गढ़वालविश्वविद्यालये तृतीय-पञ्चम-सप्तमसत्रेषु प्रवेशाय प्रवेशपटलं पुनः उद्घाटितम्।
श्रीनगरम् (गढ़वालः), 15 सितंबरमासः (हि.स.)।हेमवतीनन्दनबहुगुणागढ़वालविश्वविद्यालयस्य परिसरेषु स्नातक-स्नातकोत्तरपाठ्यक्रमाणां तृतीय-पञ्चम-सप्तमसत्रेषु प्रवेशाय ऑनलाइनशुल्कं निक्षेप्तुं प्रवेशपटलं पुनः उद्घाटितम् अस्ति। विश्वविद्यालयस्य छात्रकल्याणा
हेमवती नंदन बहुगुणा गढ़वाल विश्वविद्यालय परिसर।


श्रीनगरम् (गढ़वालः), 15 सितंबरमासः (हि.स.)।हेमवतीनन्दनबहुगुणागढ़वालविश्वविद्यालयस्य परिसरेषु स्नातक-स्नातकोत्तरपाठ्यक्रमाणां तृतीय-पञ्चम-सप्तमसत्रेषु प्रवेशाय ऑनलाइनशुल्कं निक्षेप्तुं प्रवेशपटलं पुनः उद्घाटितम् अस्ति।

विश्वविद्यालयस्य छात्रकल्याणाधिष्ठातृकार्यालयस्य अनुसारं द्वितीयसत्रस्य पृष्ठपत्रपरीक्षाणां च परिणामानां घोषणानन्तरं निर्धारितां न्यूनतम-क्रेडिट-आवश्यकतां पूर्णवन्तः विद्यार्थिनः एव प्रवेशाय पात्राः भविष्यन्ति। पात्रविद्यार्थिनां कृते ऑनलाइनशुल्कनिक्षेपणस्य प्रवेशपटलं सितम्बरमासस्य चतुर्दशे दिने पुनः उद्घाटितम् अस्ति।

विद्यार्थिभ्यः सम्बन्धितैः प्रवेशसमितिभिः सह सम्पर्कं कृत्वा प्रवेशप्रक्रियां पूर्णां कर्तुं निर्धारितं शुल्कं च निक्षेप्तुं निर्देशाः प्रदत्ताः सन्ति। शैक्षणिकसत्रे द्विसहस्रषड्विंशति- सप्तविंशत्यां प्रवेशस्य अन्तिमतिथिः सितम्बरमासस्य एकविंशतितमः दिवसः निर्धारितः अस्ति।

छात्रकल्याणाधिष्ठाता प्रोफेसर् ओमप्रकाशगुसाईं मङ्गलवासरे विद्यार्थिभ्यः निर्धारितसमयसीमायाः अन्तः प्रवेशप्रक्रियां पूर्णां कर्तुं आह्वानं कृतवान्। एषा सूचना विश्वविद्यालयस्य सर्वेभ्यः अधिष्ठातृभ्यः, परिसरनिदेशकेभ्यः, विभागाध्यक्षेभ्यः सम्बन्धिताधिकारिभ्यश्च अपि प्रेषिता अस्ति।

-------------

Hindusthan Samachar / Dheeraj Maithani