Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, १५ सेप्टेम्बरमासः (हि.स.)। ओडिशाविधानसभायाः प्रतिपक्षनेता बीजेडी-अध्यक्षश्च नवीनपटनायकः अभियन्ता-दिवसस्य अवसरे महान् अभियन्ता, राष्ट्रनिर्माता भारतरत्नेन सम्मानितश्च सर् एम. विश्वेश्वरैया इत्यस्य जयन्त्यवसरे तस्मै श्रद्धाञ्जलिं समर्पितवान्।
पटनायकः सामाजिकमाध्यमे प्रकाशिते सन्देशे अवदत् यत् सर विश्वेश्वरैया आधुनिकभारतस्य आधारभूतसंरचनायाः आधारं सुदृढं कर्तुं साहाय्यभूतानां अनेकेषां महत्त्वपूर्णानां अभियान्त्रिकपरियोजनानां निर्माणे महत्त्वपूर्णां भूमिकां निर्वहितवान्। अभियान्त्रिकी-राष्ट्रनिर्माणयोः क्षेत्रे तस्य योगदानं सदैव स्मरणीयं भविष्यति।
सः अवदत् यत् सर् विश्वेश्वरैया इत्यस्य अटूटप्रतिबद्धता सत्यनिष्ठा च सर्वान् सुदृढस्य आत्मनिर्भरस्य च राष्ट्रस्य निर्माणाय समर्पितभावेन कार्यं कर्तुं प्रेरयिष्यति।
Hindusthan Samachar / Divya Ranjan