राष्ट्रमण्डल-क्यू-स्पोर्ट्स-चैम्पियनशिपः अहमदाबादे इतिहासं रचयितुम् अवतरिष्यति १८-सदस्यीया भारतीयसंघः
अहमदाबादः, १५ सेप्टेम्बरमासः (हि.स.)। भारतस्य श्रेष्ठाः क्यू-स्पोर्ट्स-क्रीडाप्रतिभाः अक्तूबरमासे अहमदाबादे इतिहासं रचयितुम् उद्दिश्य क्रीडाङ्गणे अवतरिष्यन्ति। राष्ट्रमण्डल-क्यू-स्पोर्ट्स-चैम्पियनशिप इत्यस्य द्वितीयसंस्करणाय १८-सदस्यीयस्य भारतीयदलस
चित्रा मागीमाराज


अहमदाबादः, १५ सेप्टेम्बरमासः (हि.स.)। भारतस्य श्रेष्ठाः क्यू-स्पोर्ट्स-क्रीडाप्रतिभाः अक्तूबरमासे अहमदाबादे इतिहासं रचयितुम् उद्दिश्य क्रीडाङ्गणे अवतरिष्यन्ति। राष्ट्रमण्डल-क्यू-स्पोर्ट्स-चैम्पियनशिप इत्यस्य द्वितीयसंस्करणाय १८-सदस्यीयस्य भारतीयदलस्य घोषणा कृता अस्ति। प्रथमवारं एषा प्रतिष्ठिता बहुविधाक्रीडाप्रतियोगिता भारते आयोजिता भविष्यति।

चैम्पियनशिप इत्यस्य आयोजनं ७ तः १० अक्तूबरपर्यन्तम् अहमदाबादस्य वीर-सावरकर-क्रीडासङ्कुले करिष्यते। अस्यां प्रतियोगितायां राष्ट्रमण्डलस्य प्रायः ४६ देशानां क्रीडकाः आङ्ग्लबिलियर्ड्स्, स्नूकर्, १०-बॉल-पूल, हेयबॉल तथा ब्लैकबॉल इत्येतेषु क्रीडाप्रकारेषु भागं गृह्णन्ति।

एपेक्स-स्पोर्ट्स-प्रमोशन-संस्थया आयोजितायां तथा बिलियर्ड्स्-एण्ड्-स्नूकर-फेडरेशन-ऑफ-इण्डिया-संस्थया आतिथ्यं क्रियमाणायां अस्यां चैम्पियन-शिपस्पर्धायां वर्ल्ड-कॉन्फेडरेशन-ऑफ-बिलियर्ड्स-स्पोर्ट्स तथा कॉमनवेल्थ-स्पोर्ट् इत्यनयोः मान्यता अस्ति। भारतीय-क्यू-स्पोर्ट्स-क्रीडायै महत्त्वपूर्णम् अवसरं भवितुम् अपेक्षिता एषा प्रतियोगिता बीएसएफआई-संस्थायाः शताब्दीसमारोहस्य प्रमुखः भागः अपि अस्ति।

भारतस्य २०२५ तमे वर्षे मॉरीशसदेशे आयोजितायां प्रथमायां राष्ट्रमण्डल-क्यू-स्पोर्ट्स-चैम्पियनशिपस्पर्धायां पञ्च पदकानि प्राप्तानि आसन्। तेषु विद्यापिल्लै-महोदयायाः महिलाहेयबॉल-क्रीडायां सुवर्णपदकं, शिवम-अरोडामहोदयस्य पुरुषहेयबॉल-क्रीडायां रजतपदकं तथा चित्रामागीमाराज-महोदयायाः महिला१०-बॉल-पूल-क्रीडायां रजतपदकं समाविष्टम् आसीत्। त्रयाणाम् एतेषां क्रीडकाणां कृते अस्मिन् वर्षे प्रत्यक्षप्रवेशः प्राप्तः अस्ति तथा ते स्वदेशीयभूमौ स्वपदकानां सङ्ख्यां वर्धयितुम् उद्दिश्य क्रीडिष्यन्ति।

विद्यायाः शिवस्य च उपरि भविष्यति विशेषं ध्यानम्

गतचैम्पियनशिप इत्यस्य राष्ट्रमण्डल-महिलाहेयबॉल-विजेत्री विद्यापिल्लै भारतस्य प्रमुखपदकप्रत्याशासु अन्यतमा अस्ति। सा गतवर्षे मॉरीशसदेशे दक्षिणाफ्रिकादेशस्य मरीना-जैकब्स इत्यस्याः विरुद्धं रोमाञ्चकप्रकारेण निर्णायकक्रीडायां विजित्य सुवर्णपदकं प्राप्तवती। अधुना तस्याः पुरतः स्वदेशीयदर्शकानां सम्मुखे स्वविजेता-पदस्य रक्षणस्य अवसरः अस्ति।

शिवम-अरोडापि पुरुषहेयबॉल-क्रीडायां स्वस्य पूर्वप्रदर्शनात् उत्तमं प्रदर्शनं कर्तुम् उद्दिश्य अवतरिष्यति। सः मॉरीशसदेशे रजतपदकं प्राप्तवान् आसीत् तथा अन्तिमक्रीडायां युगाण्डादेशस्य सीजरचण्डिगा इत्यस्मै कठिनां स्पर्धां दत्तवान्। अरोडा अस्मिन् समये रजतपदकं सुवर्णपदके परिवर्तयितुम् इच्छति।

विद्यापिल्लै अवदत्, “प्रथमं राष्ट्रमण्डलविजेतापदं प्राप्तुं मम कृते अत्यन्तं विशेषः क्षणः आसीत्, किन्तु भारते तस्य रक्षणम् अस्य संस्करणस्य महत्त्वं अधिकं वर्धयति। एतादृशस्तरीयायाः महत्त्वपूर्णायाः प्रतियोगितायाः अहमदाबादे आगमनं तथा स्वसमर्थकानां सम्मुखे क्रीडनम् अस्माभिः सर्वैः उत्सुकतया प्रतीक्ष्यते। राष्ट्रमण्डलस्य विभिन्नेभ्यः देशेभ्यः क्रीडकाः आगमिष्यन्ति तथा स्पर्धा कठिनं भविष्यति इति वयं जानीमः, किन्तु स्वदेशीयदर्शकानां समर्थनम् अस्मभ्यं अतिरिक्तां ऊर्जां दातुं शक्नोति। राष्ट्रमण्डल-चैम्पियनशिपस्पर्धायां पुनरागमनं प्रति अहम् उत्साहिता अस्मि तथा आशासे यत् देशवासिभ्यः उत्सवस्य अवसरं दातुं शक्नोमि।”

अरोडा अवदत्, “मॉरीशसस्य रजतपदकं मम आत्मविश्वासं वर्धितवान्, किन्तु तेन मां अधिकं उत्तमं प्रदर्शनं कर्तुं प्रेरणाऽपि प्राप्ता। भारते, विशेषतः अहमदाबादे, राष्ट्रमण्डल-चैम्पियनशिपस्पर्धायां क्रीडितुम् अस्माकं कृते सर्वथा भिन्नः अनुभवः अस्ति। स्पर्धायाः स्तरः उच्चः भविष्यति इति वयं जानीमः, किन्तु अस्माकं सज्जता विजेतामञ्चस्य शीर्षस्थानाय अस्ति। एतादृशस्तरीयायाः अन्ताराष्ट्रिय-चैम्पियनशिपस्पर्धायाः आयोजनं भारतस्य क्यू-स्पोर्ट्स्-क्रीडायै महत्त्वपूर्णः अवसरः अस्ति तथा वयम् अस्य पूर्णं लाभम् उपयोक्तुम् इच्छामः।”

अनुभवै: क्रीडकैः सह युवप्रतिभाः

भारतीयदले अनुभवीभिः अन्ताराष्ट्रिय-क्रीडकैः सह उदयमानप्रतिभाभ्यः अपि स्थानं प्रदत्तम् अस्ति।

महिलावर्गे वर्तमान-आईबीएसएफ-महिलाविश्व-स्नूकर-विजेत्री अनुपमारामचन्द्रन् आङ्ग्लबिलियर्ड्स-क्रीडायां रेवन्ना-उमादेवी इत्यनया सह भारतस्य स्मस्याया: नेतृत्वं करिष्यति। २०२६-वर्षस्य एशियाई-महिला-स्नूकर-विजेत्री कीर्तनापाण्डियन स्नूकर-क्रीडायां श्रुतिलक्ष्मीनारायणन् तथा इशिकाशाह: इत्याताभ्यां सह भारतीयाभियानम् अग्रे नेष्यति।

द्विवारं विश्व-महिला-आङ्ग्लबिलियर्ड्स-विजेत्री तथा राष्ट्रमण्डल-महिला-१०-बॉल-पूल-क्रीडायां रजतपदकविजेत्री चित्रामागीमाराज १०-बॉल-पूल-क्रीडायां नीनाप्रवीणया एमीकामानी इत्यनया च सह क्रीडिष्यति। किशोरप्रतिभा नताशाचेतन ब्लैकबॉल-क्रीडायां भारतस्य महिलादलं सुदृढं करिष्यति।

पुरुषदले सिद्धार्थपारिखः, लक्ष्मणरावतः सुन्दीपगुलाटी च इत्यादयः अनुभवी-क्रीडकाः सन्ति। एतै: सह रेयानरजमी तथा पारसगुप्ता इत्याद्याः युवप्रतिभाः अपि चुनौतीं प्रदास्यन्ति। २०२६-वर्षस्य डब्ल्यूपीए-हेयबॉल-विश्वचैम्पियनशिपस्पर्धायाम् उत्कृष्टं प्रदर्शनं कृतवान् रावतः उत्तमां स्थितिं प्राप्य अहमदाबादम् आगमिष्यति तथा स्नूकर-क्रीडायां तेन सह आदित्यमेहता भविष्यति।

पुरुष-१०-बॉल्-पूल्-क्रीडायां दिव्यशर्मा भारतस्य समस्यां प्रस्तुतं करिष्यति, यदा तु सुन्दीपगुलाटी ब्लैकबॉलक्रीडायां भागं गृह्णीयात्।

चैम्पियनशिपस्पर्धायां पुरुष-महिलावर्गयोः सम्मिलितरूपेण दश पदकसमूहाः पणरूपेण स्थापिताः भविष्यन्ति। अस्मिन् वर्षे प्रथमवारं बिलियर्ड्स-क्रीडा राष्ट्र-मण्डल-क्यू-स्पोर्ट्स-चैम्पियनशिप इत्यस्य कार्यक्रमे समाविष्टा अस्ति।

भारतस्य १८-सदस्यीयं दलम्

पुरुषाः: आङ्ग्लबिलियर्ड्स्-क्रीडायां सिद्धार्थपारिखः तथा रेयानरजमी, स्नूकर्-क्रीडायां लक्ष्मणरावतः तथा आदित्यमेहता, हेयबॉल्-क्रीडायां शिवम-अरोडा (प्रत्यक्ष-प्रवेशः) तथा पारसगुप्ता, १०-बॉल-पूल-क्रीडायां दिव्यशर्मा तथा ब्लैकबॉल-क्रीडायां सुन्दीपगुलाटी।

महिलाः: आङ्ग्लबिलियर्ड्स-क्रीडायां अनु-पमारामचन्द्रन् तथा रेवन्नाउमादेवी, स्नूकर-क्रीडायां कीर्तनापाण्डियन, श्रुति-लक्ष्मीनारायणन् तथा इशिकाशाह:, हेयबॉल-क्रीडायां विद्यापिल्लै (प्रत्यक्ष-प्रवेशः) तथा एमीकामानी, १०-बॉल-पूल-क्रीडायां चित्रामागीमाराज: (प्रत्यक्षप्रवेशः) तथा नीनाप्रवीण:, ब्लैकबॉल-क्रीडायां नताशाचेतन।

Hindusthan Samachar / Divya Ranjan