नुआखाईपर्वणि राज्यपाल-मुख्यमन्त्रिणा प्रतिपक्षनेत्रा च प्रदेशवासिभ्यः शुभकामनाः प्रदत्ताः
भुवनेश्वरम्, १५ सेप्टेम्बरमासः (हि.स.)। पश्चिम-ओडिशायाः प्रमुखस्य कृषिप्रधानस्य लोकपर्वणः नुआखाईपर्वणः अवसरे राज्यपालः हरिबाबू-कम्भमपतिः, मुख्य-मन्त्री मोहनचरण-माझी, प्रतिपक्षनेता नवीनपटनायकः च प्रदेशवासिभ्यः शुभकामनाः प्रदत्तवन्तः तथा च सर्वेषां स
उड़ीसा के मुख्यमंत्री मोहन चरण माझी


भुवनेश्वरम्, १५ सेप्टेम्बरमासः (हि.स.)। पश्चिम-ओडिशायाः प्रमुखस्य कृषिप्रधानस्य लोकपर्वणः नुआखाईपर्वणः अवसरे राज्यपालः हरिबाबू-कम्भमपतिः, मुख्य-मन्त्री मोहनचरण-माझी, प्रतिपक्षनेता नवीनपटनायकः च प्रदेशवासिभ्यः शुभकामनाः प्रदत्तवन्तः तथा च सर्वेषां सुख-शान्ति-समृद्धिनां कामनां कृतवन्तः।

राज्यपालः हरिबाबू-कम्भमपतिः सामाजिकमाध्यमे प्रकाशितेन सन्देशेन नुआखाईपर्व पश्चिम-ओडिशायाः महत: संस्कृतिपरम्परयोः प्रतीकम् इति अवदत्। सः प्रदेशवासिभ्यः ‘नुआखाई जुहार’ इति शुभकामनाः प्रदाय मातुः करुणामय्याः सर्वान् सुखिनः स्थापयितुं प्रार्थनां कृतवान्।

मुख्यमन्त्री मोहनचरण-माझी नुआखाई-पर्वणः कृष्याधारितं लोकपर्व इति वर्णयन् सर्वेभ्यः बधाई-जुहार इति शुभकामनाः प्रदत्तवान्। सः अवदत् यत् मातुः समलेश्वरीदेव्याः कृपया सर्वेषां जीवने सुखं शान्तिश्च समृद्धिश्च आगच्छेत्।

अपरतः प्रतिपक्षनेता नवीनपटनायकः अपि पवित्रे नुआखाईपर्वणि प्रदेशवासिभ्यः शुभकामनाः प्रदत्तवान्। सः कामनां कृतवान् यत् एतत् पर्व सर्वेषां जीवने सुखं शान्तिं समृद्धिं च आनयतु। सः स्वसन्देशस्य समापनं ‘जय माँ समलेई’ इति उद्घोषेण कृतवान्।

नुआखाई पश्चिम-ओडिशायाः समृद्धकृषि-परम्परया, सामाजिकैकतया सांस्कृतिक-धरोहरेण च सम्बद्धं प्रमुखं पर्व अस्ति। अस्मिन् अवसरे जनाः नूतनसस्यस्य धान्यम् अन्नं वा देवीदेवताभ्यः समर्प्य ततः परिवारेण समाजेन च सह पर्व आचरन्ति।

Hindusthan Samachar / Divya Ranjan