Enter your Email Address to subscribe to our newsletters

कोलकाता, १५ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दुअधिकारी मङ्गलवासरे प्रातः भारतरत्नमोक्षगुण्डमविश्वेश्वरैयाय प्रसिद्ध-साहित्यकाराय कथाकाराय च शरत्चन्द्रचट्टोपाध्यायाय: तयोः जयन्त्यव-सरे श्रद्धाञ्जलिम् अर्पितवान्। सः सामाजिकमाध्यमे सन्देशं प्रसार्य उभयोः विभूतयोः योगदानं स्मृतवान्।
मुख्यमन्त्री शुभेन्दुअधिकारी विश्वेश्वरैयं स्मरन् लिखितवान्— “प्रख्यातस्य सिविल-अभियन्त्रिणः, कुशलप्रशासकस्य भारतरत्नमोक्षगुण्डमविश्वेश्वरैयस्य जन्मजयन्त्यवसरे राष्ट्रियाभियन्त्रि-दिवसस्य शुभकामनाः।”
सः शरत्चन्द्रचट्टोपाध्यायं ‘अपराजेय-कथाशिल्पी’ इति वर्णयन् तस्य जयन्त्यवसरे विनम्रां श्रद्धाञ्जलिम् अर्पितवान् तथा साहित्यस्य क्षेत्रे तेन कृतं महत्त्वपूर्णं योगदानं स्मृतवान्।
उल्लेखनीयं यत् मोक्षगुण्डमविश्वेश्वरैयस्य जन्म १५ सेप्टेम्बरमासे १८६१ तमे वर्षे कर्णाटकस्य चिक्कबल्लापुरे अभवत्। देशस्य विकासे जनहिते च तस्य योगदानस्य कृते १९५५ तमे वर्षे भारतस्य सर्वोच्चनागरिकसम्मानेन भारतरत्नेन सः सम्मानितः। तस्य जयन्ती प्रतिवर्षं १५ सेप्टेम्बरमासे अभियन्त्रिदिवसरूपेण आचर्यते।
शरत्चन्द्रचट्टोपाध्यायस्य जन्म १५ सेप्टेम्बरमासे १८७६ तमे वर्षे बङ्गालस्य देबानन्दपुरे अभवत्। सः उपन्यासैः कथाभिश्च तत्कालीनसमाजस्य, परिवारस्य सामान्यजनानां च जीवनं प्रभाव-शालिरूपेण प्रस्तुतवान्। ‘देवदासः’, ‘श्रीकान्तः’, ‘परिणीता’, ‘चरित्रहीनः’ तथा ‘पथेरदाबी’ इत्येतानि तस्य प्रमुखानि रचनानि सन्ति। १६ जनवरीमासे १९३८ तमे वर्षे तस्य निधनम् अभवत्। तस्य रचनाः अद्यापि पाठकेषु लोकप्रियाः सन्ति तथा भारतीयसाहित्ये तस्य योगदानं स्मरणीयम् अस्ति।
Hindusthan Samachar / Divya Ranjan