पूर्वोत्तरे क्रीडाप्रतिभाभ्यः प्राप्स्यते उत्तम: मञ्च:, रक्षाखडसे मिजोरमे क्रीडाव्यवस्थायाः समीक्षां कृतवती
आइजोलम्, १५ सेप्टेम्बरमासः (हि.स.)। केन्द्रीययुवकार्यक्रम-क्रीडाराज्यमन्त्री रक्षाखडसे मिजोरमस्य भ्रमणावसरे राज्यस्य क्रीडापरिसंस्थायाः समीक्षां कृतवती। सा क्रीडामूलसंरचनां सुदृढां कर्तुम्, क्रीडकाणां कृते उत्तमसुविधाः प्रदातुम् तथा पूर्वोत्तरस्य य
पूर्वोत्तरे क्रीडाप्रतिभाभ्यः प्राप्स्यते उत्तम: मञ्च:, रक्षाखडसे मिजोरमे क्रीडाव्यवस्थायाः समीक्षां कृतवती


आइजोलम्, १५ सेप्टेम्बरमासः (हि.स.)। केन्द्रीययुवकार्यक्रम-क्रीडाराज्यमन्त्री रक्षाखडसे मिजोरमस्य भ्रमणावसरे राज्यस्य क्रीडापरिसंस्थायाः समीक्षां कृतवती। सा क्रीडामूलसंरचनां सुदृढां कर्तुम्, क्रीडकाणां कृते उत्तमसुविधाः प्रदातुम् तथा पूर्वोत्तरस्य युवप्रतिभाभ्यः अधिकान् अवसरान् सृजितुं च बलं दत्तवती।

आइजोलम् आगत्य मिजोरमस्य क्रीडा-युवसेवामन्त्री लालंघिंगलोवा हमरः रक्षाखडसे-महोदयायाः स्वागतं कृतवान्। उभयोः मध्ये केन्द्र-राज्ययोः समन्वयस्य, क्रीडासुविधानां विकासस्य तथा स्थानीयप्रतिभानां प्रोत्साहनाय उपायानां च विषये चर्चा अभवत्।

तदनन्तरं रक्षाखडसे भारतीयक्रीडा-प्राधिकरणस्य आइजोलकेन्द्रं गतवती तथा तत्र उपलब्धानां सुविधानां निरीक्षणं कृतवती। सा क्रीडकैः, प्रशिक्षकैः सहयोगिकर्मचारिभिः च सह संवादं कृत्वा तेषां प्रशिक्षणस्य, प्रतियोगितानुभवस्य भविष्याकाङ्क्षाणां च विषये सूचनां प्राप्तवती।

केन्द्रीयमन्त्री अवदत् यत् पूर्वोत्तरस्य क्रीडकाणां कृते गुणवत्तापूर्णप्रशिक्षणेन सह क्रीडाविज्ञानस्य, पोषणस्य, पुनर्वासस्य पर्याप्तप्रतियोगितानुभवस्य च सुविधाः प्रदातुं आवश्यकम् अस्ति, येन ते राष्ट्रिय-अन्ताराष्ट्रियस्तरे उत्तमं प्रदर्शनं कर्तुं शक्नुयुः।

सा खेलो-इण्डिया-योजनायाः भूमिकाया-मपि बलं दत्तवती तथा उक्तवती यत् आधारस्तरेभ्यः प्रतिभाः अभिज्ञाय तासां प्रगतये व्यवस्थिताः अवसराः प्रदीयन्ते। मिजोरमे साई-प्रशिक्षणकेन्द्रम्, आइजोल-मध्ये कृत्रिमहॉकी-तृणक्षेत्रस्य स्थापनं प्रकाशव्यवस्थासम्बद्धा खेलो-इण्डिया-परियोजना च क्रीडासुविधानां सुदृढीकरणस्य दिशि महत्त्वपूर्णानि पदानि इति कथितवती।

रक्षाखडसे अवदत् यत् मिजोरमेन पादकन्दुकक्रीडायां हॉकीक्रीडायां च सहितेषु विभिन्नेषु क्रीडाक्षेत्रेषु पूर्वोत्तरस्य क्षमतायाः प्रमाणं प्रदत्तम् अस्ति। सा मिजोरमस्य प्रथमायाः महिला-ओलम्पिक-क्रीडकायाः प्रथमायाश्च एशियाक्रीडापदकविजेत्र्याः लाल-रेमसियामी हमरजोटे इत्यस्याः उदाहरणं दत्त्वा उक्तवती यत् संस्थागतसहयोगेन स्थानीयप्रतिभानां राष्ट्रियस्तरं प्रति गन्तुं मार्गः प्रशस्तः भवति। लालरेमसियामी अर्जुनपुरस्कार-२०२५ कृते अपि चयनिता अस्ति।

सा अवदत् यत् सर्वकारस्य लक्ष्यं समग्रं क्रीडकविकासतन्त्रं निर्मातुम् अस्ति, यस्मिन् मूलसंरचनया सह प्रशिक्षणस्य, क्रीडाविज्ञानस्य, पोषणस्य, पुनर्वासस्य नियमितप्रतियोगितानां च पर्याप्तं समर्थनं प्राप्येत। पूर्वोत्तरस्य प्रतिभाभ्यः तेषामेव क्षेत्रे उत्तमाः सुविधाः उपलब्धाः कारयितुं अस्मिन् दिशि महत्त्वपूर्णम् अस्ति।

Hindusthan Samachar / Divya Ranjan