राजनाथसिंहः सितम्बरमासस्य पञ्चविंशतितमे दिने ‘अस्सी के राय साहब’ इति पुस्तकस्य विमोचनं करिष्यति।
नवदिल्ली, 15 सितंबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः सितम्बरमासस्य पञ्चविंशतितमे दिने हिन्दुस्थान-समाचारस्य समूहसम्पादकस्य तथा इन्दिरा-गान्धी-राष्ट्रिय-कला-केन्द्रस्य अध्यक्षस्य रामबहादुररायस्य अशीतितमे जन्मदिवसस्य उपलक्ष्ये ‘अस्सी के राय सा
प्रतीकात्मक


नवदिल्ली, 15 सितंबरमासः (हि.स.)।

रक्षामन्त्री राजनाथसिंहः सितम्बरमासस्य पञ्चविंशतितमे दिने हिन्दुस्थान-समाचारस्य समूहसम्पादकस्य तथा इन्दिरा-गान्धी-राष्ट्रिय-कला-केन्द्रस्य अध्यक्षस्य रामबहादुररायस्य अशीतितमे जन्मदिवसस्य उपलक्ष्ये ‘अस्सी के राय साहब’ इति पुस्तकस्य विमोचनं करिष्यति।

कार्यक्रमस्य आयोजकानाम् अनुसारं ‘प्रभातप्रकाशनम्’ एवं ‘प्रज्ञासंस्थानम्’ इत्येतयोः संयुक्ततत्त्वावधानेन अत्रत्ये डॉ. आम्बेडकर-अन्तर्राष्ट्रिय-केन्द्रे आयोजितस्य अस्य कार्यक्रमस्य अध्यक्षतां वरिष्ठः पत्रकारः बनवारी करिष्यति। वरिष्ठस्य पत्रकारस्य रामबहादुररायस्य जीवनमाधारीकृत्य रचितं पुस्तकमिदं वरिष्ठैः पत्रकारैः हेमन्तशर्मणा, मनोजमिश्रेण, सन्दीपजोशिना, सञ्जीवकुमारेण च सम्पादितम् अस्ति।

अस्मिन् पुस्तके राजनेतॄणां, विचारकाणां वरिष्ठपत्रकाराणां च लेखाः समाविष्टाः सन्ति। तेषु राज्यसभायाः उपसभापतिः हरिवंशः, रक्षामन्त्री राजनाथसिंहः, गृहमन्त्री अमितशाहः, मार्गपरिवहन-राजमार्गमन्त्री नितिनगडकरी, पर्यावरण-वन-जलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः, पूर्वकेन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः, जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हः, सत्तापक्षस्य विपक्षस्य च अनेकाः वरिष्ठाः नेतारः, नोबेलपुरस्कारविजेतारः, ख्यातिप्राप्ताः रचनाकाराः, देशस्य वरिष्ठाः पत्रकाराः सम्पादकाश्च अन्तर्भवन्ति।

उल्लेखनीयं यत् उत्तरप्रदेशस्य गाजीपुरजनपदस्य रेवतीपुरग्रामे, यत् तस्य मातामहस्य गृहम् आसीत्, १९४६ तमे वर्षे फेब्रुवरीमासस्य चतुर्थे दिने कृषकपरिवारे रामबहादुररायस्य जन्म अभवत्। तस्य मूलनिवासः सोनाडीग्रामः अस्ति। तस्य प्रारम्भिकशिक्षा मालदायां पश्चिमबङ्गाले गाजीपुरे च अभवत्। १९६५ तमे वर्षे काशीहिन्दूविश्वविद्यालये अध्ययनकाले सः अखिलभारतीयविद्यार्थिपरिषदः सम्बद्धः अभवत्। अनन्तरं १९७१ तमे वर्षे जयप्रकाशनारायणेन, १९७२ तमे वर्षे च के. एन. गोविन्दाचार्येण सह तस्य सम्पर्कः अभवत्। नवम्बरमासे १९७३ तमे वर्षे सः ऐतिहासिकस्य ‘बिहार-आन्दोलनस्य’ प्रमुखः सूत्रधारः अभवत्। जयप्रकाश-आन्दोलनस्य समये १९७४ तमस्य वर्षस्य एप्रिलमासस्य नवमे दिने मीसा-अधिनियमस्य अन्तर्गतं तस्य प्रथमवारं कारागारगमनम् अभवत्।

१९७९ तमस्य वर्षस्य अक्टोबरमासे लोकनायकस्य जयप्रकाशनारायणस्य निधनानन्तरं रामबहादुररायः पत्रकारिताक्षेत्रे प्रविष्टवान्। तस्य पत्रकारितायाः प्रारम्भः ‘हिन्दुस्थान-समाचार’ इत्यस्मात् अभवत्। अनन्तरं सः जनसत्तायां नवभारतटाइम्स् इत्यत्र च कार्यं कृतवान्। २००६ तमात् वर्षात् २०१० तमं वर्षं यावत् सः ‘प्रथमप्रवक्ता’ इति पत्रिकया सह सम्बद्धः आसीत्। ततः २०१३ तमस्य वर्षस्य अगस्तमासस्य पञ्चदशे दिने तेन ‘यथावत्’ इति विचारपत्रिकायाः प्रारम्भः कृतः।

रामबहादुररायस्य प्रमुखेषु प्रकाशितग्रन्थेषु ‘मञ्जिल से ज्यादा सफर’ इति पूर्वप्रधानमन्त्रिणः विश्वनाथप्रतापसिंहस्य जीवनी, ‘रहबरी के सवाल’ इति पूर्वप्रधानमन्त्रिणः चन्द्रशेखरस्य जीवनी, ‘शाश्वत विद्रोही राजनेता—आचार्य जे. बी. कृपलानी’ इति जीवनी, ‘भारतीय संविधान की अनकही कहानी’ इति हिन्दी-उर्दू-अङ्ग्रेजीभाषासु प्रकाशितः ग्रन्थः तथा ‘भानुप्रताप शुक्ल—व्यक्तित्व एवं विचार’ इति ग्रन्थः प्रमुखाः सन्ति।

--------------

हिन्दुस्थान समाचार / Dheeraj Maithani