकीकरणस्य, ब्राण्डनिर्माणस्य तथा बृहत्प्रमाणेन विपणनस्य विस्तृत-रणनीतिं प्रति चर्चां कृतवन्तौ। अधिकारिभ्यां प्रसादं स्वीकृत्य महिलाभिः कृतस्य अस्य नवाचारस्य प्रशंसा कृता।

अमेजन-फ्लिपकार्ट-स्विग्गी-माध्यमेन विक्रयस्य दत्ताः विचारा:

सदर-उपमण्डलाधिकारी सूरजकुमारः अवदत् यत् ग्रामीणमहिलासमूहैः निर्मितान् मखानोत्पादान् केवलं स्थानीयस्तरे सीमितान् न कृत्वा ई-वाणिज्यमञ्चेषु नेतुम् आवश्यकता अस्ति। सः फ्लिपकार्ट, अमेजन तथा स्विग्गी इत्येतेषां माध्यमेन एतेषां उत्पादानाम् अन्तर्जाल-विक्रयस्य व्यावहारिकान् विचारान् दत्तवान्। उपमण्डलाधिकारिणा बलं दत्तं यत् आकर्षकपुटकीकरणेन, कठोरगुणवत्ता-नियन्त्रणेन, उत्तमब्राण्डनिर्माणेन समुचित-मूल्यनिर्धारणेन च कटिहारस्य मखानोत्पादेभ्यः देशव्यापिनी प्रसिद्धिः विशालं च विपणनक्षेत्रं प्राप्तुं शक्यते।

जटा-एफपीओ-सहयोगेन महिलाभिः निर्मिताः उत्पादाः पण्डाले आकर्षणस्य केन्द्रे अभवतां मखानामोदकं कुंडलिका च ‘जटा-एफपीओ’ इत्यस्य सहयोगेन कोढाप्रखण्डस्य मुसापुरग्रामस्य महिला-समूहैः निर्मिते स्तः। ग्रामीणमहिलानाम् आर्थिकसशक्तीकरणाय स्वरोजगारस्य नवीनावसरान् च प्रदातुम् उद्दिश्य एष: प्रयत्न: प्रारब्ध: अस्ति।

‘सुपरफूड’-माध्यमेन आयवर्धनस्य प्रयासः

बिहारस्य प्रमुखकृष्युत्पादः मखाना पौष्टिकतायाः कारणेन वैश्विकस्तरे ‘सुपरफूड’ इति रूपेण उद्भवति। अधिकारिणाम् अनुसारं मखानस्य मूल्यवर्धनं कृत्वा मोदक-कुंडलिकादीन् उत्पादान् निर्माय न केवलं स्थानीयकृषकेभ्यः उपजस्य उत्तमं मूल्यं प्राप्तुं शक्यते, अपितु स्वयं-सहायतासमूहेषु सम्बद्धानां महिलानाम् आयस्य उल्लेखनीयवृद्धिरपि भविष्यति।

Hindusthan Samachar / Divya Ranjan